________________
४१६
न्यायविनिश्चयविवरणे
[ १११०६
५
"
त्प्रतिभासः, प्रत्यासत्तावपि प्रसङ्गात् अपि तु दूरात् पृथक्त्वापरिज्ञानादेव, तद्वत् अवयव तद्वतो पीति चेत्; न; स्थूलप्रतिभासस्याप्येवं परमाणुष्वेव प्रसङ्गात् ! भवत्ययं प्रसङ्गो यदि परमाणवः पृथक्त्वेनापि कदाचिदुपलभ्येरन् तदा कुतश्चिद्गृहीतपृथक्त्वानां तेषामेव स्थूलबुद्धिविपयत्वमिति । न चैवम्, सर्वदा तेपामतीन्द्रियत्वेनासाक्षात्करणात् । न चातीन्द्रियाणामेव करितुर गादीनां धवखदिरादीनाञ्च पृथक्त्वापरिज्ञानात् सेनावनबुद्धिविषयत्वमुपलब्धम् प्रत्यासत्तौ पृथक्तया दृष्टानामेव तेषां दूरतः पृथक्त्वापरिज्ञाने तद्बुद्धिगोचरत्वप्रतिपत्तेः । अतो न सेनावनादिप्रतिभासदृष्टान्तात् परमाणुषु स्थूलप्रतिभासोपकल्पनमुपपन्नं वैषम्यादिति चेत् ; नेदानीमवयवतद्वतोरपि पृथक्त्वापरिज्ञानादभेदबुद्धिः तयोरपि पृथक् कदाचिदप्यप्रतिपत्तेः । न हि निरंशमेवावयविनं तदवयवकलापं च क्वचिदपि सम्पश्यामो यतस्तयोरेव कुतश्चित्पृथक्त्वापरिज्ञानादभेद१० बुद्धिगोचरत्वं परिकल्पयेम |
१५
यत्पुनरेतत्- अणुपु स्थूलप्रत्ययस्य अतस्मिंस्तत्प्रत्ययत्वम्; न; प्रधानापेक्षित्वात् । भवितव्यं स्थूल एव तत्प्रत्ययेन प्रधानभूतेन । न ह्यसति पुरुप एत्र पुरुषप्रत्यये स्थाणौ तत्प्रत्ययो दृष्टः । न चावयविनः सम्भवति प्रधानस्तत्प्रत्ययः, तदभावात् । तत्कथं परमाणुष्वप्रधानस्तप्रत्यय इति ? तदपि न युक्तम्; अवयवतद्वतोरभेदप्रत्ययस्याप्येवमभावप्रसङ्गात् । न हि तस्याप्य तस्मिंस्तत्प्रत्ययत्वेन प्रधाननिरपेक्षस्योत्पत्तिः । न च कथञ्चिद्वादमनिच्छतः कश्चिदपि मुख्यः कथचिदभेदप्रत्ययः सम्भवति, तदभावे च कथं तदपेक्षी परस्परैकान्तभिन्नयोरवयवतद्व. तोस्तत्प्रत्ययः सम्भवेत् । ततो यदि पृथगपरिज्ञातयोरप्यवयवतद्वतोः पृथक्त्वापरिज्ञानादभेदप्रत्ययः परमाणुष्वेव ताशेषु ततः स्थूलप्रतिभासो भवेत् । तदाह- 'कारणस्य' इत्यादि । कारणस्य पृथक्त्वापरिज्ञानलक्षणस्य अक्षये अवयवतद्वतोरिव परमाणुष्वपि भावे कार्यस्य अभेदप्रत्ययवत् स्थूलप्रतिभासनस्य उपरमो निवृत्तिः कथम् ? न कथञ्चिदिति ।
२०
अस्तु समवायात्तयोरभेदप्रत्यय इति चेत्; न; तस्मात् 'इहेदम्' इति भेदप्रत्ययस्योपगमात् तद्धेतोश्चाभेदप्रत्यय हेतुत्वानुपपत्तेः । कथं वा ततस्तयोस्तत्प्रत्ययः ? सम्बन्धादिति चेत्; केन सम्बन्धः ? तादात्म्येनेति चेत्; न; परमतानुप्रवेशापत्तेः । सम्बन्धान्तरेणेति चेत्; न; तेनाप्यसम्बद्धेन तदयोगात् । तस्यापि सम्बन्धान्तरेण सम्बन्धे अनवस्थोपनिपातात् । स्वत एव समवायस्य सम्बन्ध इति चेत्; न; अवयवतद्वतोरेव स्वतस्तत्प्रसङ्गात् । असम्बन्धत्वान्नेति चेत्; समवायस्य कुतः सम्बन्धत्वम् ? स्वतः सम्बन्धाच्चेत्; सोऽपि कस्मात् ? सम्बन्धत्वाच्चेत्; न; परस्पराश्रयात् - स्वतः सम्बन्धात् सम्बन्धत्वम् ततश्च इति ।
२५
3
१ सामीप्येऽपि । २ अणुस्थू-आ०, ब०, प० । ३ स्थूलप्रत्ययेन । ४ स्थूलप्रत्ययः । ५ - वाकथं आ०, ब०, प० । ६ पृथक्त्वेनापरिज्ञानेषु । ७ समवायात् । ८ सम्बन्धान्तरेणापि । ९ प्यसम्बन्धेन आ०,
ब०, प० ।