________________
પુર
न्यायविनिश्चयविवरणे
[ ११२०८
यभूता वृक्षे आधारभूते, न केवलं तासु वृक्षम, अपि तु तत्रापि ताः प्रत्येतीत्यपि - शब्दार्थः । कः प्रत्येति ? लौकिकः । लोकेन तद्व्यवहारेण चरतीति लौकिको व्यवहारीति यावत् । अनेन व्यवहारप्रसिद्धत्वात् 'वृक्षे शाखा:' इति प्रत्ययस्याशक्यापह्नवत्वमावेदयति । तदेवं समवायस्याभावात् नावयविनः तद्रूपा परमाणुपु वृत्तिरित्यसन्नवासौ कथं तस्य दर्शनं ५ कथं वा ततच्छायातपनिवारणादिकम् ?
तोsपि न तस्य दर्शनम् ? नित्येनात्मनेति चेत्; न; तत्रापि 'कारणस्य' " इत्यादिदोषात् । तथा हि
१०
१५
२०
दर्शनं यदि नित्येन पुंरसाऽर्थस्य प्रकल्प्यते ।
नित्यं तद्दर्शनं किन्न नित्यकारणसम्भवे ? ।। १०१४ ॥
अन्तःकरणसंयोगाद्यपेक्ष्य विरहाद्यपि ।
१०१७ ।।
संयोगो वः कथं क्वापि समवाये निराकृते ॥ १०१५॥ " तद्वयाभावतो न स्यान्निमित्तमपि किञ्चन । " समवायादिनासन्ननिमित्तं यत्परैर्मतम् || १०१६ | ततोऽपेक्ष्यात्ययान्न स्यात्कदाचिदपि तद्दृशिः । सर्वाहप्रतिक्षेपः सति स्थूलेऽपि तत्कथम् ततोऽनपेक्ष एवात्मा दर्शनादि करोत्वयम् । तत्र तत्कार्यनित्यत्वदोषोऽयं दुरुपक्रमः ॥ १०१८ ॥ सकृदेव च तत्कार्यं सर्वं स्यादनपेक्षणात् । क्षणान्तरे त्ववस्तुत्वमहेतुत्वात् ॥ १.१९ ॥ हेतुत्वेऽपि तदा सर्वं तत्कार्यं स्यात्तथा पुनः । न चैवं दृश्यते तस्मान्न नित्येष्वस्ति हेतुता ॥ १०२० ॥
ततो विषयज्ञानहर्षविषादादिकार्यस्य कादाचित्कत्वं क्रमभावञ्चाभ्युपगच्छता काढ़ाचित्की शक्तिरात्मनः क्रमभाविनी चाभ्युपगन्तव्येति कथं तस्य नित्यत्वम् ? शक्तीनां संहकारिरूपतया ततोऽत्यन्तव्यतिरेकादिति चेत्; न; व्यतिरेके शक्तित्वाभावस्य निवेदितत्वात् । यथा पूर्वपूर्वशक्तिपरिहारेण कथञ्चिदुत्तरोत्तरशक्त्युपादानमात्मनः तथा कथञ्चित् नानात्वपारिमाण्डल्यादिपरिहारेणैकस्थूलाद्याकारोपादानं परमाणूनामप्यविरुद्धमिति 'नावयवेभ्यः स्थूल
२५
र्थान्तरम् ।
१ -लं वा ता - आ०, ब०, प० । २ - शब्दः कः आ०, ब०, प० । ३ अवयवी । ४ अवयविनः । ५ " कार - णस्याक्षये तेषां कार्यस्योपरमः कथम् " - ता० टि० । ६ संयोगसमवायाभावतः समवाय्यसमवायिकारणाभावात् । ७ समवायाद्विना तन नि-आ०, ब०, प० । ८ त्वं दो-आ०, ब०, प० । ९ सहकारिसानिध्यं शक्तिरित्युद्योतकरः । " - ता० दि० । १० नावधिभ्यः आ०, ब०, प० ।