________________
म्यायविनिश्चयविवरणे
[ १।११९
प्रसङ्गात् । नायं दोषः ; भावस्यैव तद्धेतुतया तद्रूपत्वेन व्यपदेशोपपत्तेर्न सर्वस्य सर्वरूपतया विपर्ययादिति चेत् ; न ; अनश्वरस्यैव भावस्य तद्धेतुत्वापत्तेः, नाशात् पूर्वं नश्वरत्वानुपपत्तेः । ततो नःश्वरत्वेनार्थक्रियाकारित्वस्य व्याप्तिव्यवस्थापनं परस्यापरिज्ञानविजृम्भितमेव । अन्यतो नाशानश्वरस्यैव तस्य तद्धेतुत्वमिति चेत्; न; तन्नाशस्यापि पश्चाद्भावित्वे तत्रापि 'सोऽपि यदि ५ भावाद्भिन्नः' इत्यादेरनुबन्धात् । तन्नाशेऽपि नाशान्तरान्नश्वरस्यैव भावस्य हेतुत्वपरिकल्पनायातस्यापि परिनिष्ठापत्त ेः । तन्नायं भिन्न एव भावात् । अभिन्न एवास्त्विति चेत् ; न ; तद्वद्भावरूपत्वप्रसङ्गात । कथचिद्भ ेदेस्यापि भावान्न तद्रूपत्वापत्तिरिति चेत्; कथमेवमवस्थितस्य कथचिदन्यथा भाव एव नाशो न भवेत्तत्रैव लोकस्यापि नाशव्यवहारप्रतिपत्त ेः । तत्र च विरुद्ध हेतुः निरन्वयविनाशसाधनाय प्रयुक्तेन तद्विरुद्धस्य सान्वयस्यैव विनाशस्य तेन साधनात् । १० ततः सर्व सदुत्पादादित्रयात्मकमेव नोत्पादाद्यन्यतमैकान्तात्मकं तदप्रतिपत्त ेः । एतदेवाहसोत्पादव्ययधौव्ययुक्त' 'सदसतोऽगतेः । इति
४४०
'सत्' इति धर्मिणो निर्देशः प्रसिद्धत्वात, उत्पादव्ययधोव्ययुक्तम् इति साध्यस्य अप्रसिद्धत्वात् " अप्रसिद्धं "साध्यम्" [ न्यायवि० श्लो० १७२ ] इत्यभिधानात् । हेतुत्वमत्र सत एव द्रष्टव्यम् । धर्मित्वं प्रत्युपक्षीणस्य कथं तस्य हेतुत्वमिति चेत्; न; साध्यं १५ प्रत्यधिकरणभावेन तस्य तत्प्रत्युपक्षयेऽपि अन्यथानुपपन्नत्वेनानुपक्षयात्, तस्य धर्मिभावं प्रत्यनुपयोगात् ।
प्रतिज्ञाथैकदेशत्वेनासिद्धस्य कथमन्यथानुपपन्नत्वमपि साध्यवदिति चेत् ? न साध्यस्यापि तदेकदेशत्वेनासिद्धत्वम्, अपि तु स्वरूपेणाप्रतिपत्तेः । न चैवं सतोऽप्रतिपत्तिः धर्मित्वस्याप्यभावप्रसङ्गात् । तदयमत्र प्रयोगः - यत्किञ्चित् सत् तत्सर्वमुत्पादव्ययधौव्ययुक्तम् २० अन्यथा सत्वानुपपतेः ।
असिद्धिरन्यथानुपपत्तेः साध्यस्यासम्भवात् 1 न हि असम्भवत्साध्यापेक्षं क्वचिदन्यथानुपपन्नत्वमुपपत्तिमत्तामुद्वहति । तस्यासम्भवश्च विचारसूक्ष्म सूचीमुख निर्भेदभीरुत्वात् । तथा हि यदि 'भावस्य स्वतो न सत्त्वम्; उत्पादादियोगेऽपि न स्यात् व्योमकुसुमवत् । उत्पादादिना चासता न योग:, योगेऽपि न सत्वम् ; कूर्मरोमयोगेणापि तत्प्रसङ्गात् । सन्नेवोत्पादा२५ दिरिति चेत्; यदि स्वतः भावोऽपि तथैव सन्निति किं तद्योगेन ? अपरोत्पादादियोगादिति चेत्; न; तदुत्पादादेरप्यपरोत्पादादियोगेन सत्वपरिकल्पनायाम् अपरिनिष्ठापत्तेः । तन तद्योगो नाम साध्यं सम्भवति तत्कथं तदपेक्षमन्यथानुपपन्नत्वं सस्वस्येति चेत्; न; उत्पादादेस्तद्वतो भेदैकान्त एवैवं दोषोपनिपातात्, नाभेदभावे; तत्रोत्पादाद्यात्मकस्यैव "सत्स्वरूपतया निर्णयात् ।
१ नाशहेतुतया । २ नाशः । ३ नाशस्यापि । ४ द्रष्टव्यम्-अक० टि० पृ०१४२ पं०२१ । ५ द्रष्टव्यम्अक० टि० पृ० १६२ पं० ३२ । ६ साध्यत्वं प्रत्य-आ०, ब०, प० । ७ अन्यथानुपपन्नत्वस्य । ८ प्रतिज्ञार्थेकदेशत्वेन । ९ यदि स्वभाव-आ०, ब०, प० । १० तत्रोत्पादात्मक ता० । ११ सरवरूप-आ०, ब०, प० ।