________________
१।११५ ]
प्रथमः प्रत्यक्षप्रस्ताव द्रव्यग्रहणेन च गुणादिमात्रस्य प्रतिक्षपः तत्र प्रमाणाभावात् , निवेदययिष्यते चैतत् । मंतुष्प्रत्ययेन तु तदुभयभेदैकान्तस्य । दृश्यत एव भेदैकान्तेऽपि तत्प्रत्ययः' 'गोमान् देवदत्तः' इति सम्बन्धमात्रात्तत्कथं तेन तत्प्रतिक्षेप इति चेत् ? न ; द्रव्यतल्लक्षणयोः कथश्चिदभेदादन्यस्य सम्बन्धस्याभावात् , समवायस्य प्रतिक्षेपात् । एकान्तभेदे कार्यकारणभावस्याप्यनुपपत्तेः ।
__गुणपर्ययाणां व्याख्यानं 'ते' इत्यादि । 'ते' इति गुणपर्ययाः । कथं पुनद्रव्ये गुणी- ५ भूतानां तेषां तच्छब्देन परामर्शः द्रव्यस्यैव मुख्यतया तदुपपत्तेः ? बहुवचनात् द्रव्यस्य बहुत्वेनाप्रक्रमादिति चेत् ; न; गुणादीनामपि तथा तदभावात् , समासात्तद्वहुत्वस्याप्रतिपत्तेः । अप्रतिपन्नमपि सम्भवति तत्र तदिति चेत् ; न; द्रव्येऽपि जीवादिभेदेन तंदविशेषात् , पुल्लिङ्गवत्त्वस्यापि न विरोधः जीवादीनां पुल्लिङ्गत्वादिति चेत्, न; शब्दोपक्रमेण गुणादीनामप्रधानत्वेऽपि बुद्ध्युपक्रमेण प्राधान्यात् । बुद्ध्युपक्रमस्य च शब्दोपक्रमादेव प्रतिपत्तेस्तस्य तदविनाभावात् , बुद्धावप्य- १० प्रधानतयैव तेषामुंपक्रम इति चेत् ; न; प्रथम स्वरूप एवोपक्रमात् विशेष्यापेक्षया पश्चादेव प्राधान्यप्रक्लृप्तः । द्रव्यपरामर्शोऽपि कस्मान्न भवति प्राधान्याविशेषादिति चेत् ? न; प्रयोजनाभावात् । द्रव्यलक्षणस्य 'गुणपर्ययवत्' इत्यनेनैव प्रतिपादनात् । ततो गुणपर्ययाँ एव ते।
सह च क्रमश्च सहक्रमौ, ताभ्या तत्र द्रव्ये वृत्तिरात्मलाभपरिणतिर्येषी ते सहक्रमवृत्तयः सहवृत्तयो गुणाः क्रमवृत्तयः पर्ययाः । के पुनस्तद्गुणादय इत्याह-विज्ञानव्यक्ति- १५ शक्त्याद्याः इति । विज्ञानं दानादिचित्तम् , उपलक्षणमिदं मन्त्रादेरपि, तस्य व्यक्तिश्च दृश्यमानं रूपं 'व्यज्यत इति व्यक्तिः' इति व्युत्पत्तेः । शक्तिश्च कार्योपजननसामर्थ्यम् , विज्ञानव्यक्तिशक्ती ते आये येषां ते विज्ञानव्यक्तिशक्त्याद्या इति । आद्यशब्दाद् अन्येऽपि सहवृत्तयः सुखज्ञानवीर्यपरिस्पन्दादयः क्रमवृत्तयश्च सुखदुःखहर्षविषादादयः परिगृह्यन्ते ।
कथं पुनर्व्यक्तिशक्त्योः सहभावः ? तस्य भेदनिष्ठत्वात् , तयोश्च भेदाभावादिति २० चेत् ; न ; अभेदे व्यक्तिवच्छतेरपि प्रत्यक्षत्वप्रसङ्गात् , तथा च किं तदनुमानेन ? विप्रतिपत्तिनिवारणमिति चेत् ; सैव कुतः प्रत्यक्षविषये विप्रतिपत्तिः ? अनन्तरं "तत्फलस्य स्वर्गा. देरदर्शनादिति चेत् ; न ; व्यक्तावपि "तदभेदेन "तत्प्रसङ्गात् । तथा च कथं तदनुमानं धर्मिण्यसिद्धे तदनुपपत्तेः ? निश्चयात्तत्र विप्रतिपत्तिनिवृत्तौ शक्तावपि स्यात् । तन्न शक्तेर्व्यक्त्य. भेदः, व्यक्तिदर्शननिश्चयाभ्यां तद्दर्शननिश्चयाभावात् ।
एतेन "सामग्री शक्तिरिति प्रत्युक्तम् । तथा हि
१ मतुप्रत्य-आ०, ब०, ५० । २ तत्प्रयोगो गो-प० । तत्प्रयोगो मतिमान् देव-आ०, ब० । ३-त्रात्कथं आ०, ब०, प० । ४ मतुष्प्रत्ययेन । ५ बहुत्वेन । ६ तद्विशे-आ०, २०, ५० । ७ गुणादीनाम् । ८ -पर्याया आ०, २०, ५०। ९ शक्त्यनुमानेन । १० दानादिफलम्य । ११ शक्त्यभेदेन । १२ विप्रतिपत्तिप्रसङ्गात् । १३ व्यक्तौ । १४ “न तावन्मीमांसकवदतीन्द्रिया शक्तिरस्माभिरभ्युपेयते किन्तु कारणानां स्वरूपं वा सहकारिसाकल्यं वा ।"-न्यायवा. ता. टी. पृ. १०३ । “खरूपादुद्भवत्कार्य सहकार्युपबृंहितात् । न हि कल्पयितुं शक्तं शक्तिमन्यामतीन्द्रियाम् ॥"-न्यायमं० पृ. ४१ । “किन्तु योग्य