________________
४३४
न्यायविनिश्चयविवरणे
[११११७
इत्याह-'सत् द्रव्यम् आपिसन्त्याश्रयत्वेनागच्छती(न्ती) ति सदापिसाः,विकल्पा गुणात्मानो भेदा यस्य तस्याख्या निर्णयः साधनाय निश्चयाय । कस्य ? क्रमस्थितेः, क्रमभावित्वात क्रमाः पर्यायास्तेषां स्थितियस्मिन् तस्य क्रमस्थितेः पर्ययवतो यत इति । ततः स्थितं गुणपर्यययोर्लिङ्गलिङ्गिभावप्रतिपादनार्थमुभयोपादानं सूत्रे इति ।
__ अनिष्टप्रसङ्गपरिहाराय कस्मान्न भवति ? भवति हि गुण एव द्रव्यमित्युक्ते तत्प्रसङ्गः सत्त्वचेतनत्वादिगुणाधारतया बौद्धविज्ञानस्य बुद्धिसुखादिगुणाधिष्ठानतया महेश्वरादेश्व अक्रमस्य द्रव्यत्वप्राप्तेरिति चेत् ; न; गुणवद्र्व्यमित्युक्तेऽपि तदप्राप्तेरित्यावेदयन्नाह
गुणवद्रव्यमुत्पादव्ययध्रौव्यादयो गुणाः।
दुद्राव द्रवति द्रोष्यत्येकानेकं स्वपर्ययम् ॥११७॥ इति । १० गुणवद्र्व्यमिति हि सूत्रं संक्षेप्तव्यम् । न चैवम् अक्रमस्यापि विज्ञानेश्वरादेव्यत्वा
पत्तिः ; तत्र 'गुणवत्त्वस्यैव गुणव्यापकानामुत्पादादीनामभावन अभावात् । उत्पादादिव्याप्ता हि गुणाः कथं तदभावे भवेयुः वृक्षाभावे शिंशपावत् ? तदिदमाह-'उत्पावव्ययध्रौव्यादयो गुणाः' इति । प्रागसत आत्मलाभ उत्पादः, सतो विनाशो व्ययः, कथञ्चिदवस्थानं ध्रौव्यम् ,
तान्यादयो व्यापकत्वेन प्रधानभूता येषां ते तथोक्ताः। अर्थक्रियाकर्तृत्वेनैव व्याप्तिर्गुणानां १५ नोत्पादादिभिरिति चेत् ; न ; "तस्यापि उत्पादादिस्वभावत्वात् । न हि कस्यचित्प्रागिव
कार्यकालेप्यसमर्थस्य तत्कर्तृत्वम् ; प्रागपि तत्प्रसङ्गेन कार्यानुपरमापत्तेः। समर्थस्येति चेत् ; तदा तर्हि समर्थीभवतः प्राच्यासमर्थस्वभावपरिहारेणावस्थायित्वमवश्यमिति कथं नोत्पादाद्यात्म. कमेव तत्कर्तृत्वं भवेत् ? तश्चाक्रमाद्विज्ञानादेावर्त्तमानं गुणवत्त्वमपि व्यावर्त्तयतीति कथं तस्य
द्रव्यत्वापत्तियदनिटमापद्येत। नन्वेवं संक्षिप्तादपि सूत्रात् क्रमवत्त्वस्यापि प्रतिपत्ते: "गुणपर्यय२० वद्रव्यम्” इति किं विस्तीर्णेनेति चेत् ? सत्यमेव यदा उत्पादादिप्राधान्यं गुणानां
व्याख्यायते । यदा तु न ; तदा गुणवत्त्वेन पर्ययवस्वव्यवस्थापनार्थ विस्तीर्ण सूत्रम् । किं पुनः सूत्रकारस्य संक्षिप्तमपि सूत्रमस्ति ? बाढम् , कुत एतत् ? निबन्धनकारेणोपक्षेपात् । स्वबुद्धिक्लृप्तस्योपक्षेप इति चेत् ; महदिदमद्भुतम्-यत्सूत्रकारस्यासती बुद्धिः निबन्धनकारस्येति ।
___ कस्यचिच्चोद्यम्-भवतु नाम तत्रोत्पादादित्रयं यत्र पूर्वापरौ पर्ययो, विनाशोत्पादयोः ... कथश्चिदवस्थानस्य च तत्र सम्भवात् । “यत्र वर्तमान" एवास्ति न पूर्वापरौ अनुपलम्भात् , " तत्र कथम् ? यतो द्रव्यलक्षणमव्यापकं न भवेदिति ? तत्राह-'बुद्राव' इति । दुद्राव द्रुतवद्विद्युदादि द्रव्यम् । कम् ? स्वपर्ययं न द्रव्यान्तरपर्यायम् असङ्कीर्णतयैव प्रतिपत्तेः । अनेन
सद्व्यमपि स-आ०, ब०, प० । २ सदापि सवि-आ०, ब०, प० । ३ अनिष्टप्रसङ्गाप्राप्तेः । ५ गुणत्वस्यैव आ०, ब०, प० । ५ अर्थक्रियाकर्तृत्वस्यापि । ६ -टत्वमा-आ०, ब०, प० । ७ पर्यायत्व-आ०,०, प०। ८ अकलङ्कदेवेन । ९ सूत्रकारस्य अविद्यमाना बुद्धिः निबन्धकारस्य आगता । १० “विद्युदादिद्रव्ये"-ता. टि.। ११ “पर्ययः"-ता० टि०।