________________
४३६
न्यायविनिश्चयविवरणे
[११११८
भावः । भेदाभेदात्मकं हि भवन्मते वस्तु, तस्य च तदात्मना स्थितावभेद एव, न भेदः स्यात् । अस्थितावपि भेद एव नाभेदः स्यात् तत्कथमुभयात्मकत्वं तस्येति चेति ? अत्राह - 'अंशेन केनचित् ' इति । न ह्युत्पादव्ययो स्थितिर्वा वस्तुनः सर्वात्मना यवयं प्रसङ्गः किन्तु केनचिद्भागेनैव | भागभावे न प्रमाणमालम्बनम्, तत्र भेदाभेदात्मनो जात्यन्तरस्यैव नर५ सिंहवत् प्रतिपत्त ेर्न नरसिंहयोरिव भेद्रेतरभागयोः । नय एव तंत्रालम्बनं “ कुर्यात् अत्रापोद्धारकल्पनाम्” [ न्यायवि० श्लो० १११ ] इति वचनादिति । चेन्न कल्पनाविपयस्यावस्तु - सवेन तन्निबन्धनस्योत्पादादेरप्यवस्तुत्वापत्तेरिति चेत्; न; बाधाभावात् । न हि कल्पनावि य इत्येव सर्वमवस्तुसत्; बाधा वैकल्ये वस्तुसतोऽप्युपपत्तेः । न तद्वैकल्यं प्रमाणेनैव जात्यन्तरविषयेण बाधनादिति चेत्; न; अनुप्रविष्ट कल्पनाविषयस्यैव जात्यन्तरस्य तेनापि १० प्रतिपत्तेः । न हि सकलकल्पनाविषयप्रतिक्षेपे जात्यन्तरं नाम सम्भवति तद्विषयसमाहारस्यैव परस्परसम्मूर्च्छनात्मनस्तरवेन' प्रतिपत्तेः । प्रमाणं तर्हि कल्पनया बाध्येत अननुप्रविष्ट - स्यैव जात्यन्तरे स्वविषयस्य तया ग्रहणादिति चेत्; न; अनुप्रवेशवदननुप्रवेशेऽपि तस्या औदासीन्यात् । अतो न कल्पनया प्रमाणस्य नापि तेन तस्या बाधनमिति यथास्वं वस्तुसन्तावेव तद्विषयो । अतो युक्तम्- अंशेनैवोत्पादव्ययौं स्थितिश्चेति । ततो यदुक्तं मण्डनेन"उत्पाद स्थितिभङ्गानामेकत्र समवायतः । प्रीतिमध्यस्थताशोकाः स्युर्न स्युरिति दुर्घटम् ॥
१५
1.
यस्य खलु द्रव्यात्पर्याया भिद्यन्ते तस्य द्रव्यमात्रार्थिनो द्रव्यस्थितेर्विनाशाभावात् अपूर्वस्य चानुत्पादात् मध्यस्थता, रुचकार्थिनस्तस्यापूर्वस्योत्पत्तेः प्रीतिः, वर्द्धमान कार्थिनस्तस्य विनाशाच्छोक इति व्यवस्था प्रकल्प्यते । यस्य तु न "पर्य२० येभ्योऽन्यद्रव्यं न द्रव्यादन्ये पर्ययास्तस्योत्पत्तिस्थितिभङ्गानामेकत्र समवाये द्रव्यार्थिनो मध्यस्थता भवेन्न भवेच्च प्रीतिशोक स्याताम्, न हि तद्द्रव्यमवतिष्ठत एव विनश्यति अपूर्वञ्चोत्पद्यते तत्र विनाशादपूर्वोत्पत्तेश्च प्रीतिशोकौ स्यातां न मध्यस्थता, मध्यस्थता च स्थितेः स्यादिति दुर्घटमापद्यते । तथा वर्द्धमान कार्थिनस्तन्नाशाच्छोक इति स्यात् न च स्यात् स्थितेः । प्रीतिश्च तस्यापूर्वस्योदयात् स्यात् । तथा रुचकार्थिनस्तस्यापूर्वस्यो२५ दयात् प्रीतिः स्यात्, न च भवेत् पूर्वस्यैव स्थितेः, विनाशाच्च शोकः स्यात् । " [ ब्रह्मसि २।२४] इति ।
तदिदं प्रमाणाभिप्रायेण, नयाभिप्रायेण वा दूषणम् ? आधे विकल्पे युक्तम् उत्पत्तिस्थितिभङ्गानामेकत्र समवाय इति, परस्पराविष्वग्भूतानामुत्पादादीनां प्रमाणतः प्रतिपत्तेः । न
१ - मवलम्ब-आ०, ब०, प० । २ तत्रावलम्ब - आ०, ब०, प० । ३ 'चेन' इतिपदद्वयमत्र सम्पातादायातमिति भाति । ४ तद्विषये समा-आ०, ब०, प० । कल्पनाविषय । ५ जान्यन्तरत्वेन । ६ कल्पनया । ७ कल्पनायाः । ८ “शरावो वर्धमानकः इत्यमरः " - ता० टि० । अत्र सुवर्णशरावो ग्राह्यः । ९ प्रकल्पते ता० । १० पर्याये-आ०, ब०, प० ।