________________
१।१०६ ]
प्रथमः प्रत्यक्ष प्रस्तावः
४१९
इह प्रत्ययापेक्षमेव तेन तस्यातीन्द्रियत्वमुच्यते तस्य तत्राप्रतिभासनात्, आधारस्यैव हि तत्र प्रतिभासनं न समवायस्य निर्विकल्पे प्रत्यक्षान्तर एव तस्य प्रतिभासनादिति चेत्; न; तस्याविभावनात् । अवयवावयविनो: संश्लेषज्ञानमेव तदिति चेत्; न; तत्र कथञ्चित्तादात्म्यस्यैव प्रतिभासनादिति निरूपणात् । ततो न युक्तमेतदपि व्योमशिवस्य - "निर्विकल्प के त्ववयवावयविनोः संश्लेषज्ञाने समवायः प्रत्यक्ष एव" [प्रश० व्यो १०६९९ ] इति । तन्न तत्र प्रत्यक्षं प्रमाणम् । ५
"
नाप्यनुमानम् ; तदभावात् । ननु इदमस्ति - इह 'शाखासु वृक्ष इति प्रत्यय: सम्बन्धपूर्वकः, निर्वाधत्वे सति इह प्रत्ययत्वात्, कुण्डे दधीति प्रत्ययवदिति चेत्; न; अतो तादात्म्यस्यैव सम्बन्धस्योपपत्तेः । ननु तादात्म्यं नाम वृक्षस्य शाखाभिस्तासां वा वृक्षेणैकत्वमेव, तत्कथं सम्बन्ध: ? सम्बन्धस्य द्विष्टतयैवोपपत्तेरिति चेत ; न; एकान्तेनैकत्वाभावात् द्विष्ठताया अप्युपपत्तेः । कथं पुनर्भेदाभेदयो रेकविधेरन्यतरप्रतिपेधरूपत्वात् एकत्र धर्मिणि सम्भव १० इति चेत् ? कथं विभ्रमेतरयोरेकत्र ज्ञाने सम्भवः तदविशेषात् ? मा भूदिति चेत्; किं पुनरिदानीम् ' इह प्रामे वृक्षा:' इति ज्ञानमभ्रान्तमेव ? तथा चेत्; कि तद्व्यवच्छेदार्थेन निर्बाधताविशेषणेन ? भ्रान्तमेव, सम्बन्धाभावेऽपि ग्रामारामव्यवधानादर्शनादुत्पत्तेरिति चेत्; कथं ततो ग्रामादेरपि प्रतिपत्तिः मिथ्याज्ञानस्य वस्तुविषयत्वायोगात् ? न च प्रामादिरवस्त्वेव बाधाविरहात् । न च तद्विरहविषयस्यावस्तुत्वम् ; अतिप्रसङ्गात् । अभ्रान्तमेव ग्रामादौ तदिति चेत ; १५ कथमेकमेव भ्रान्तमभ्रान्तञ्च विभ्रमेतरयोरप्येकविधानस्य इतरप्रतिषेधरूपत्वेन एकत्रायोगात् ? प्रतिभासभेदेन च भेदस्यैवोपपत्तेः । विलक्षणो हि विभ्रमप्रतिभासादितरप्रतिभासः ; तत्कथं तस्य तदेकविषयत्वम् ? प्रतिभासस्यापि न सर्वथा भेदः, कथञ्चिदभेदस्यापि प्रतिभासनादिति चेत्; अनुकूलमाचरसि अवयवतद्वतोरप्येवं कथचिदभेदोपपत्तेः अभेदप्रतिभासाविशेषात् । अस्ति हि तत्रापि भेदवदभेदस्यापि प्रतिभासः, शाखाचलने वृक्षश्वलतीति प्रत्ययात् । न त्यन्तत्र्यतिरेके शाखा वचनं वृक्षे शक्यं प्रतिपत्तुम् । समवायाच्छक्यमेवेति चेत्; कथं ततोऽपि शाखाया वृक्षत्वेन प्रतिपत्तिः इहेतिप्रत्ययाभावप्रसङ्गात् ? न हि तद्रूपप्रतिपत्तितोरेव तदधिकरणत्वप्रतिपत्तिः, विरोधात् । न हि नीलं नीलतया प्रत्याययदेव तदधिकरणतया प्रत्याययदुपलब्धम् । न च शाखावत् शस्यापि चलनादेव तत्र चलनप्रत्ययः ; चलनद्वयस्यानुपलम्भात् " व्याप्त्या तत्प्रसङ्गाच्च । न हि निरंशस्याव्याप्त्या तत्सम्भव: ; निरंशत्वं व्यापत्तेः । ततः शाखाचलनमेव वृक्षस्यापि चलनमिति कथं शाखातादात्म्यं वृक्षस्य प्रतीतिसिद्धं न भवेत्, यतस्तत्रार्थान्तरसम्बन्धप्रतिज्ञा प्रतीतिप्रतिक्षिप्ता हेतवश्च विरुद्धा न भवेयुः ? तदेवाह -
२०
"
"
१ प्रशस्त करेण । २ इहप्रत्यये । ३ समवायस्य । ४ " इह तन्तुषु पट इत्यादीहप्रत्ययः सम्बन्धकार्यः अबाध्यमानेहप्रत्ययत्वात् । यो योऽबाध्यमानेहप्रत्ययः स सम्बन्धकार्यः यथेह कुण्डे दधोति तथा चायमबाध्यमानेहप्रत्ययः तस्मात्सम्बन्धकार्य इति । ” - प्रश० व्यो० पृ० १०९ । प्रश० कन्द० पृ० ३२५ । ५ - पपत्तिरि६ चलनं तत्र प्रत्यय - आ०, ब०, प० । ७ सर्व देशावच्छेदेन ।
८ - शस्य भ्या
आ०, ब०, प० । आ०, ब०, प० ।
२५