________________
४२६
न्यायविनिश्चयविवरणे
[१११३ दल्पपरिमाणानामितरापेक्षया, अवयवत्वादिति भावहेतुः । हेत्वन्तरमाह-'अंशुपातानुमादृष्टे:' इति । महति कार्पासभारे तोल्यमाने यस्तत्रांशोः पातस्तस्य याऽनुमा तुलानतिविशेषालिङ्गात् , तस्याः दृष्टदर्शनाच अन्यथा तु प्रसज्यत इति । अपि च, परमाणुपर्यन्तमध्यपातिनामवयवविशेषाणामशक्येयत्तातोलनानां यद्यभावः पर्यन्तोऽप्यवयवी न भवेत् तस्याप्यवयवाधीनस्यैवाभ्यु५ पगमात् । भावश्चेत् ; तत्राह
क्षीराचैरविजातीयैः प्रक्षिप्तः क्रमशो घटः। तावद्भिरेव पूर्येत यावद्भिर्न विपर्ययैः ॥११३।। इति ।
आदौ भवमाद्यं क्षीरमाद्यं येषां नीरादीनां तैः, अविजातीयैः एकजात्यधिष्ठानैः प्रक्षिप्तः घटे निवेशितैः । कथम् क्रमशः परिपाट्या स घटस्तावद्भिरेव तत्परिमाणैरेव १० पूर्येत पूर्णः क्रियेत यावद्भिः यत्परिमाणैर्न पूर्वेत विपर्ययैः युगपनिवेशितैः विजातीयैर्वा
युगपनिवेशितैः, द्रयस्यैकस्यैवारम्भाद्विजातीयैस्तु तस्याप्यनारम्भात् । ततो युगपत्क्रमाभ्यां तावद्भिरेव प्रक्षेपविषयैरेकानेकद्रव्योत्पादनैर्घटस्यापरिपूर्णेतरतया भेदोपलब्धिर्भवेदिति भावः । एतच्छायमेव धर्मकीर्तिनापि प्रतिपादितम्
"तस्य क्रमेण संयुक्त पांशराशौ सकृद्युते ।
भेदः स्याद्गौरवादीनां पृथक् सह चतोलिते ॥” [प्र० वा० ४।१५७] इति ।
ननु युगपन्निवेशितैरपि द्विचुलुकाद्यपरापरद्रव्यारम्भकमेणैव अन्त्यावयविन आरम्भ. स्ततः कथं तैरप्यपरिपूर्तिः ? द्रव्यबहुत्वे परिपूर्तेरेवोपपत्तेरिति चेत् ; न; सर्वैरपि क्षीरादिचुलुकैः युगपत्प्रवृत्तसंयोगैरेकस्यैव द्रव्यस्य कैश्चिदारम्भोपगमात् । येषां तु नैवमभ्युपगमः, तेषां कथं
तन्तुषु पटः ? न हि तैस्तस्यानारम्भे तत्र भावः । तदारम्भकाणां खण्डावयविनां तत्र भावात् २० तस्यापि तत्र भाव इति चेत् ; न; उपचारापत्तेः । तथा च कथं तद्विषयात् 'तन्तुषु पटः' इति
प्रत्ययात् सैम्बन्धसिद्धिः ? मुख्यस्यैव 'कुण्डे दधि' इत्यादेः प्रत्ययस्य सम्बन्धपूर्वकस्योपलम्भात् । न हि मुख्ये दृष्टो धर्मोऽन्यत्र योजनमर्हति, पावकधर्मस्य काष्ठजन्मादेः माणवकेऽपि योजनप्रसङ्गात् । सम्बन्धोऽपि तत्र उपचरित एवेति चेत् ; कुतस्तर्हि मुख्यतस्तत्सिद्धिः ?
कर्पटखण्डेषु पट इति प्रत्ययादिति चेत् ; न; रूढितस्तदभावात् । भावेऽपि तमेव तत्साधनमनुक्त्वा २५ कुतः ‘पदार्थप्रवेशादौ 'इह तन्तुषु पटः, इह वीरणेषु कटः' [प्रश० भा० पृ० १७१]
इत्युपचरितस्य तस्योपन्यासः ? सति मुख्ये गौणोपन्यासायोगात् , तस्मादिष्टसिद्धरसम्भवात् । ततः साक्षादपि तन्तुभिः पटस्यारम्भो वक्तव्यः। तद्वत् क्षीरादिचुलुकैरेंप्यन्त्यस्य तद्र्व्यस्येति न तैर्युगपनिवेशितैर्नानाद्रव्यारम्भ इत्यपरिपूर्तिरेव तैर्घटस्य । ततः सूक्तम्-'यायद्भिर्न विपर्ययैः' इति ।
“पर्यन्तशब्देन अन्त्यावयवी प्रायः"-ता०टि०। २-वाधारस्यै-आ०, ब०, प० । ३ सम्बन्धस्य सि-आ० ब०,५०।४ प्रशस्तपादभाष्यादौ । ५ गुणोप-आ०, ब०, प०।६-प्यन्यस्य मा०, ब०, प० ।