________________
न्यायविनिश्चयविवरणे
[१।१०६ एव परमपरैस्तद्रूपं न परिस्फुटज्ञानप्रकाशमुपश्लिष्यतीति चेत् ; समानं वृत्तावपि, सापि परि. कल्प्यत एव भवद्भिर्न तस्या अपि तत्प्रकाशोपश्लेषः क्वचिदपि दृश्यते । न हि निरंशं किाश्चत् क्वचित्क्रमेण यौगपद्येन वा वर्तमानमुपलभेमहि ।
__ यद्येवमनुपलम्भादेव वृत्तिवत् वृत्तिमतोऽप्यभावः साधयितव्यः किं वृत्तिपर्यनुयोगेनेति ५ चेत् ? सत्यम् ; अस्ति ततोऽपि तदभावसाधनम् । “न पश्यामः क्वचित्किञ्चित्सामान्यं वा
खलक्षणम्" [सिद्धिवि०परि० २] इति वचनात् । वृत्तिपर्यनुयोगस्तु व्यापकाभावादपि तदभावनिरूणार्थः,अनेकप्रकारत्वात्तत्त्वनिरूपणस्य । व्यापिका हि वृत्तिवृत्तिमतः परैस्तथैव प्रतिपत्तेः । वृत्तेत्तिमद्रूपत्वे 'कथं तस्यानेकत्र वर्त्तनं युगपन्निरंशस्य' इति भवति पर्यनुयोगः ? न
चैवम् , पदार्थान्तरस्य समवायस्यैव वृत्तित्वात्. , तस्य चानेकत्र भावो विभुत्वात् । तदनेकत्र १० भाव एव वृत्तिमतोऽप्यनेकत्र भाव इति चेत् ; कथं तस्य तद्धर्मो वृत्तिमतः ? तस्य तत्सम्बन्धत्वा.
दिति चेत् ; न; पटस्य तन्तुवत् कपालादिष्वपि सर्वत्र वृत्तिप्रसङ्गात् समवायस्य सार्वत्रिकत्वात् । तस्याविशेषेऽपि समवायिनः पटादेविशेषान्नियम इति चेत् ; कस्य नियमः ? समवायस्येति चेत् ; न; 'सार्वत्रिकश्च नियतश्च' इति व्याघातात् । पटादेरेवेति चेत् ; किमिदानीं समवायेन १ इति न तद्रूपा वृत्तिः, समवायिविशेषस्यैव वृत्तित्वात् । तत्र चोक्तमेव दूषणम् ।
न च समवायो नाम कश्चित् ; प्रमाणाभावात् । न हि तस्य प्रत्यक्षात्प्रतिपत्तिः; पटतन्तुव्यतिरेकेण तदनिर्णयात् , सन्निकर्षाभावाच्च । न तावदसौ संयोगः; द्रव्य एव तेंदुपगमात् । नापि समवायः; तस्यान्यस्यानभ्युपगमात् । नापि संयुक्तसमवायादिः । तस्यापि कचित्समवाया. भावे समवायस्य, असम्भवात् । भवतु सम्बद्धविशेषणभाव इति चेत् ; कथं समवायस्यानाश्रितत्वम् ? सति तस्मिन्नाश्रितत्वस्यैवोपपत्तेः । समवायापेक्षस्यैव तत्राश्रितत्वस्य निषेध इति चेत् ; कुतो दोषात् ? अनवस्थानादिति चेत् ; कुतः सम्बद्धविशेषणभावे स न भवति ? तस्य समवायादनन्तरत्वात् । अर्थान्तर एव तत्प्रसङ्गादिति चेत् ; न; एवं समवायस्यापि पंटादेरनन्तरत्वप्रसङ्गात्-"अविशेषणात् विशेषणत्वस्येव" असम्बन्धादपि सम्बन्धस्यानर्थान्तरत्वाविरोधात् । तथा च स्वरूपवृत्तिरेवोक्तदोषा" स्यात् । तन्न अनाश्रितत्वे समवायस्य समवायान्तरवत्तद्विशेषणभावोऽपि सम्भवतीति कथं "ततोऽपि दर्शनं तस्य ? न चासन्निकर्षे दर्शनम् ; सन्निकर्षवाददैफल्यापत्तेः । तस्मान्न युक्तमुक्तम्-"समवायस्य प्रत्यक्षेणैव प्रतिभासनात्" [ ] इति" । "अत एव चातीन्द्रियः” [प्रश० भा० पृ० १७४] इति प्रशस्तकरवचनविरोधाच्च ।
२०
१ समवायस्यानेकत्र । २ समवायस्य । ३ अनेकवृत्तित्वरूपो धर्मः। ४ समवायस्य । ५ संयोगाभ्युपगमात् । ६ -यादि त-ता०। ७ सम्बद्धविशेषणीभावस्य । ८ अनवस्थादोष । ९ घटा-आ०, ब०, प० । १० विशेषणानात्मकात् समवायात् था विशेषणत्वस्य-सम्बद्धविशेषणभावस्य अनर्थान्तरत्वं तथा सम्बन्धानात्मकात् पटादेरपि समवायस्य अनर्थान्तरत्वं स्यात् विशेषाभावादिति भावः । ११-त्वस्यैव आ०, ब०,१०। १२ -वृत्तेरेवोक्तआ०, ब०, ५०। १३ सम्बद्धविशेषणीभावादपि। १४ “समवाये अभावे च विशेषणविशेष्यभावात्"-न्यायवा० ११।४। "तदेतत् पञ्चविधसम्बन्धसम्बन्धिविशेषणविशेष्यभावात् दृश्याभाव-समवाययोग्रहणम् ।.."समवायस्य तु कचिदेव ग्रहणम्-यथा रूपसमवायवान् घटः घटे रूपसमवाय इति ।"-न्यायसा०पू०३ ।