________________
११०६ ]
प्रथमः प्रत्यक्ष प्रस्तावः
४१७
अथायं तस्य स्वभावो यदयमसम्बद्धोऽपि तयोरभेदप्रत्ययमुपजनयतीति; तन्न; तन्तुपेटोरि कपालपदयोरपि ततस्तत्प्रसङ्गात् । तन्तुपटयोरेव तस्य तज्जननस्वभावो न कपालपटयोरिति चेत्; कपालघटयोस्तर्हि कुतस्तत्प्रत्ययः ? समवायान्तरादिति चेत्; न; "तत्त्वं भावेन व्याख्यातम्” [वै० सू० ७२२८] इति तदेकत्वकथनविरोधात् । एकस्यापि तत्र तत्र स्वभावभेदान्नायं दोष इति चेत्; न; स्वभावभेदस्य कथञ्चित्तदर्थान्तरत्वे अनेकान्तवादप्रत्युज्जी - ५ वनापत्तेः । सर्वथाऽर्थान्तरत्वे तु कथं स तस्येति व्यपदेश: ? सम्बन्धादिति चेत्; न ; तत्रापि प्रतिस्वभावं तत्स्वभावभेदकल्पनायाम् अव्यवस्थितिप्रसङ्गात् । ततो निर्विभाग एव समवायः, ततः कथं तन्तुपटयोरेवाभेदप्रत्ययो न कपालंपटयोरप्यविशेषात् । तदाह- 'कारणस्य' इत्यादि । कारणस्य समवायस्य अक्षये तन्तुपटवत्कपालपटादावपि भावे कार्यस्य पूर्वत्रेवोर्त्तरत्राप्यभेदप्रत्ययस्य उपरमो निवृत्तिः कथम् ? न कथञ्चिदिति ।
१०
समवायस्याविशेषेऽपि समवायिनामस्ति विशेषो यतस्तन्तुष्वेव पटस्याभेदप्रत्ययो न कपालादिष्विति ततोऽयमदोष इति चेत्; किमिदानीं समवायेन ? अविष्वग्भावज्ञानस्य तत्फलतयेष्टस्य समवायिविशेषादेव भावात् । कथं चाविष्वग्भावप्रत्ययस्य मिध्यात्वे ततः घटादेरपि प्रतिपत्तिः ? मिध्याप्रत्ययात्तद्योगात् । अन्यत एव तत्प्रतिपत्तिरिति चेत्; न; युगपत्प्रत्ययद्वयस्याप्रतिवेदनात् । क्रमेण प्रतिवेदनमिति चेत्; न; तथाननुभवात् । न हि पटादितदभेद - १५ प्रत्यययोः पौर्वापर्यस्यानुभवः ; तथानिश्चयाभावात् । निश्चयात्मा च भवतामनुभवः, स कथं तदभावे भवेत् ? कथं वा पटादेरभेदप्रत्ययेनाप्रतिपत्तौ तदधिष्ठानत्वेनाभेदप्रतिपत्तिः 'तन्तवः पटोभवन्ति' इति ? विद्यते चेयम्, तस्मादेक एवायं प्रत्ययो मिथ्यात्मेति कथमतः पटादितत्त्वं प्रसिद्ध्य ेत् ? यतोऽवयविव्यवस्थापनेन योगाः सौगतमतिशयीरन् ।
अभेदभाग एवायं प्रत्ययो मिथ्या बाध्यमानत्वात् न पटादौ विपर्ययादिति चेत् ; २० कथमेक एवायं मिथ्या च अभिध्या च विरोधात् ? अन्यथा प्रतिपत्त्यभावान्न विरोध इति चेत् ; अनुकूलमाचरितम् अत एव बहिरर्थस्याप्यवयविरूपतया नानैकस्वभावस्य सिद्धेः । ततो न निरंशावयव्यभावेऽपिं प्रत्यक्षस्य निर्विषयत्वम् ; जात्यन्तरविषयत्वेन सविषयत्वात् । तदुक्तम् - " जात्यन्तरं तु पश्यामः " [ सिद्धिवि० परि० २] इति ।
,
तन्न निर्विषयत्वप्रसङ्ग भयात् प्रत्यक्षस्य निरंशावयविनः कल्पनमुपपन्नम् असत्यपि २५ तस्मिन् तद्भयाभावात् । न चैत्रम्, अप्रतीत एव तस्मिन् वृत्तिपर्यनुयोगः; परोपगमतस्तस्य प्रतीतेः । प्रतीयमानस्य वृत्तिमत एव प्रतीतेर्निस्वर्सर एव तत्र तत्पर्यनुयोग इति चेत् ; कथमिदानीं सर्वैकभावभावनैरात्म्यादावपि पर्यनुयोगः ? तस्यापि यथाकल्पनं तद्रूपस्यैव प्रतीतेः । कल्प्यत
"
१ अवयवावयविनोः । २ - पटयोरेव कपालघट - आ०, ब०, प० । ३ तत्रमेकत्वं भावेन सत्तया इव, यथा स्वलिङ्गाविशेषात् विशेषलिङ्गाभावाच्चैकत्वं सत्तायाः तथा समवायस्यापि इति भावः । ४ स्वभावभेदः । ५ -लघटआ०, ब०, प० । ६ पटा-आ०, ब०, प० । ७ -भाव ए-आ०, ब०, प० । ८ अवयविनि । ९ - सरस्तत्र आ०, ब०, प० । १० वृत्तिपर्यनुयोगः ।
५३