________________
મ
न्यायविनिश्वयविवरणे
[ १।१२०
धारणं भवेदिति तद्भावं विदधानस्तदभावं व्यवच्छिनत्ति, तदव्यवच्छेदे तद्विधानानुपपत्तेः । अत्र हेतुः ' असतो गतेः' इति असतः करभपर्यायेष्वविद्यमानस्य तादात्म्यस्य दनो दधिपर्यायेष्वेवं गतेः प्रतिपत्त ेः । तत्र दृष्टान्तः हेतुफलसन्तानवत् । हेतवश्च फलानि च पूर्वापरदधिक्षणरूपाणि तेषां सन्तानः, तद्वत् । यथा तेषां भेदेऽपि परस्परमेवैकः सन्तानो ५ न करभक्षणैः तव्यावृत्तस्य तस्य तत्रैव गतेः, अन्यथा "चोदितो दधि खाद" [प्र० वा० ३।१८२] इत्यादेस्तत्रापि प्रसङ्गात् । तथा तत एव तेषां परस्परमेव तादात्म्यं न तत्क्षणैः । अथवा हेतुफले हेतुत्वफलत्वे भावप्रधानत्वात् निर्देशस्य । यदि वा, न विद्यते हेतुर्यस्य सः अहेतुः प्रध्वंसः फलं विधिः अन्यस्य फलत्वानुपपत्तेः तयोः सन्तन्यते तादात्म्येन विस्तीर्यते इति हेतुफलसन्तानो अहेतुफलसन्तानो वा मध्यक्षणः तस्यैव । न हि तस्य हेतुत्वमेव, १० स्वयमफलस्य सामान्यादिवदवस्तुत्वापत्त ेः । पूर्वपूर्वापेक्षयाऽपि तस्य तत्त्वेन तत्तत्पूर्वकालभावित्वेन चिरापक्रमदोषाच । नापि फलत्वमेव स्वयमहेतोर्व्योम कुसुमसमत्वोपनिपातात् । उत्तरोत्तरापेक्षयापि तस्य तवेन तत्तद्दुत्तरकालभावित्वेनातिचिरभावित्वप्रसङ्गाच्च । तथा न तस्य विधिरेव स्वभावः, तत्क्षणवत् क्षणान्तरेऽपि तत्स्वभावत्वेनाक्षणिकत्वप्रसङ्गात् । नापि नाश एव; क्षणान्तरवत् तत्क्षणेऽपि तदात्मत्वेन शून्यवादोपनिपातात् । ततः पूर्वं प्रति फलत्वमुत्तरं प्रति हेतुत्वं १५ तत्क्षणं प्रति विधित्वं क्षणान्तरं प्रति नाशत्वमिति परस्परं भिन्नावेव हेतुफलभावौ विधिविनाशौच । न च तौ च तौ च तादात्म्येन व्याप्नुवर्तिं तस्मिन्नतिप्रसङ्गः; वस्तुसाङ्कर्यापत्तेः । ततो यथा नियत प्रतीतिसामर्थ्यात् नियतमेव हेतुफलतादात्म्यं विधिविनाशतादात्म्यश्च तत्क्षणस्य तथा दुध्यादेः पर्यायतादात्म्यमपीति न कश्चिदुपालम्भः ।
I
मा भूत्तत्क्षणस्यापि तत्तादात्म्यं हेतुफलभावस्य विधिविनाशभावस्य च क्वचिदनिष्टेः । २० अद्वैतं हि तत्त्वं तस्य निरवद्यप्रमाणविषयत्वात्, न हेतुफलभावादि विपर्ययात् । कल्पितस्य तु न दृष्टान्तत्वम्, साध्यस्यापि कल्पितस्यैव प्रसिद्धिप्रसङ्गादिति चेत् ; न ; अद्वैतस्याप निर्भागपरमाणुरूपस्याप्रमाणत्वात् । नानैकस्वभावत्वे तु नाद्वैतं तद्वदर्थस्यापि तादृशस्याऽनिषेधोपपादनात् ।
भवतु तदुभयमपि क्षणिकमेवेति चेत् ; अत्राह
२५
भिन्नमन्तर्बहिः सर्वं युगपत्क्रमभावि नः ।
प्रत्यक्षं न तु साकारं क्रमयुक्तमयुक्तिमत् ॥ १२० ॥ इति ।
सर्वं निरवशेषम् अन्तश्चेतनं भिन्नं बहिश्चाचेतनं भिन्नम् अनेकस्वभावं अक्रमेण 'यत्' इति शेषः । तत्रोत्तरम् - क्रमभावि क्रमेण भवनशीलम् अन्तर्बहिः
युगपत्
१ - येष्विव आ०, ब०, प० । २ " हेतुत्वेन" - ता० टि० । ३ चिरविनष्टदोषात् । ४ तथात्म-आ०, ब०, प० । ६ व्याप्नोति त-आ०, ब०, प० । ७ “ संविदर्थद्वयम् - ता० टि० । आ०, ब०, प० ।
फलत्वेन । ५ ८ - कमयुक्तवत्