________________
१।११८] प्रथमः प्रत्यक्षप्रस्ताव
४३९ "घटमौलिसुवर्णार्थी नाशोत्पादस्थितिष्वयम् । शोकप्रमोदमाध्यस्थ्यं जनो याति सहेतुकम् ॥" [आप्त ०मी०श्लो० ५९]इति । "वधमानकभङ्गेन रुचकः क्रियते यदा। तदा पूर्वार्थिनः शोकः प्रीतिचाप्युत्तरार्थिनः ॥
हेमार्थिनस्तु माध्यस्थ्यं तस्माद्वस्तु त्रयात्मकम् ।" [मी० ग्लो०पृ० ६१३] इति। ५
वतो घटादेरभेदज्ञानेन ध्रौव्योपपत्ते - साध्यवैकल्यम् । नापि साधनवैकल्यम् ; उत्पादादेरपि तत्र तज्ज्ञानादेव प्रतिपत्तेः ।
'उत्पादो नाम अभूत्वा भवनम् , अभूतस्य च न भवनम् , व्योमकुसुमादिवत् , अतः कथमुत्पाद इति चेत् ? न ; चक्रचीवरादिव्यापारवैफल्यापत्तेः । अभिव्यक्तिकरणात्तत्सा. फल्यमिति चेत् ; न ; अभिव्यक्तेरप्यभूतायाः करणायोगात् । अभिव्यक्त्यभिव्यक्तिकरणा- १० दिति चेत् ; न ; अनवस्थापत्तेः । अभिव्यक्तेरभूतायाः अपि करणं न घटादेरिति किंकृतो विभागः ? कुतो वा प्रागपि भवतोऽनुपलब्धिः ? तिरोभावादिति चेत् ; स.यदि तस्मादन्यः कथन घटादिकस्येव ततः सर्वस्यानुपलब्धिः ? तत्रैवे तस्य भावादिति चेत् ; न; 'सर्व सर्वत्र विद्यते' इति दर्शनात् । तदभिव्यक्तस्तत्रैव भावादित्यपि न युक्तम् । अत एव तदभिव्यक्त्यभिव्यक्तेस्तत्रैव भावादित्यर्पि; अनवस्थापत्तेश्च । तन्न तस्मादन्यस्तिरोभावः । अनन्य एवेति चेत् ; कथं १५ पश्चादुपलब्धिः ? कुतश्चित्तिरोभावापगमादिति चेत् ; सिद्धमुत्पत्तिमत्त्ववत् व्ययवत्त्वमपीति न साधनवैकल्यं निदर्शनस्य । नाप्यपक्षधर्मत्वं हेतोः; शब्दविद्युदादावप्युत्पादव्ययवत्त्वस्याऽवि. प्रतिपत्त । अतो भवत्येव शब्दविद्युदादेरवस्थानवत्त्वप्रतिपत्तिरन्यथानुपपत्तिनियमनिश्चयात् ।
"यत्पुनरेतत्-यद् यद्भावं प्रत्यनपेक्षं तत्तद्भावनियतं यथा अन्त्या कारणसामग्री कार्योत्पाद प्रत्यनपेक्षा तद्भावनियता, विनाशं प्रत्यनपेक्षश्च भावः, तस्मानश्यत्येव न तिष्ठतीति ; तत्र २० कदाऽसौ नाशः ? भावस्योत्पत्तिसमय एवेति चेत् ; न; हेतोर्धर्मिविपर्ययसाधनेन विरुद्धत्वोपपत्तः । उत्पत्तिसमयभावी हि भावो धर्मी, तस्य च तदैव नाशे कथं न विपर्ययो यतस्तं साधयन् हेतुर्विरुद्धो न भवेत् ? उत्पत्तेरूमिति चेत् ; सोऽपि यदि भावादिनः । कथं भावस्तद्रूपतया व्यपदिश्येत भावो नश्यतीति ? न ह्यन्यः अन्यरूपतया व्यपदेशमहत्यति'.
सांख्य आशङ्कते। २ “कार्यत्वमभूत्वाभावित्वम्"-किरणा० पृ. २९ । ३ तिरोभावः । ५ तिरोभावतः । ५ घटादावेव । ६ “सर्व सर्वत्र विद्यत इति दर्शनाङ्गीकारात् तिरोभावोऽपि सर्वत्र विद्यते ततः सर्वस्यानुपलब्धिर्भवत्वित्यर्थः ।"-ता. टि०। ७ सर्व सर्वत्र विद्यते इति दर्शनादेव। ८ 'न युक्तम्' इति सम्बन्धः । ९ घटादेः । १०-वोपगमादिति आ०, ब०, ५०।११ बौद्धस्य मतम् । “तदयं भावोऽनपेक्षस्तद्भाव प्रति तद्भावनियतः तद्यथा सकलकारणसामग्रीकार्योत्पादनेऽसम्भवत्प्रतिबन्धा ।"-प्र० वा. स्व. वृ० १९७ ॥ "ये यद्भाव प्रत्यनपेक्षास्ते तद्भावनियताः यथासमनन्तरफला सामग्री स्वकार्योत्पादने नियता। विनाशं प्रत्यनपेक्षाश्च सर्वे जन्मिनः कृतका भावा इति खभावहेतुः।"-तत्त्वसं०प० श्लो० ३५३ । १२ विरुद्धोप-आ०, ब०,५०।१३ "सर्वस्य सर्वरूपतया व्यपदेशप्रसझात्"-ता.टि।