________________
१।११९] प्रथमः प्रत्यक्षप्रस्ताव
४४३ तत्त्वोपपत्ते: सिद्धमुत्पादध्रौव्यात्मनो भावस्य व्ययात्मकत्वमपि, अन्यथा तदप्रतीतेः । एवम् उत्पादवानेव ध्रौव्यव्ययात्मा भावो नान्यथा प्रतीत्यभावात् ।
___ भवतु व्यतिरिक्तेनोत्पादेन तद्वत्त्वं नात्मभूतेनेति चेत् ; कः पुनस्तादृश उत्पादः ? प्रागसतः सत्तासम्बन्धः, कारणसम्बन्धो वेति चेत् ; न ; तत्र कारणवैफल्यापत्तेः, तत्सम्बन्धस्य नित्यत्वेन कारणनिरपेक्षत्वात् । तदुक्तम्
“सत्ता स्वकारणाश्लेषकारणात्कारणं किल ।
सा सत्ता स च सम्बन्धो नित्ये कार्यमथेह किम् ? ॥” [ ] इति तन्न तत्सम्बन्धः उत्पादः ।
प्रागसत आत्मला इति चेत् ; न तर्हि तस्य व्यतिरेक इति आत्मभूतेनैवोत्पादेनोत्पादवान् ध्रौव्यव्ययात्मा भावः, अन्यथा तदवगमाभावात् । उत्पादव्ययस्वभावमेव च १० ध्रौव्यम् , अन्यथा कस्याप्यपरिज्ञानात् । ध्रुवमेवात्मादि परिज्ञायत इति चेत् ; कुतस्तत्परिज्ञानम् ? स्वशक्तित इति चेत् ; न; सर्वदा सर्वेणापि तत्प्रसङ्गादविवादापत्तः। सामप्रीतस्तत्परिज्ञानम् , न च सा सर्वदा सर्वस्यापीति चेत् ; तद्दशायां यदि तस्य प्राच्यं तदविषयत्वं न परिक्षीयेत कथं तद्विषयत्वं विरोधात् ? परिक्षीयते चेत् ; कथन्न व्ययः तस्यं तस्मादर्थान्तरत्वात् , न हि अर्थान्तरस्य परिक्षये तत्परिक्षयः, अतिप्रसङ्गात्। कथं तादृशेन तेन तद्विषय इति व्यप- १५ देशः अतिप्रसङ्गस्याविशेषात् ? सम्बन्धात्कुतश्चिदिति चेत् ; न; ततोऽप्यर्थान्तरात्तदनुपपत्तः। तत्राप्यपरसम्बन्धकल्पनायाम् अनवस्थापत्तेः" । तस्य तस्मादनन्तरत्वे तु सिद्धं तदपरिक्षये" पश्चादप्यपरिज्ञानम् । न ह्यपरित्यक्ततदविषयत्वसम्बन्धस्वभाव" तद्विषयभावमनुभवति । अनुभवद्वा परित्यक्ततत्स्वभावमेवेति कथन्न व्ययः १
___ कथं वा नोत्पादः १ पूर्वस्वभावपरित्यागस्योत्तरस्वभावोपादानात्मन एवोपपत्तः । २० अनुत्तरोपादानस्य चावस्थानायोगेन निःशेषपरिक्षये तत्परिज्ञानस्योत्पन्नस्यापि निर्विषयत्वापत्तेः। तन्नैकशी द्विशो वा सम्भवन्त्युत्पादादयः, यतस्तत्रापि भावाद्व्यभिचारी हेतुर्भवेत्।
ननु धौव्यं नाम पूर्वस्य दधिपर्यायस्योत्तरतत्पर्यायेणैकत्वम् , तञ्च तेनैव कुतो न करभपर्यायेणापि देशादिभेदस्य प्रकृतेऽप्यविशेषादिति चेत् ? अत्राह
तादात्म्यनियमो हेतुफलसन्तानवद्भवेत् ॥११९॥ इति । २५ तादात्म्यम् एकत्वं तस्य नियमो दधिपर्यायस्य तत्पर्यायेणैव न करभपर्यायेणेत्यव
तद्वन्नात्म-आ०, ब०,१०।२ कथं पुन-आ०, ब०, ५०।३ “अथ किमिदं कार्यत्वं नामेतिखकारणसत्तासम्बन्धः"-प्रश० व्यो. पृ० १२९ । ४-लाभस्तर्हि इति आ०, ब०, ५०। ५-त्पादनात् धौ -आ०, ब०, ५०।६ प्राच्यं यत्तद्वि -आ०, ब०, ५०। ७ परिज्ञानविषयत्वम्। ८ तदविषयत्वस्य आत्मादेः । अत्र 'न व्ययः' इत्यनुवर्तनीयम् । ९ अर्थान्तरभूतेन । १० तदविषयत्वपरिक्षयेण । ११-पत्तेश्च तस्य -आ०,५०, प०।१२ तदविषयत्वस्य । १३ तदविषयत्वापरिक्षये । १४-वत्वं तद्वि-आ०, ब०,५०। १५ सत्त्वादिति ।