________________
४३०
न्यायविनिश्चयविवरणे
[२२११६ प्रत्यक्षादपि तद्विनेः शक्तिसाचिव्यकाङ्ग्णात् । नानाद्यनन्तसंसारवित्तिदोषः प्रसज्यते ॥१०४१।। अन्यथा कल्पनातोऽपि सर्वकालस्थितेस्रहात् । कल्पनान्तरवैयर्थ्य प्रमाणान्तरवद्भवेत् ॥१०४२॥ कल्पनातोऽपि तद्वित्तिर्यदि नेष्येत सौगतैः। समारोपव्यवच्छित्तिरनुमानफलं कथम् ? ।।१०४३।। नासतोऽस्ति व्यवच्छित्तिः समारोपस्य तत्कृता । कल्पनाकृततद्वित्तेरारोपोऽप्यस्ति नापरः ॥१०४४॥ अनुमानमनिच्छन्तस्तव्यापारप्ररूपणे ।.." शास्रज्ञाः स्युरतस्तेषां नाधिकारो विचारणे ॥१०४५॥ ततोऽनुमानमन्विच्छन्नेकत्वप्रतिवेदनम् । विकल्पाच्छक्तितो ब्रूयात्तद्वदध्यक्षतो वयम् ॥१०४६॥ विकल्पकात् क्षणक्षीणादेकत्वप्रतिवेदनम् । इच्छन् कथं नु तादृक्षादध्यक्षात्तन्न वाञ्छति ।।१०४७।। विकल्पादपि तद्वित्तिर्विकल्पान्तरतो यदि। अनवस्थानतो न स्यादारोपस्य व्यवस्थितिः ॥१०४८॥ कथं वा वेदने जीवत्यभिलाप्येतरात्मके । क्रमानेकान्तरूपत्वं प्रत्यक्षस्य निषिध्यते ॥१०४९॥ .. स्थायिना तेन यन्न स्यात्स्वपरस्थायिताग्रहः । देवैर्निवेदितं चैतत्स्वयमन्यत्र तद्यथा ॥१०५०॥ "द्रव्यात्स्वस्मादभिन्नाश्च व्यावृत्ताश्च परस्परम् । लक्ष्यन्ते गुणपर्याया धीविकल्पाविकल्पवत् ॥" [ सिद्धि० परि० ३ ] इति । अक्षव्यापारतः प्राच्यात् स्थायिप्रत्यक्षसम्भवे । परापराक्षव्यापारवैययं चेत्तदप्यसत् ॥१०५२॥ परापरोपकारस्य तेनादानात्तदात्मना ।
विकल्प इव केनापि निश्चयानिश्चयात्मनः ॥१०५३।। ततो युक्तं यथा गुणवद्रव्यं तथा पर्ययवदपीति ।
अथवा, यत एव गुणवद्रव्यमात्मादि तत एव पर्ययवदिति सूत्रार्थः । गुणवत्त्वं हि प्रसिद्धमेव, बुद्धयादिभिरात्मादेः, तच्च पर्ययवत्त्वाभावेऽनुपपन्नम् । तथा हि-बुद्ध्यादेरनुत्पत्तो ३. यदात्मादे रूपं तदेव तदुत्पत्तावपि कथं प्रागिव पश्चादपि बुद्ध्यादिमत्त्वम् ? बुद्ध्यादेर्भावादेवेति
१ अनुमानकृता । २ -पणम् ता० । ३ शास्त्रज्ञेसुरतः आ०, २०, ५० । केवलं शास्त्रव्याख्यातरः स्युन तु विचारकाः। ४ बौद्धः। ५ प्रत्यक्षेण । ६ यदात्मादिरूपं आ०, ब०, प० ।