________________
४३०
न्यायविनिश्चयविवरण
[१।११५ सामग्री यदि शक्तिः स्यात्फलात्प्रागेव' पश्यतः । इयं शक्तिरिहत्येवं निश्चयः स्यात्तदर्थिनः ॥ १०३२॥ न चैवं कार्यदृष्ट्यैव तत्र निश्चयदर्शनात् । न चानिश्चितमध्यक्षं सामग्रीशक्तिवादिनाम् ॥१०३३॥ सत्यामेव च सामन्यां मत्रतत्रादिना कथम् । दाहस्यानलकार्यस्य प्रतिबन्धो भवेदयम् ? ॥१०३४॥ विना मवाद्यभावेन सामग्री विकलैव चेत् । ततस्तदा कथं दाहः काष्ठादेरपि मर्त्यवत् ॥१०३५॥ सामग्येव न शक्तिस्तन्नापि जात्यादिरेव सा। दृश्यमानेऽपि जात्यादौ शक्तिदृष्टेरसम्भवात् ।।९०३६॥ तत्सम्भवेऽपि मन्त्रादौ स्वतः शक्तिविनिश्चयात् ।।
गुरूपदेशवैययं प्राप्तमेकान्तवादिनाम् ॥१०३७॥ तन्न व्यक्तिरेव शक्तिः, तद्वत्प्रत्यक्षत्वप्रसङ्गात् ।
नापि शक्तिरेव व्यक्तिः, तद्वदप्रत्यक्षत्वापत्तेः । नाप्येकान्तेन भेदः ; शक्तिशक्तिमद्भा१५ वाभावोपनिपातात् । शक्तय॑क्तौ समवायात्तद्भाव इति चेत् ; न ; 'अशक्तिमत्त्वे तदनुपपत्तेः
खरशृङ्गवत् । शक्तिमत्त्वञ्च न तयैव शक्त्या ; परस्पराश्रयात्-'तया शक्तिमत्त्वे तत्र तत्समवायः, ततश्च तया शक्तिमत्त्वम्' इति । नाप्यन्यया ; अनवस्थापत्तेः । तन्नैकान्तेन अभेदो भेदो वा तत्रोपपन्नः, कथञ्चिदेव तयोरुपपत्तेः। तदाह-'भेदाभेदो' इति । केषामित्य
पेक्षायां विज्ञानव्यक्तिशक्त्याधानामिति विभक्तिपरिणामेन सम्बन्धः कर्त्तव्यः । निदर्शनमत्राह२. 'रसादिवत्' इति । रस आदिर्येषां गन्धादीनां तेषामिव तदिति। निरूपितञ्च रसादीनां
भेदाभेदात्मकत्वमिति निदर्शनत्वेनोपन्यासः। यदि वा, रसादयो ज्ञाननिर्भासाः तेषामिव तद्वदिति । प्रसिद्धच कर्कटीभक्षणकालभावियोधनि सानां रसरूपादीनां भेदाभेदात्मकत्वं "बौद्धस्य "नीलादिश्चित्रनिर्भासः" [प्र० वा० २।२२० ] इत्यादावलकारकृता तथैव निरूपणात् ।
"गुणपर्ययवद्रव्यम्" [त० सू० ५।३८] इति सूत्रमिदं तस्वार्थस्य, इदमेव च त्वया व्याविख्यासया कारिकायामुपक्षिप्तम् , तत्र किं गुणग्रहणेन 'पर्ययवद्रव्यम्इत्येवास्तु गुणानामपि परिच्छिन्नायनरूपतया पर्ययेष्वेवान्तर्भावादिति चेत् ? अत्राह
तावच्छिन्नस्वरूपसहकारिसन्निधानमेव शक्तिः । सैवेयं द्विविधा शक्तिरुच्यते-अवस्थिता आगन्तुका च । सस्वाद्यवच्छिा खरूपमवस्थिता शक्तिः, आगन्तुका तु दण्डचकादिसंयोगरूपा ।"-न्यायमं० पृ. ४९५ । “न हि नो दर्शने शक्तिपदार्थ एव नास्ति, कोऽसौ तर्हि ? कारणत्वम् । किं तत् ? पूर्वकालनियतजातीयत्वम् , सहकारिवैकल्यप्रयुक्ताकार्याभाववत्वं वेति..."अनुग्राहकत्वसाम्यात् सहकारिष्वपि शक्तिपदप्रयोगात्।"-न्यायकुसु० १११३ ।
१ सत्यतः आ०, ब०, प० । २ मन्त्रादिना कञ्चित् व्यक्तिविशेष प्रति दाहशक्तिप्रतिरोधकाले। ३ अग्निवादिजातिरूपा । ४ व्यक्तेः शक्तिरहितत्वे । ५ बोधस्य आ०, ब०, प० ।