________________
प्रथमः प्रत्यक्षप्रस्ताव:
४३७ पुनद्रव्यार्थिन इति वर्धमानकाद्यर्थिन इति च पर्यायात् द्रव्यस्य ततोऽपि पर्ययस्यापोद्धारेण ततोऽ. प्रतिपत्तेः । न च तथा तदप्रतिपत्तौ तदर्थिनाम् , अनपोद्धारेण तु प्रतिपत्तौ जात्यन्तरमेव प्रतीयत इति कथं द्रव्याधर्थित्वं जात्यन्तरार्थित्वस्यैव सम्भवात् । तदर्थिनश्च मध्यस्थतैव सर्वदा तद्रूपाप्रच्युतेः न तदभावः । नापि प्रीतिशोको तन्निमित्ताभावात् । तन्नेदं प्रमाणाभिप्रायेण ।
नयाभिप्रायेणैवेति चेत् । तत्रापि युक्तद्रव्यार्थिनो मध्यस्थता,भवेदिति न तु न भवति ५ सत्यभिसन्धितो द्रव्ये मध्यस्थताया एवोपपत्तेर्न तदभावस्य यतो दुर्घटत्वम्। प्रीतिशोको स्यातामित्यप्यपेशलम् ; द्रव्ये तन्निमित्तयोरुत्पादविनाशयोरभावात् "न सामान्यात्मनोदेति न व्येति व्यक्तमन्वयात्". [आप्तमी० श्लो० ५७] इति वचनात् । ततः परमतानभिज्ञानादेवोक्तम्-न हि तदित्यादि आपथत इति पर्यन्तम् । तथा वर्द्धमानकार्थिनस्तन्नाशाच्छोक एव न तदभावः, तनिमित्तस्य स्थितेस्तत्राऽभावात् । उदयव्ययाधिष्ठानत्वमेव हि पर्यायाणां न स्थितिमत्त्वम् १० "व्येत्युदेति विशेषात्त" [आप्तमी० श्लो. ५७] इति वचनात् । नापि प्रीतिः । तस्यैव पुनरुदयाभावात् । एवं रुचकार्थिनस्तदुत्पादात् प्रीतिरेव न तदभावः, तस्यैव पूर्वमभावात् । नापि शोकः; उत्पद्यमानस्यैव नाशाभावात् । ततो वर्द्धमानकार्थिन इत्यादि शोकः स्यादिति पर्यन्तमपि परमतापरिज्ञानमेव परस्यावेदयति । यदप्यपरं तस्यैव
"नैकान्तः सर्वभावानां यदि सर्वविधागतः ।
अप्रवृत्तिनिवृत्तीदं प्राप्तं सर्वत्र ही जगत् ॥ इति । यदा हि सर्वप्रकारप्वनैकान्तिकत्वं भावानां तथा सति नायं लौकिकः कचिदभिमतसाधनप्रकारमवधार्य प्रवर्तेत यतो नासौ तथैव, नापि निवर्तेत यतो नासावतथैव, तथा दुःखहेतोनं निवर्तेत यतो नासौ तथैव नापि न निवर्तेत यतो नासावतथैवेति कष्टां वत दशामापद्येत ।" [ब्रह्मसि. २०२५] इति ;
२० तत्रापि न परिहरतः किमपि कष्टं नयाभिप्रायेण सर्वत्रैकान्तस्यैवोपपादनात् "तदेकान्तोऽपितानयात्" [बृहत्स्व० श्लो° १०३] इति वचनात् । तथा च यत्सुखसाधनं तत्तथैव नाऽतथापि यतो न प्रवर्तेत । दुःखहेतुरपि तथैव नाऽतथापि यतो न निवत्तेत । प्रमाणार्पणेन तथाऽतथात्वयोर्भावात् भवत्येवायं प्रसङ्ग इति चेत् ; न; प्रमाणतस्त पप्रतिपत्तावप्यभिसन्धि. विषय एव व्यवहारोपपत्तेः, अभिसन्धेश्चैकभावात् , प्रत्युत ऐकान्तिकत्व एव सुखसाधनत्वादेरप्रवृत्तिनिवृत्तिकत्वं जगतः। तथा हि स्रक्चन्दनादिकमहिविषादिकं च सन्निहितस्येवान्यस्यापि तत्कालस्येवान्यकालस्यापि यदि सुखसाधनमेव दुःखसाधनमेव वा किं प्रवृत्त्या निवृ या वा ? ततो नैकान्त इत्यादि नकारवर्ज परपक्षेऽपि वक्तव्यम् ।
अथानेकान्तवदेकान्तोऽपि कचिम्नेष्यते ब्रह्मविदा,भेदस्याविद्याविलसितस्येदन्तया निर्वस्तु
. भेदरूपेण । २ अभेदेन । ३ –णाभिदूषणम् नया-आ०, ब०, ५०। ४ विद्यमानाभिप्रायतया । ५ शोकाभावनिमित्तस्य । ६ “ही शब्दः कष्टार्थः"-ब्रह्मसि०च्या० । ७-मेव वाऽसुखसाधन-आ०,०।