________________
४३८
न्यायविनिश्चयविवरणे
[ ११११८ मशक्यत्वादिति चेत् ; मा नाम भूत् भेदे तदिष्टिः परमात्मनि तु भवेत् , ततो हि लोकानां सृष्टिः "स इमांल्लोकानसृजत" [ऐत० १।२ ] इत्यादि श्रवणात् । तस्य चैकान्ततस्तत्सृष्टिहेतुत्वे कार्य किचिद्विवभितदेशादितयेव निःशेषापरदेशादितयाप्युपजायेत इति तत्साङ्कयं तदसायप्रतिपत्तिविरुद्धमापद्येत अप्रवृत्तिनिवृत्तिकं च जगद्भवेत् । अथ न तथा' तस्य तद्धेतुत्वं कथं कार्य ५ जगत् ? कथञ्चित्तदभावादिति चेत् ; कथं तर्हि 'जमदुत्पत्ती सन प्रवर्तेत यतो न हेतुरेव, नापि न प्रवर्तेत यतो नाहेतुरेव' इति कष्टदशापत्तिर्भवतोऽपि न भवेत् ? न भवत्येव विषयभेदात् , न हि यस्य तद्देशादित्वे स हेतुरहेतुरपि तत्रैव, अपि त्वन्यदेशादित्वे, तंत्र चाप्रवृत्तिः, इतरत्र वृत्तावप्युपपद्यत एवेति कथं कष्टता ? तँदापत्तेरनुपपत्तेरेव कष्टार्थत्वादिति चेत् ; तर्हि चन्दनादिरपि
येनात्मना हेतुः सुखस्य न तेनैवाहेतुः अपि त्वन्येनैव, तेन च तत्राप्रवृत्तिः, इतरेण प्रवर्तमान१० स्यापि नानुपपत्त्या पीड्यत इति कथं "परोऽपि कष्टां दशामापद्येत ?।
जगद्धेतुत्वमपि परमात्मनो नेष्यते जगत एव विचारपरिशोधितस्याव्यवस्थितेरिति चेत् ; कुत इदानीं 'तत्प्रतिपत्तिः ? न स्वतः ; असम्प्रत्ययात् संविदद्वैतवत् ।
स्वतश्चेत्परमात्मायं प्रतिपन्नः समिष्यते । संविदद्वयमप्येवं स्वतः सिद्धं समिष्यताम् ॥१०६१॥ आत्मसंविद्वयस्यैवं तत्त्वतः सम्भवे ; कथम् । वस्तुभेदप्रतिक्षेपः १ "नेह नानास्ति किश्चन" ॥१०६२॥ श्रुतिभ्यस्तत्प्रतीतिश्चेत् ; जगतोऽसम्भवे कथम् । श्रुतयोऽप्युपपद्यन्तां जगदन्तर्गता हि ताः ॥१०६३॥ अबाध्यमेव हेतुत्वं ताभ्यस्तस्यं गतावपि । श्रावयन्ति यतस्तास्तं कारणात्मतयोदितम् ॥१०६४॥
"यतो वा इमानि भूतानि जायन्ते" [तैत्ति० ३।१] इत्यादिका हि श्रुतयो जगहेतुत्वप्रतिपादनमुखेनैव परमात्मभावं भावयन्ति तत्कथं तस्य न हेतुत्वं कल्पितं वा श्रुतिप्रसिद्धस्य कल्पितत्वानुपपत्तेः ? परमात्मन्यपि "तदुपनिपातात् । ततः कारणमेव जगतः पर
मात्माऽनेकान्तश्चेति कथन तत्रापि" प्रवृत्तिनिवृत्तिवैकल्यम् ? विषयभेदात्तु "तदभावे चन्दन. ११ कण्टकादावपि न भवेदित्ययुक्तम्-'अप्रवृत्तिनिवृत्तीदम्' इति पर्याप्त प्रसङ्गेन ।
तत उत्पादादीनां नयविषयाधिष्ठानतया सार्याभावात्तन्निबन्धनाः प्रीत्यादयो भवन्त्येव न न भवन्ति इत्युपपन्नमुक्तं स्वामिसमन्तभद्र तन्मतोपजीविना भट्टेनापि
मि.शेषदेशादितया । २ अन्यदेशादौ । ३ -त्तिरत्र वृत्ता-प० । ४ कष्टदशापत्तेरनुपप-आ०,०,०। ५ जैनोऽपि । ६ ब्रह्मा'तप्रतिपत्तिः । ७ कठोप० ११। बृहदा. १९ । ८ ब्रह्मणः । ९ प्रतिपत्तावपि । १.कल्पितत्वोपनिपातात् । ११ परमात्मन्यपि । १२ प्रवृत्तिनिवृत्तिवैकल्याभावे ।