________________
२०
२११२] प्रथमः प्रत्यक्षप्रस्तावः
४२९ कादयः तेषाम् , कथं 'मानम्' इति वक्ष्यमाणेन सम्बन्धः मानं तोलनम् । कीदृशानाम ? समितकमयोगिणां पृथगवधारिताः समिताः, तेच ते पुनः क्रमेण तुलायोगिनश्च समित. कर्मयोगिणः तेषाम् , आ कुतः तेषां तोलनम् ? आ कुतश्च समितक्रमयोगिणस्ते ? इत्याह
आतिलकात् । तिलपरिमाणं तिलकं तदवधीकृत्य ततः प्रभृति वा । दृश्यते हि तिलकस्यैकस्येयत्तया तोलनं पुनस्तदपरन्यासे तदधिकस्य तावदेवं यावद् रक्तिकायाः, तत्रापि तावदेवं ५ यावन्माषकादेस्तोलनम् । एवम् अल्पस्यांशुकस्य प्रथममियत्तया पुनस्तदवयविनः क्षेपे तदधिकस्य तत्रापि तावदेवं यावत्तन्तोः, तत्रापि तावदेवं यावदन्त्यावयविनः पटादेर्भवति तोलनम् । तन्न वस्तुराशिगतस्यापि सम्भवतः सम्भवत्यतोलनम् । यत्तु कार्पासमारमध्यपातिनोंऽशुकस्येवेति ; तदपि न सारम् ; निपुणवणिजां तत्रापि तोलनस्यैव प्रतीतेः । अतो यद्यतोलनम् असम्भव एव तद्विषयस्येति भावः ।
महति चार्थराशौ तोल्यमाने वा कस्य प्रमाणानवधारणम् ? अवयविनामिति चेत् ; आह
__ स्थूलप्रमाणानवधारणे ॥११॥ अल्पभेदाग्रहान्मानमणूनामनुषज्यते । इति । स्थलस्य अवयविनः प्रमाणमियत्ता तस्यानवधारणमनिश्चयः तस्मिन्नभ्युपगम्यमाने ११ मानं परिच्छेदः 'पटोऽयं बटोऽयम्' इत्यादिना रूपेण परमाणनामनुषज्यते प्राप्नोति । तथा च यतो भयं तदेवापतितं परमाणुदर्शनाद्विभ्यतस्तस्यैव प्राप्तः । तत्र हेतुमाह-'अल्प. भेदाग्रहात्' इति । पटापेक्षया तन्तवस्तदपेक्षया तदवयवातदपेक्षयापि तदवयवा यावत्परमाणवः अल्पभेदा अवयविन एव तेषामर्थराशौ तोल्यमाने प्रत्येकमियत्तया तदग्रहादप्रतिपत्तेः ।
अंशित्वेन पटस्येव तन्त्वादीनामियत्तया । अग्रहात्परमाणूनां परिज्ञानं प्रसज्यते ॥१०२९॥ तेषामप्यपरिज्ञाने बहिनिविवर्जितम् ।
जगत्प्राप्नोति योगानां दोषोऽयं दुरुपक्रमः ॥१०३०॥ तनावयविनां तदा तदनवधारणम् । अवयवानामिति चेत् ; आह
अंशुपातानुमाइष्टेरन्यथा तु प्रसज्यते ॥११२॥ इति ।
अन्यथा परपरिकल्पिताइवयविनां तदवधारणं नावयवानामिति प्रकारादन्येन अवयवानामपि तदवधारणमिति प्रकारेण प्रसज्यते प्रसक्तिर्भवति । अवयविनामेव केषाब्चि
-योगिणश्च ता०।२-योगिनः भा०, २०, ५०।३ अल्पभेदादिति भा०, ब०,५०।४ -वादीनाआ०, २०, ५०।