________________
११११० ]
प्रथमः प्रत्यक्ष प्रस्तावः
अर्थान्तरत्वे पुनरपि तदाश का पूर्व दूषणमाह
तुलितद्रव्यसंयोगे स्थूलमर्थान्तरं यदि ।
तत्र रूपादिरन्यश्च साक्षैरीक्ष्येत सादरैः ॥ १०९॥ इति ।
४२३
तुलितानाम् उन्मानपरिच्छिन्नानां द्रव्याणां तन्तुवीरंणादीनां संयोगे स्थूलम् अवयविद्रव्यम् अर्थान्तरं तुलितद्रव्येभ्यो भिन्नं यदि चेत्; तत्र स्थूले रूपादि:, आदि- ५ शब्दात् रसादिश्व अन्यः अवयवरूपादिभ्योऽर्थान्तरभूतो न केवलम् अवयवरूपादिरेवेति च शब्दः । 'भवेत्' इत्यध्याहारः । भवत्येव अवयवरूपादेस्तद्रूपादिप्रादुर्भावस्य' “गुणाश्च गुणान्तरमारभन्ते" [वैशे०सू० १/१/१०] इति वचनेनाभ्यनुज्ञानादिति चेत्; आहईक्ष्येत दृश्येत तत्र रूपादिरन्यः । न च वीच्यते । न हि तन्तुरूपादिरन्यः, अन्यश्च पटरूपादिरुपलभ्यते, तथैवासम्प्रतिपत्तेः । तथापि तदुपलब्धिकल्पनायां न किञ्चित्क्वचिदेकमुपलब्धं भवेत् । उपलम्भत्वाभिधानस्य जातिविशेषस्य तत्राभावादनुपलब्धिरिति चेत्; क्वेशनीं तद्विशेषस्य भावः ? तन्तुरूपादाविति चेत्; पश्यत आश्चर्यं यन्महति पटरूपादौ स नास्ति अमहति तन्तुरूपादौ विद्यत इति । कुतो वा 'तत्र तस्यास्तित्वम् ? तद्रूपादेरुपलब्धेरिति चेत्; न; तस्यापि तदवयवरूपादेर्भिन्नस्यानुपलम्भात् । पुनस्तदवयवरूपादौ तदस्तित्वपरिकल्पनायामनवस्थापत्तेः । ततः क्वचिदपि कार्यद्रव्ये रूपादेः कारणरूपादिव्यतिरेकेणानुपलब्धेः निर्विषयमेवेदं त्रद्वयम् - "अनेकद्रव्येण समवायाद्रूपविशेषाच्च रूपोपलब्धिः । एतेन रसगन्धस्पर्शेषु ज्ञानं व्याख्यातम् " [बै० सू० ४ १ ८, ९ ] इति । तन्न जातिविशेषाभावात्तस्यानीक्ष्यत्वम् । इन्द्रियाभावादिति चेत्; न; इन्द्रियवद्भिरुपलब्धिप्रसङ्गात् । तदाह - 'साक्षैः ' इति । सहाक्षैरिन्द्रियैर्वर्तन्त इति साक्षास्तैः सं इत्येत । आदराभावान्नेति चेत्; न; आदरवद्भिस्तदीक्षणापत्तेस्तदाह - सादरैः आदरवद्भिः स ईक्ष्येति ।
१५
तत्रैव दूषणान्तरमाह
गौरवाधिक्यतत्कार्य भेदाश्च [आसूक्ष्मतः किल ] । इति
गुरोर्भाव गौरवं तस्याधिक्यमतिरेकः, तच्च तस्य गौरवस्य कार्यभेदाः फलविशेषाः तुलानतिविशेषलक्षणाः ते च गौरवाधिक्यतत्कार्यभेदाः । चशब्दान्न केवलं रूपादिरेव तत्र स्थूले 'ईक्ष्येरन्' इति वचनपरिणामेन सम्बन्धः ।
द्विन्तुके गुरुत्वं हि तन्तुमौरवतोऽधिकम् ।
ततोऽपि च तदारब्धे द्रव्ये तदभिवृद्धिमत् ।। १०२१ ॥
१ “वीरणशब्दः कटसमवायिकारणवाचक इह तन्तु पटः इह वीरणेषु कट इति वक्ष्यमाणत्वात् । "ता० टि० । २ - वस्तस्य आ०, ब०, प० । ३ पश्चात्तात्पर्य य-आ०, ब०, प० । ४ जातिविशेषः । ५ - स्ति स्वल्पे त-आ०, ब०, प० । ६ तन्तुरूपादौ । ७ जातिविशेषस्य । ८ " तेषां तन्तूनामवयवा अंशवस्तेषां रूपादिस्तस्मात् " - ता० टि० । ९ - नीक्षत्वम् आ०, ब०, प० । १० सह ई -आ०, ब०, प० ।
१०
२०
२५