________________
प्रथमः प्रत्यक्षप्रस्ताव
सदापि सविकल्पाख्यासाधनाय क्रमस्थितेः ।
गुणपर्यययो३ क्यमिति सूत्रे द्वयग्रहः ॥११६॥ इति ।
सूत्रे 'गुणपर्ययवद्रव्यम्' इत्यत्र द्वयस्य गुणपर्ययद्वितयस्य ग्रह उपादानम् । कस्मात् ? गुणपर्यययो क्यमिति । गुणश्च पर्ययश्च गुणपर्ययो, जातावेकवचनम् , तयोरैक्यमभेदो न, क्रमाक्रमभावरूपाविरुद्धधर्माध्यासादिति मन्यते इति हेतोः। ५
__ यद्येवं गुणार्थिकोऽपि नयो वक्तव्यः ; सति विषये 'तदवचनानुपपत्तेः, तत्कथं द्रव्यार्थपर्यायार्थतया द्विविधत्वमेव मूलनयस्य ? 'पर्ययार्थ एव गुणार्थोऽपि, पर्ययशब्दस्य सहक्रमभाविधर्मसामान्यवाचित्वादिति चेत् ; न तर्हि सूत्रेऽपि गुणग्रहणमर्थवत् , पर्ययशब्देनैव सामान्यवाचिना गुणानामपि प्रतिपत्तेरिति चेत् ; न ; ततः पर्ययप्रतिपत्तिसमय एव गुणानां तदनुपपत्तेः । न हि सामान्यशब्दाद्यगपदेव सकलतदर्थप्रतिपत्तिः, गोशब्दस्य 'नवार्थत्वेऽपि कदाचित्कस्यचिदेव ततः प्रतिपत्ते: । तन्त्रेणानेकप्रतिपत्तिरपीति चेत् ; न ; तन्त्रस्य व्याख्यानगम्यत्वात् , व्याख्यानाच्च प्रतिपत्तेर्गरीयस्त्वात् । भवतु 'समयान्तरे ततस्तत्प्रतिपत्तिः तरिक गुणग्रहणेन ? सत्यम् ; प्रयोजनवशेन तद्ब्रहणात् । तर्हि तदेव तन्निमित्तं वक्तव्यं न भेद इति चेत् ; न ; प्रयोजनस्यापि भेदायत्तत्वेन भेदस्यैव मूलनिमित्तत्वोपपत्तेः।
किमर्थस्तर्हि भेदग्रह इत्यत्राह-सविकल्पाख्यासाधनाय । सह विकल्पैर्भेदैर्वर्शत " इति सविकल्पं युगपद्भाविनानाभेदमिति यावत् , तस्याख्या प्रतिपत्तिस्तया साधनं प्रतिपत्तिरेव तस्मै सविकल्पाख्यासाधनाय । कस्याः तदित्यत्राह-क्रमस्थितेः क्रमेण परिपाट्या स्थितिः परापरपर्ययेष्ववस्थानं तस्याः। किंकालायाः ? सदा सर्वकालभाविन्याः । अपिशब्दः क्रमस्थितः इत्यत्र द्रष्टव्यः । तात्पर्यमत्र
युगपद्वस्तु वक्तव्यं नानाधर्मसमाश्रयम् । बहिरन्तरनंशस्य तस्याप्रत्यवभासनात् ॥१०३८॥ क्रमानेकस्वभावं तत्तद्वदेवानुमन्यताम् । विरोधादिभयोन्मुक्तरुभयत्रापि सम्भवात् ॥१०३९।। प्रतीतिश्च यथा तस्य प्रत्यक्षादन्यतोऽपि वा । प्रतीयतां तथा किन्न क्रमानेकस्वभावभृत् ॥१०४०॥
१ गुणार्थिकनयावचन । २ पर्याया-आ०, ब०, ५०। तत्वार्थवार्तिके (५।३८) तु गुणार्थनयस्य द्रव्यार्थिकऽन्तर्भावः कृतः। तथाहि-"ननु चोक्तम्-तद्विषयस्तृतीयो मूलनयः प्राप्नोति; नैष दोषः; द्रव्यस्य द्वावात्मानौ सामान्य विशेषश्चेति । तत्र सामान्यमुत्सर्गोऽन्वयः गुण इत्यर्थान्तरम् । 'विशेषो भेदः पर्याय इति पर्यायशब्दः । तत्र सामान्यविषयो नयो द्रव्यार्थिकः । विशेषविषयः पर्यायार्थिकः तदुभयं समुदितमयुतसिद्धरूपं द्रव्यमित्युच्यते । न तद्विषयस्ततीयो नयो भवितुमर्हति विकलादेशत्वान्नयानाम् ।"-राजवा०५।३८ । ३ “खर्गेषुपशुवाग्वज्रदिङनेत्रघृणिभुजले" इत्यमरः । ४ समवायान्तरे आ०, ब०, प० । कालान्तरे । ५ पर्ययशब्दतः । ६ -तैः परीत्यत्र द्रष्ट-आ०, ब०, ५० ।