________________
90
१।११९] प्रथमः प्रत्यक्षप्रस्ताव
४४१ सतः किमिदं सत्त्वम् ? उत्पादाद्यात्मकत्वमेव नापरम् , इति । "उत्पादव्ययधौव्ययुक्त सत्" [त० सू० ५।३०] इति युक्तशब्दस्य चाभेदवाचिन एवोपादानात् । ___ अपि च, कथमिदानीमर्थक्रियासामर्थ्यस्यापि सल्लक्षणत्वं यत इदं सूक्तं स्यात्
"अर्थक्रियासमर्थ यत्तदत्र परमार्थसत् ।" [प्र० वा० २।३] इति । स्वयमसतस्तत्सामर्थेन सम्बन्धेऽपि व्योमकुसुमवत्सत्त्वानुपपत्तेः । असता च तेनं तद्वदेव सम्बन्धा- ५ सम्भवात् । स्वतस्तस्य सत्त्वे भावस्यापि तत एव तदुपपत्तेः तत्सम्बन्धवैफल्यात् । अपरतत्सामर्थ्यसम्बन्धात्सत्त्वे चानवस्थादोषस्याविशेषात् । एवम् "उपलम्भः सत्ता" [प्र०वार्तिकाल. २०५४] इत्यादावपि वक्तव्यम्। 'भावादभिन्नमेव तत्सामर्थ्यादिकं तदेव च भावस्य सत्त्वं नापरम् । न च तस्यापरं तत्सामादिरूपं सत्त्वमपेक्षणीयं स्वत एव तद्रूपत्वात्' इति समाधानं तु उत्पादा. चात्मन्यपि सत्त्वे न वैमुख्यमुद्वहति ।
ननु उत्पादादेरपि उत्पादादिस्वभावत्वात् अस्तु उत्पादस्योत्पादात्मकत्वं स्वतो व्ययधौ. व्यात्मकत्वं तु कथमिति चेत् ? न ; व्ययध्रौव्याभ्यामपि तस्य कथश्चिदभेदात् स्वत एव तदात्मकत्वस्याप्युपपत्तेः । भावादेव उत्पादादेरभेदो न परस्परत इति चेत्, न; भावाभेदस्यैव परस्परतोऽप्यभेदत्वात् । “व्यावृत्ताश्च परस्परम्" [सिद्धिवि. परि० ३] इत्यप्यैकान्तिकव्यावृत्तेरनभिधानात् । एवं व्ययस्योत्पादध्रौव्यात्मकत्वं ध्रौव्यस्य च उत्पादव्ययात्मकत्वं ११ स्वतः प्रतिपत्तव्यम् । तन्न तस्यासम्भवः साध्यस्य विचारवैमुख्याभावादित्युपपन्नमेव तदपेक्षमन्यथानुपपन्नत्वं साधनस्य ।
___व्यभिचारादनुपपन्नमेव तस्यान्यथानुपपन्नत्वम्, व्यभिचारश्चोत्पादादीनामन्यतमैकात्मनि अन्यतमद्वयात्मनि वा भावेऽपि भावादिति चेत् ; न; असतोऽगतेः । सदुत्पादादित्रयं व्याप्यपदेन व्यापकस्याभिधानात् । न विद्यते सद्यस्मिंस्तद् असत् , तदन्यतमैकात्मकम्, १० अन्यतमद्वयात्मकं वा तस्य प्रत्यक्षादिप्रमाणेन अगतेः अप्रतिपत्तेः ।
विनेतराभ्यां नोत्पादो न व्ययो वाप्यवेदनात् । प्रमाणेन विरोधाश्च न चोत्पादव्ययौ क्वचित् ॥१०६५॥ विरुद्धं हि निरंशार्थस्योत्पादविगमद्वयम् । तत्सांशत्वे समाधानं पुरस्तादभिधास्यते ॥१०६६॥ उत्पादध्रौव्यरूपश्च भावो हि व्ययवर्जितः । न प्रतीतिविदग्धस्त्रीपरिष्वङ्गसुखावहः ।।१०६७॥ व्ययवानेव भिन्नेन व्ययेन स मतो यदि । तदा तेनैव सर्वोऽपि भावो व्येतीह किन्न वः ? ॥१०६८॥
अर्थक्रियासामर्थ्येन । २ खत एव । ३ -त्वं तस्य च आ०, ब०, प०। ४ पदार्थेऽपि । ५ -कम् तदन्य -०,०,५०। ६ नाप्यवे-आ०, ब०,०।