________________
४२०
न्यायविनिश्चयविवरणे
[१।१७ समवायस्य वृक्षोऽत्र शाखावित्यादिसाधनैः।।
अनन्यसाधनैः सिद्विरहो लोकोत्तरास्थितिः ॥१०७॥ इति ।
समवायस्य वृक्षाशाखादीनामयुतसिद्धानाम् अत्यन्तव्यतिरेकिणः सम्बन्धस्य आस्थितिः आस्था प्रतिज्ञा लोकोत्तरा लोकं दर्शनप्रत्ययम् उत्तरति उल्लङ्घयतीति ५ लोकोत्तरा प्रत्यक्षनिराकृनेति यावत् ।
प्रत्यक्षेण हि तादात्म्यं गृह्णता वृक्षशाखयोः । भिन्नसम्बन्धसन्धेय' कथन्न प्रतिपिध्यते ? ॥१००८॥ ततः प्रत्यक्षनिलप्तपक्षानन्तरभावतः। ...
कालात्ययापदिष्टत्वं हेतृनामिति गन्यते ॥१००९॥
सिद्धिप्तिस्तस्या रहस्त्यागः सिद्विरहः सिद्ध्यभाव इति यावत् । कस्य ? समवायस्य । कैः ? 'वृक्षोऽत्र शाखासु' इति एवं रूपं ज्ञानमभिधानञ्च आदिये. पाम् 'इह तन्तुपु पटः' इत्यादिज्ञानाभिधानानां तान्येव साधनानि तैरिति । न तानि साधनानि, तद्धर्माणाम् इहप्रत्ययत्वादीनां साधनत्वादिति चेत् ; न ; धर्मतद्वतामविष्वग्भा
वापेक्षयैवमभिधानात् । 'यो य इहप्रत्ययः स सम्बन्धपूर्वको यथा कुण्डे बदराणीति प्रत्ययः' १५ इति व्याप्तिदर्शनस्याप्येवमेवोपपत्तेः, अन्यथा हेतोर्याप्तिदर्शने कर्त्तव्ये धर्मिणस्तदुपदर्शनम
सम्बद्धं भवेत् । कथं पुनरितिशब्दस्य आदिशब्देन समासः 'वृक्षः' इत्यादेस्तेनापेक्षणात् ? अनपेक्षणे तु न तद्रूपस्य बुद्धयादेस्तेनोपदर्शनमिति चेत् ; न ; तदनपेक्षतयैव प्रकृतस्य तेनोपदर्शनात् । वृक्ष इत्यादिकं तद्बुद्धौ तत्प्रकरणार्थमुक्तम् । कुतस्तैस्तस्य सिद्धिरहः ? इत्यत्राह
अनन्यसाधनैः यत इति । अन्यः समवायस्तस्य समवायिभ्योऽर्थान्तरत्वात् , तस्मादन्यः २० तादात्म्यपरिणामः तस्य साधनैः विरुद्धैरिति यावत् ।
समवायविरुद्धस्य तादात्म्यस्येह साधनैः । समवायस्य संसिद्धिः कथन्नामोपपद्यते ? ॥१०१०॥ तादात्म्यसाधनत्वञ्च तेषां तद्व्याप्तिनिर्णयात् । विभ्रमाविभ्रमाकारप्रत्यये सुपरिस्फुटम् ॥१०११॥
न हि इह विभ्रमेतराकारयोः ज्ञानमिति' प्रत्ययस्य तादात्म्यसम्बन्धपूर्वकत्वनिर्णयेऽपि शाखादी इहेदम्प्रत्ययस्य तदन्यसम्बन्धपूर्वकत्वसाधनमुपपन्नम् , यथाव्याप्तिनिर्णयमेव अनुमानो. पपत्तेः, अन्यथा अतिप्रसङ्गात् । 'कुण्डे दधि' इति प्रत्ययस्य तदन्यसम्बन्धपूर्वकत्वमेव प्रतिपन्नम् , तत्संयोगस्य ताभ्यामन्यत्वादिति चेत् ; न; प्रत्यासत्तिपरिणामस्यैव संयोगस्यापि प्रत्यक्षेण प्रतिपत्तेः, अन्यत्र विवादात् । न विवादः, अन्वयव्यतिरेकितया प्रतिभासभेदात् भिन्नस्यैव
१-सन्देहः क-आ०, ब०, प० । १ ज्ञानप्र-आ०, ब०, प० ।