SearchBrowseAboutContactDonate
Page Preview
Page 491
Loading...
Download File
Download File
Page Text
________________ १११०८ प्रथमः प्रत्यक्षप्रस्तावः ४२१ संयोगस्य परिज्ञानात् । अन्वयी हि संयोगी सत्यसति च संयोगे तस्योपलम्भात , व्यतिरेकी च संयोगः सत्यपि संयोगिनि तस्याप्रतिपत्तेः ; इत्यपि न युक्तम् ; त दादपि विभ्रमेताराकाराभ्यां ज्ञानस्येव कथञ्चिदेव तद्भेदपरिज्ञानात् । आत्यन्तिकभेदस्य अभेदप्रतिभासेन प्रतिक्षेपात् । संयोगस्यैकत्वे तव्यतिरेकात संयोगिनोरप्येकत्वमिति चेत् ; न; प्रतिसंयोगि भिन्नस्यैव तस्य प्रतिपत्तेः । कथमनुगतरूपाभावे 'कुण्डं संयोगि दधि संयोगि' इत्यनुगतप्रत्यय इति चेत् ; ५ कथम 'संयोगः सम्बन्धः समवायः सम्बन्धः' इत्यनुगतप्रत्ययः, सम्बन्धरूपस्याप्यनुगतस्याऽ. भावात् ? भावे तस्य सप्तमपदार्थत्वापत्तेः । न हि तस्य द्रव्यादीनां पञ्चानामन्यतमत्वम् ; समवायाधारतया तदनभ्युपगमात् । अत एव न समवायत्वम ,समदायनानात्वे अनवस्थानाच्च । तस्मात्संयोगसमवाययोः स्वरूपमेव परस्परसादृश्यात् अनुगतप्रत्ययकारणमङ्गीकर्तव्यम् , तद्वत् दधिकुण्डयोरपि । ततो निपिद्धमेतत् व्योमशिवस्य-"भिन्नेभ्योऽनुगतप्रत्ययस्याऽदर्शनात" १० [प्रश० व्यो० पृ० ] इति भिन्नाभ्यामेव संयोगसमवायाभ्यां सम्बन्धप्रत्ययस्यानुगतस्योपल. म्भात् । तन्न संयोगोऽपि तद्व्यतिरेकी यत्पूर्वकत्वं 'कुण्डे दधि' इति प्रत्ययस्योपकल्प्येत् ? कुतः पुनः समवायाभावे 'शाखासु वृक्षः' इति प्रत्ययः ? इति चेदाह अध ऊर्ध्वविभागादिपरिणामविशेषतः । इति । अध ऊर्ध्वं च ये विभागा मूलशाखारूपा अवयवास्ते आदयो येषां पावमध्य- १५ विभागानां तैः सह परिणामविशेषः कथञ्चिदभेदपरिणामस्तत इति । अभेदपरिणामाद्धि शाखाभिरिह शाखिनः । शाखासु वृक्ष इत्येष प्रत्ययः परिदृश्यते ॥१०१२॥ तत्कथं तदृशेरन्यसम्बन्धपरिकल्पनम् । दृष्टान्यहेतुक्लृप्तौ हि न क्वचित्स्यादवस्थितिः ॥१०१३॥ यदि च 'शाखासु वृक्षः' इति प्रत्ययात्तत्र वृक्षस्य कार्यत्वेन वृत्तिः ; 'वृक्षे शाखाः' इत्यपि प्रत्ययात्तासामपि तत्र तथावृत्तिः प्राप्नुयात् । एवञ्च 'न यावच्छाखा न तावदृक्षः, न यावच्च वृक्षो न तावच्छाखा' इति परस्पराश्रयात् उभयाभावः परस्यापतेदित्यावेदयन्नाह तानेव पश्यन् प्रत्येति शाखा वृक्षेऽपि “लौकिकः ॥१०८॥ इति । तानेव प्रकृतानवयवानवयविनञ्च पश्यन् प्रत्येति प्रतिपद्यते शाखा आधे. ११ २० १ -यी च सं-आ०, ब०, प० । २ -रेकत्वात् ता० । ३ तदभ्युप-आ०, ब०, प० । द्रव्यादिपञ्चान्यतमतमत्वानभ्युपगमात् । ४ समवायाधारत्वादेव । ५ वृक्षे कार्यत्वेन वृत्तिः । ६ -पत्तेरित्या-आ०, ब०, ५०। ७ “पटस्तन्तुष्विवेत्यादिशब्दाश्चमे स्वयं कृताः । शृङ्गं गवीति लोके स्यात् शङ्के गौरित्यलौकिकम् ।"-प्र०, वा. १॥३५० । “वृक्षे शाखा शिलाश्चागे इत्येषा लौकिका मतिः । शिलाख्यपरिशिष्टाङ्गनैरन्तर्योपलम्भनात् ॥ तौ पुनस्ताखिति ज्ञानं लोकातिकान्तमुच्यते ।"-तत्त्व सं० पृ० २६७ ।
SR No.007279
Book TitleNyayvinischay Vivaran Part 01
Original Sutra AuthorVadirajsuri
AuthorMahendrakumar Jain
PublisherBharatiya Gyanpith
Publication Year2000
Total Pages618
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy