________________
११४
प्रथमः प्रत्यक्ष प्रस्ताव'
२
ननु यद्यवयवी नाम न कश्चित् तर्हि परमाणव एवावशिष्येरन् तेषां चानुपलम्भात् बहिर्वस्तुदर्शनशून्यं जगत्प्राप्तमिति चेत्; न; तेषामेव कुतश्चित्कथचिदेकीभूतानामुपलम्भविषयत्वात् । पटावयवानां परस्परमिव किन्न घटावयवैरप्येकीभावः भेदाविशेषादिति चेत् ? भवतोऽपि ' किन्न तदवयवा: पटमिव घटमप्यात्मन्यवस्थापयन्ति तदविशेषात् ? तस्यैव तत्र समवायादिति चेत्; न; तत्रैव प्रश्नात् 'कुतः स तस्यैव न घटस्यापि' इति ? समवायस्यैवेयं शक्तिर्यत्पटमेव ५ तत्र योजयति नापरमिति चेत्; न; स्वरूपव्यतिरेकेण शक्तेरभावात्, स्वरूपस्य च सर्वत्राविशेषात् । प्रत्यवयवि तद्विशेष कल्पनायां तु समवायस्यापि तदनर्थान्तरत्वेन प्रत्यवयवि भेदः स्यात् । तदर्था'न्तरत्वे तु कथं 'ते' तस्य' इति व्यपदिश्येरन् ? न समवायान्तरात्; तदभावात् । स्वत एवेति चेत्; पटोsपि स्वत एव तन्तूनामिति किं समवायेन ? कथचित्तस्य तदर्थान्तरत्वकल्पनं तु तेषामेवैकीभावं पुष्णातीति कथन्न परोपालम्भस्तत्रापि भवेत् - समवायविशेषाणामपि परस्परमिव १० पदार्थान्तरभागैरपि न कस्मादेकीभावो भेदाविशेषात् ? स्वहेतुनियताच्छक्तिविशेषादिति चेत्; समानं पटावयवेष्वपीति न किञ्चिदेतत् । तन्नावयवी परपरिकल्पित इति कुतस्तत्र गुणकर्म - सामान्यादीनां सम्भवः ? तेषां तदाश्रितत्वेन तदभावे सम्भवानुपपत्तेः । साम्प्रतं परमताक्षेपपुरस्सरं स्वमतमाह
नांशेष्वंशी न तेऽत्रान्ये वीक्ष्या न परमाणवः । आलोक्यार्थान्तरं कुर्यादनापोद्धारकल्पनाम् ॥ ११४॥ इति ।
४२७
१५
अंशेषु भागेषु अंशी भागी न वीक्ष्यो न दृश्यो ' वीक्ष्याः' इत्यनेन वचनपरिणामेन सम्बन्धात् । न ते अंशा अत्र अंशिनि वीक्ष्याः । कीदृशाः सच च इति चेत् ? अन्ये परस्परमेकान्तेन निर्भिन्नाः । परमाणवः तर्हि वीक्ष्या इति चेत्; आहन परमाणवो वीक्ष्या इति च सम्बन्धः । न हि तेऽप्यन्योन्यमेकान्तेन भिन्ना: प्रत्यव - २० भासन्ते । ततो न सन्त्येव परपरिकल्पिता बहिर्भावा दृश्यतयाऽभ्युपगतानां तेषामदर्शनादिति मन्यते ।
कीदृशस्तर्हि बहिर्भाव इति चेत् ? एकानेकरूपं जात्यन्तरमेवेति ब्रूमः, तस्यैव प्रत्यक्षतः प्रतिपत्तेः । कथं तर्हि लोकस्य 'तन्तवोऽवयवाः पटश्चावयवी' इति व्यवहार इति चेत् ? आह- आलोक्य प्रत्यक्षतः प्रतिपद्य । किम् ? अर्थान्तरं जात्यन्तरम् । कुर्याल्लोकः । २५ कत्र काम् ? अत्र अर्थान्तरे अपोद्धारस्य अवयवादिपृथक्करणस्य कल्पनाम् अभिसन्धिम् । ततोऽभिसन्धिनिबन्धन एवायं व्यवहारो न प्रत्यक्षनिबन्धन इति भावः ।
१ यौगस्यापि । २ घटावयवाः । ३ तदनर्था-आ०, ब०, प०। ४ “ शक्तिविशेषाः स्वरूपविशेषा इत्यर्थः " - ता० टि० । “समवायस्तु सम्बन्धो नित्यः स्यादेक एव स इति तार्किकरक्षायामुक्तम्" - ता० दि० । “खशब्देन समवायस्वरूपविशेषा वाच्याः" ता० टि० । ५ षाणां प- आ०, ब०, प० ।