________________
२१.६]
प्रथमः प्रत्यक्षप्रस्ताव वान्तराणाञ्च अवयविशून्यत्वापत्तेः । नापि युगपत् ; अप्रतिपत्तेः । न हि यदा तदेकावयवसम्बद्धतया विशिष्टप्रत्ययोपारूढं तदैव तदन्यावयवसम्बद्धतया शक्यं प्रतिपत्तं विरोधात् । न हि नीलं नीलतया प्रतीयमानमेव पीततया बुद्धिशिखरमध्यारोहति, ततो यथा नीलबुद्धिवेद्यं नीलमेव न पीतं तथैकावयवसम्बद्धमेव तत् बुद्धिवेद्यं नावयवान्तरसम्बद्धम् । यत्तु तत्सम्बद्धं तद्र्व्यान्तरमेव भवितुमर्हतीति कथमवयविनोऽपि एकत्वम् ? तद्वहुत्वस्यैवोपपत्तेः । न चैका-५ वयवसम्बद्धं तत्प्रत्ययवेद्यं च तन्न भवति, अवयवान्तरापेक्षयापि तथा प्रसङ्गात् । तदन्तरस्यापि स्वत एकैकत्वात् । न चैकैकसम्बन्धादन्यः तत्कलापसम्बन्धः। तस्यैव वीप्स्यमानस्य कलापगोचर• तया व्यवहारोपरूढत्वात् से कवत् । सेकस्य हि प्रतितरु सम्भवत एव प्रसिद्धं वीप्सया तत्कलापगोचरत्वम् । ततः प्रत्येकमसम्बन्धे सम्बन्धवैकल्यमेवावयावनः प्राप्तम् । तन्मा भूदिति प्रत्येकमेव सम्बन्धः, तत्र च प्रत्यवयवं बहुत्वमेव अवयविनो नैकत्वम् । न येनात्मना १० तदेकावयवसम्बद्धं तेनैवावयवान्तरसम्बद्धतया वेद्यं यदयं प्रसङ्गः स्यात् , अपि तु आत्मान्तरेणैवेति चेत् ; न ; स्वभावभेदाभावात् । तद्भावे निरंशवादव्यापत्तेः, भिन्नावयवकल्पना. वैफल्याञ्च । तदुक्तम्
"एकस्यानेकवृत्तिर्न भागाभावादहूनि वा।
भागित्वाद्वास्य नैकत्वं दोषो वृत्तेरनार्हते ॥” [आप्तमी० इलो० ६२] इति । १५
ननु यद्यवयविनो न प्रतिपत्तिः क्व तदा क्रमयोगपद्याभ्यां वृत्तिपर्यनुयोगः ? धर्मपर्यनुयोगस्य सत्येव धर्मिण्युपपत्तेः, प्रतिपत्तावपि किं तत्पर्यनुयोगेन ? युगपदनेकावयववृत्तिमत एव तस्य प्रतिपत्तेः, तथा प्रतिपन्नस्य चाशक्यप्रतिक्षेपत्वादिति चेत् ; सत्यम् , अस्ति प्रतिपत्तिः , न तु सा प्रमाणम् , तत्प्रामाण्यस्यैव वृत्तिपर्यनुयोगेन प्रतिक्षेपात् । सँ एव तत्प्रतिपत्त्या किन्न प्रतिक्षिप्यत इति चेत् ; 'नीलं तदैव कथमनीलम्' इत्यपि पर्यनुयोगः 'सर्व २० सर्वात्मकम्' ति प्रतिपत्त्या किन्न प्रतिक्षिप्यते ? तस्याः प्रत्यक्षप्रत्यनीकत्वात्, न हि नीलमेव भवदनीलं प्रतिभासत इति चेत् ; समानमन्यत्र, अवयविप्रतिपत्त रपि तत्प्रत्यनीकत्वात् । न हि निरंशस्यावयविनोऽपि प्रत्यक्षे प्रतिभासनमस्ति ।
यद्येवं निर्विषयमेव तंत्स्यात् , परमाणूनामतीन्द्रियत्वेन तद्विषयत्वायोगादिति चेत् ; न; कथञ्चिदवयवाभेदिनस्तस्य तद्विषयत्वात् , अवयविवत् तदवयवाभेदस्यापि तत्र प्रतिभासनात् । २५ अत एव तन्तवः पटीकृता इति व्यवहारः। न ह्ययम् अपटात्मनां पटभावापत्तिमन्तरेण घटा. मटति । अभूततद्भावे सत्येव च्चिप्रत्ययोपपत्तेः। अवयवतद्वतोः पृथक्त्वाग्रहणादयमभेदप्रतिभासो न वस्तुवृत्तेन अभेदभावात् , "सेनावनप्रतिभासवत् । न हि "सेनावनप्रतिरूपस्याभेदस्य भावात्त
१-सम्बन्धतया आ०, ब.,प०। २ तथा यथा भा०, ब०,०।३ अवयविद्रव्यम् । ४-चरत्वं कथं ततः आ०, ब०, ५०।५-कं सम्ब-आ०, ब०, ५०। ६ स्वभावभेदे। ७ अवयविनः। ८ वृत्तिपर्यनुयोगएव । ९ प्रत्यक्षम् । १० अवयविनः । ११"कर्मकर्तृभ्यां प्रागतत्त्वे चिः (शाकटा० ३४५५)" ता०टि०।१२ -वनादिप्रति -भा०, ब०, प० । १३ -नावनं प्रति-आ०, ब०,०सेनावनात्मकस्य अभेदस्य ।