________________
११११८ प्रथमः प्रत्यक्षप्रस्ताव
४३५ पूर्वपर्ययवत्त्वं तस्योक्तम् । द्रोष्यति स्वपर्ययम् , अनेनापि परपर्ययवत्त्वम् । अत्र हेतुः द्रवति स्वपर्ययं यत इति ।
शब्दादि वस्तु दुद्राव द्रोष्यत्यप्यात्मपर्ययम् । 'यतस्तद् द्रवति व्यक्तं घटादिरिव तत्त्वतः ॥१०५४॥ पूर्वाभावे कथं तस्यानुपादाना भवेज्जनिः । वस्तुत्वमुत्तराभावे कथं वानर्थकारिणः ॥१०५५॥ सजातिकरणाभावे विजातीयकृतेरपि । असम्भवादिति व्यक्तं पूर्वमेतन्निवेदितम् ॥१०५६॥ अवस्तुत्वे च तद्धतुप्रबन्धे स्यादवस्तुता। असम्पादयतो वस्तु यदवस्तुत्वमिष्यते ॥१०५७॥ उत्पादादित्रयं तस्माच्छब्दादावपि तत्त्वतः । तद्वस्तुवादिभिर्वाच्यमन्यथा तदसङ्गतः ।।१०५८॥ शब्दादिद्रव्यमेवेदमुत्पादादित्रयस्थितेः । एकानेकात्मकं यत्तनिश्चिन्वन्ति विपश्चितः ॥१०५९॥ नातो लक्षणमव्यापि सूत्रसंक्षेपदर्शितम् ।
द्रव्ये सर्वत्र भावान्नाप्यतिव्याप्यन्यतोऽगतेः ॥१०६०॥
भवतु नाम विद्युदादेरुत्पादव्ययवत्त्वम् , ध्रौव्यवत्त्वं तु कथमिति चेत् ? न; धौव्यवद विद्युदादिकम् उत्पादव्ययवत्त्वात् घटादिवदिति तनिश्चयात् । घटादावपि ध्रौव्यवत्वस्यासिद्धः साध्यवैकल्यमुदाहरणस्येति चेत् ; अत्राह
भेवज्ञानात् प्रतीयेते प्रादुर्भावात्ययौ यदि।।
अभेदज्ञानतः सिद्धा स्थितिरंशेन केनचित् ॥११८॥ इति ।
घटादौ हि ध्रौव्यवत्त्वमनन्विच्छन्तः किमन्यत्तत्रान्विच्छेयुः ? न किश्चिदिति चेत् ; न; प्रतीतिविरोधात् । उत्पादव्ययाधिष्ठानं प्रतिक्षणं भेदमिति चेत् ; तमपि कस्मादन्विच्छन्ति ? तज्ज्ञानादिति चेत् ; न ; तस्य तैमिरिककेशादिभेदज्ञानवदप्रामाण्ये ततस्तदन्विच्छायोगात् । न भेदज्ञानमित्येव सर्वमप्रमाणम् , बाधाविकलतया प्रामाण्यस्यापि प्रतिपत्तेरिति २५ चेत् ; तर्हि भेदस्य घटादिप्रतिक्षणनानात्वस्य ज्ञानात् प्रत्ययात् प्रतीयेते प्रादुर्भावश्चोत्तरस्य तत्क्षणस्य अत्ययश्च पूर्वस्य प्रादुर्भावात्ययौ यदि चेत् ; अभेदस्य तयोरेकत्वस्य ज्ञानम् ततः सिद्धा निश्चिता स्थितिः अवस्थानम् । तज्ज्ञानस्यापि लूनपुनर्जातनखादावप्रामाण्येऽपि घटादिपरापरपर्ययेषु बाधावैकल्येन प्रामाण्यादिति
, यतस्तन्द्र-आ०, ब०, प० । २ उत्पत्तिः । ३ अर्थक्रियानुपादकरय । ४ चेत् न तर्हि आ०,०, प०।५ अभेदज्ञानस्यापि ।