________________
४२८ म्यायविनिश्चयविवरणे
[१११५ जात्यन्तरस्यालोक्यत्वं ब्रुवता' चेदमुच्यते । निमित्ताभावतो नात्र संशयादिरिति स्फुटम् ॥१०३१॥
संशयादिः खलु दोषो भेदमभेदञ्च निमित्तमुपाश्रित्य प्रवर्तते । न च भेदाभेदाभ्यामत्यन्तविलक्षणे जात्यन्तरे तदुभयमस्ति यतस्तत्प्रवर्त्तनम् , अन्यथा नरसिंहऽपि मानवगजरिपु५ धर्मावलम्बिनो दोषस्य प्रवृत्तिः स्यात् । मा भूत् प्रत्यक्षादिप्रमाणविषये तत्प्रवृत्तिः अभिसन्धि विषये तु स्यात् , अभिसन्धौ भेदाभेदयास्तन्निमित्तयोः पृथगेव प्रतिभासनादिति चेत् ; न; तत्रापि धर्मिणः प्रतिभासाभावात् । न चाप्रतिपन्ने धर्मिणि भेदेतराभ्यां संशयादिप्रकल्पनमुपपन्नम् । तन्न संशयादिः तत्र ।
____नाप्युभयदोषः ; भेदेतरयोरेकस्येतरनयेनाप्रतिपत्तेः, युगपश्च नयद्वयस्याप्रवृत्तेः । १० तत्कथं प्रतिपक्षोपेक्षया भेदस्यैवाभेदस्यैव वा अभिसन्धानविषयस्य उभयदोषोपनिपातेनोपहतिः
सम्भवति यतस्तदभावकल्पनम् ? ततो व्याधूतसंशयादिरेव जैनस्य प्रमाणविषयो नयविषयश्च बहिरर्थ इति स्थितम् ।
तदेवं 'परोक्षज्ञानविषय' 'इत्यादिना आत्मवेदनम् 'एतेन वित्तिसत्तायाः' इत्यादिना चार्थवेदनं व्यवस्थापयता कारिकोपात्तम् आत्मपदमर्थपदब्ध व्याख्यातम् ।
इदानीं तदुपात्तं द्रव्यपदं व्याचिख्यासुराह"गुणपर्ययवद्व्यं ते सहक्रमवृत्तयः। विज्ञानव्यक्तिशक्त्याद्या भेदाभेदी रसादिवत् ॥११५॥ इति ।
द्रव्यमिति लक्ष्यस्य गुणपर्ययवदिति च लक्षणस्य निर्देशः । गुणाश्च सहभुवो धर्माश्चेतनस्य सुखज्ञानवीर्यादयः । यथोक्तं स्याद्वादमहार्णवे
"सुखमाह्लादनाकारं विज्ञानं मेयबोधनम् ।
शक्तिः क्रियानुमेया स्याधुनः कान्तासमागमे ॥" [ ] इति । अचेतनस्य रूपरसादयः । पर्या (य)याश्च क्रमभाविनः चेतनस्य सुखदुःखादयः, अचेतनस्य कोशकुशूलादयः गुणपर्ययाः, ते सन्त्यस्येति गुणपर्ययवत् । गुणादिग्रहणेन द्रव्यमात्रस्य,
-ता भेद-आ०, ०,१०।२ भेदग्राहिणा नयेन अभेदस्य अभेदग्राहिणा च नयेन भेदस्याप्रतिपत्तः । ३ प्रतिपक्षापेक्षया आ०, ब०,५०। ४ श्लो. १०। “परोक्षज्ञानविषयपरिच्छेदः परोक्षवत् दशमकारिकाया अपरार्धमिदम"-ता.टि.। ५श्वो० २६ । “एतेनेत्यादि द्वाविंशतितमकारिकेयम्"-ता. टि०। ६ तृतीयकारिकोपात्तम् । ७ "गुणाणमासवो दवं एकदवस्सिया गुणा। लक्खणं पज्जयाणं तु उभओ अस्सिया भवे ॥"-उत्तरा० २८६। दवं सल्लक्खणियं उप्पादन्वयधुवत्तसंजुत्तं। गुणपज्जयासयं वा जं तं भण्णंति सबण्हू ॥"-पञ्चास्ति. गा०१०। “गुणपर्ययवद्व्यम्"-तत्त्वार्थसू० ५।३८ । “तं परियाणहु दव्वु तुहुजं गुणपज्जयजुत्तु । सहभुव जाणहि ताण गुण कम-भुवपजउ वृत्तु ॥"-परमात्मप्र० गा०५७ । छवी. टि. पृ० १४२ पं० २७ । ८-ति ला-मा०,०,०।९ -पर्यायाः आ०, ब०,१०।