________________
१।११६] प्रथमः प्रत्यक्षप्रस्तावः
४३३ घेत् ; किन्न सर्वस्यापि तद्वत्त्वं व्यतिरेका विशेषात् । आत्मादावेव भावादिति चेत् ; कः सप्तम्यर्थः ? स्वरूपमेवेति चेत् ; न ; प्रागिव तस्य तदर्थत्वानुपपत्तेः । समवाय इत्यप्यनेनापास्तम् । प्रागभावी स्वभावस्तस्य पश्चादिति चेत् ; कुतस्तस्येति ? समवायान्तरादिति चेत् ; न ; तस्याभावात् । भावेऽपि प्रागिव पश्चादपि ततस्तदनुपपत्तेः। तत्रापि प्रागभाविनः स्वभावस्य पश्चाद्भावे अनवस्थादोषात् । तादात्म्यादिति चेत् ; आत्मादेरेव स तादृशः करमा. ५ प्रभवति ? अनित्यत्वापत्तेः समवायेऽप्यविशेषात् । एवं हि समवायपरिकल्पनमदृष्टकल्पनत्वेन पापीयः परिहृतं भवति । ततः सिद्धं गुणवत्त्वात् पर्ययवत्वमात्मादेः, पूर्वापरस्वभाववैलक्षण्यस्यैव पर्यायार्थत्वात् ।
___ ननु एवं बुद्ध्यादिनाप्यात्मादेः तादात्म्यादेव तद्वद्भावोपपत्तेः किं तदर्थेन पर्ययवत्वकल्पनेन ? अन्यथा तदर्थेनाप्यपरपर्ययवत्त्वकल्पनेन भवितव्यं तदर्थेनाप्यपरेण तत्कल्पनेनेत्य- १० नवस्थापत्तेरिति चेत् ; सत्यमेवेदं गदि परोऽप्येवं प्रतिबुद्ध्येत । न च प्रतिबुध्यते अनेकान्तवादापत्तिभयात् , अतस्तं प्रति सैव तदापत्तिर्गुणवत्त्वेन व्यवस्थाप्यते । तच्च गुणवत्त्वं न गुणसमवायो नापि गुणतादात्म्यं यदन्यतरासिद्धं भवेत् , अपि तु गुणसम्बन्धमात्रम् । तस्य चोभयसिद्धस्य भवत्येव गमकत्वम् , अन्यथानुपपत्त्युपपत्तेः ।
ननु इह गुणा बुद्धपादयः, ते च पर्याया एवं क्रमभावात् , तद्वत्त्वं च पर्ययवत्वमेव । १५ तश्चेत्सिद्धम् ; न साध्यम् । असिद्धश्चेत् ; न साधनम् । अन्यदेव पर्ययवत्त्वं ततः साध्यमिति चेत् ; न ; ततोऽप्यन्यस्य तद्वत्त्वस्य साधने अनवस्थापत्तेः, असाधने साधनस्य व्यभिचारादिति चेत् ; न ; शक्तिव्यक्तिरूपतया साध्यसाधनयोर्भेदात् । व्यक्तयो हि बुद्धयादयः पर्यायाः; तद्वत्त्वेन प्रतिबुद्धयादिव्यक्ति भिद्यमानैः शक्तिपर्ययैस्तद्वत्त्वं द्रव्यस्योपकल्प्यते । शक्तिपर्यायाणामपरशक्तिपर्ययोपनिबन्धनत्वं यदि नास्ति व्यक्तिपर्यायाणामपि न भवेत् । अस्ति चेत् ; अन• २० वस्थानमिति चेत् ; सत्यम् ; अनवस्थिता एव तत्पर्यया अनन्तशक्तित्वात् भावस्य । तदेव कुतोऽवगन्तव्यम् ? व्यक्तिपर्ययात् । शक्तिपर्ययस्य ततोऽपि परस्य तत्पर्यायस्यानुमानेऽनवस्थापत्तेः ; "इत्यपि न युक्तम् ; कतिपयतदनुमानपर्यवसाने तद्बलभाविन 'ऊहादेव निरवधिशक्तिः पर्ययपरिच्छेदोपपत्तेः अनवस्थोपनिपाताभावात् । ऊहस्य चावश्याभ्युपगमनीयत्वात् , अन्यथा अनाद्यनन्तकालकलापस्याप्रतिपत्तेः, आत्मादौ तत्सम्बन्धात्मनो नित्यत्वस्य अव्यवस्थापनप्रसङ्गात्। ११ ततो युक्तं गुणवत्त्वेन पर्ययवत्त्वोपकल्पनम् । सम्प्रतिपत्तिविषये गुणवत्वे विप्रतिपत्तिविषय. पर्ययवत्त्वाविनाभानिश्चयसद्भावात् ।
अत एव च साध्यसाधनभावेन भेदात् सूत्रे गुणपर्यययोः पृथगुपादानमित्यावेदयति 'सवापि' इत्यादिना-गुणपर्यययो.क्यम् । इति एवं सूत्रे द्वयग्रहः भेदः । कुतः ?
प्रतीतस्यैव आ०, ब०, प० । २ तदेव न कु -आ०, ब०, प० । ३ व्यक्तिपर्ययात् शक्तिपर्ययस्य । ४ शक्तिपर्यायस्य । ५ इत्यप्य युक्तम् आ०, ब०, प० । ६ तर्कादेव । ७ -शक्तिपरि -आ०, ब०, प०। ८ -नियमस्तदाभा-आ०, ब०, प० ।