________________
१०
२०
४२४
२५
आसूक्ष्मतः किल । अतौल्यादर्धराशेस्तद्विशेषानवधारणम् ॥ ११० ॥ इति ।
तद्विशेषस्य कार्यद्रव्यगतस्य गौरवाधिक्यविशेषस्य तत्कार्यविशेषस्य च अनवधारणम् अनिश्चयः । कस्मात् ? अतौल्यात् तोल्यत इति तोलः, कर्मणि घन्, तस्य भावस्ती - ल्यम्, न तौल्यम् अताल्यं तुलया परिच्छेत्तुमशक्यत्वं तस्मात् । कस्य ? अर्थराशेः अर्थानां परमाणु कणुकपणुकाष्टाणुकाल्पांशुतन्तुपटानां राशेः । आ कुतः ? आसूक्ष्मतः आ परमाणुभ्यः परमाणूनभिविधीकृत्येति यावत् । न हि महत्यनेकद्रव्यराशौ तोल्यमाने १५ तन्मध्यपातिनो गौरवादेः तत्कार्यस्य च प्रतिद्रव्यमियत्तयोपलक्षणम् कार्पासभार तोलने तत्पातिनोंऽशुकस्येव सम्भवतीति परस्य भावः । शास्त्रकारस्तत्रारुचि किलशब्देन द्योतयति । कस्मात् ? अनुपलक्षितस्य भावासम्प्रसिद्धः । तथा हि
न्यायविनिश्चयविवरणे
तावदेव पटद्रव्यं यावत्तत्परिणामवत् ।
तत्तथा किन्न वीक्ष्येत सादरैः प्रतिपत्तृभिः || १०२२|| इन्द्रियागोचरत्वाश्चेद्भवत्वेवं तथापि तत् । तुलानतिविशेषैस्तत्कार्यैः कस्मान्न दृश्यते ॥ २०२३ ॥ तेषामपि न चादृष्टिर्भवतां हेतुसम्भवात् । अंत एवाह तत्कार्यभेदाश्चेति विदांवरः || १०२४॥
अत्र परस्य परिहारं दर्शयन्नाह -
गौरवादि पृथक् तत्र यदि नैवोपल यते ।
कथं तस्यास्तितां श्रमो व्योमाम्भोजवदञ्जसा || १०२५ ॥ गौरवादेः क्रियायाश्च तत्कृताया असम्भवे । तदपेक्षं कथं तत्स्यात् समवाय्यपि कारणम् ॥ १०२६॥ द्वितन्तुकादि तादृक् च कथं तद्द्रव्यमुच्यताम् ? । क्रियावत्त्वादिकं यस्मात्त्रितयं द्रव्यलक्षणम् ॥। १०२७॥ तन्नातौल्याद्गुरुत्वादेस्तत्रास्त्यनवधारणम् ।
आहासिद्धत्वमप्यस्य हेतोः सम्प्रति शास्त्रकृत् ।। १०२८ ॥
..[१।१११
ताम्रादिरक्तिकादीनां समितक्रमंयोगिणाम् ।
कथमातिलकात् [स्थूलप्रमाणानवधारणे ] ॥ १११ ॥ इति ।
न हि सम्भवत इयत्वेनातौलनम्, अन्यथा अर्धगुञ्जापरिमाणं रक्तिका आदिषां माषकादीनां ते रक्तिकादयः, ताम्रं शुल्वमादिर्यस्य सुवर्णादेः तस्य रक्तिकादयः ताम्रादिरक्ति
१ तत एवाह न त आ०, ब०, प० १।१।१५ । ३ - त्राप्यनव-आ०, ब०, प०
। २ “क्रियागुणवत्समवायिकारणमिति द्रव्यलक्षणम् ।" - जै० सू० । ४ योगिनाम् आ०, ब०, प० ।