________________
४४२
न्यायविनिश्चयविवरण
तद्विशिष्टतयार्थस्य नियतस्यैव वेदनात् । इति चेव्ययकालेऽपि भावस्य स्यादवस्थितिः ॥१०६९॥ अनवस्थायिनो यस्मान्न वैशिष्ट्येन वेदनम् । तथा च न विषादः स्यादिष्टनाशेऽपि देहिनाम् ॥१०७०॥ अस्थितस्यापि वैशिष्ट्य बुद्ध्यु पस्थापितस्य चेत् । बुद्ध्यु पस्थापनं तस्य सतश्चेत्कथमस्थितिः १ ॥१०७१॥ असतश्चेत्कथं तस्य व्ययवैशिष्ट्यवेदनम् १ । दृष्टं हि नीलवैशिष्ट्यं सत एवोत्पलात्मनः ॥१०७२॥ आरोपितेन रूपेण वैशिष्ट्यं तस्य चेत्सतः। व्ययस्तस्यापि रूपस्य भावस्यैव भवेत्तदा ॥१०७३॥ ततस्तस्यापि वैशिष्ट्यमसतः कथमुच्यताम् । आरोपितेन रूपेण तस्याप्यस्तित्वकल्पने ॥१०७४॥ पूर्वदोषानिवृत्तिः स्यादनवस्थानवाहिनी । विशेषणत्वमप्यस्य नाशक्तस्योपपद्यते ॥१०७५॥
विशिष्टप्रत्ययहेतोरेव हि नीलादेविशेषणत्वं दृष्टम् । न च व्ययस्य तद्धेतुत्वं शक्तिवैकल्यात्, शक्तिमत्त्वे तु भाव एव स्यात् तस्य तल्लक्षणत्वात् द्रव्यादिवत् । द्रव्यादेरपि न शक्तिमत्त्वात् भावत्वम् अपि तु भावेन सत्तापरव्यपदेशेन सम्बन्धात् । न च व्ययस्य तत्सम्बन्धो यतो भावत्वमिति चेत् ; कथं तर्हि भावस्य भावत्वम् ? तत्सम्बन्धाभावादनवस्थापत्तेः । स्वत एव
भावप्रत्यर्यकरणादिति चेत् ; द्रव्यत्वादेस्तहि कथम् ? न हि ततस्तत्प्रत्ययः; द्रव्यादिप्रत्ययस्यैव २० भावात् , इत्यभावत्वमेव तस्य स्यात् । तदपि नास्ति; अभावप्रत्ययकरणाभावादिति चेत्;
तत्तर्हि भावाभावस्वभावविनिर्मुक्तं तत्त्वान्तरं प्राप्नुयात् । तच्चानुपपन्नम् ; “सतश्च सद्भावोऽ. सतवासद्भावस्तत्त्वम्" [न्यायभा० १।१।१] इति तस्वनियमप्रतिपादनभाष्यव्याघातापत्तेः । नायं प्रसङ्गः स्वप्रत्ययोपजननसमर्थतया द्रव्यत्वादावपि भावत्वस्यैवोपपत्तेरिति चेत् ;
अनुकूलमाचरसि; शक्तिमत्त्वस्यैव भावलक्षणत्वेनैवं प्रतिष्ठानात् । तथा च व्ययोऽपि कथन २५ भावः स्वप्रत्ययशक्तरविशेषात् १ इत्यशक्त एवासौ सर्वथा 'वक्तव्य इति नासौ कस्यचिद्विशेषणम्, स्वानुरक्तप्रत्ययमकुर्वतस्तत्वानुपपत्त । ततो न विशिष्टप्रत्ययनियमातनियमः ।
___ तत्कार्यव्ययनियमादिति चेत् ; किं पुनर्व्ययादपि व्ययः ? तथा चेत्, न; तस्यापि भावार्थान्तरत्वे प्राच्यप्रसङ्गस्यानिवृत्तेः, अनवस्थापत्तेश्च । अनन्तरत्वे तु तद्वत्प्रथमस्यापि
अपि तस्यापि भा०,०प० ।२ भावस्येव आ०,०। भावस्येह प०।३ नाशस्तस्यो-आ०,०प०। ४-यकार-आ०, १०, १०। ५व्यत्वादेः भावप्रत्ययः। अभावत्वमपि । ७ चेत्तर्हि -आ०, १०, १०। ८ वक्तव्यमिति भा०, ब०,०। ९विशेषणत्वानुपपत्तेः ।