________________
१३१२१ ]
प्रथमः प्रत्यक्षप्रस्ताव सर्व भिन्नमिति सम्बन्धः । कुत एतत् ? प्रत्यक्षं प्रत्यक्षवेद्यं यत इति । निरूपितं चैतत् ।
ननु यदि प्रत्यक्षमक्रम न तेनापरक्रमप्रतिपत्तिः। सक्रमं चेत् ; न ; तत्क्रमेणाप्यपरिज्ञातेन तदनुपपत्तेः, तत्परिज्ञानस्याप्यपरतत्क्रमेण परिकल्पनायामनवस्थापत्तेरिति चेत् ; अत्रोत्तरम् 'न तु' इत्यादि । प्रत्यक्षमित्यत्रापि सम्बन्धनीयम् । प्रत्यक्षं प्रत्यक्षप्रमाणं साकारं स्वपरनिर्णयात्मकं न तु नैव अयुक्तिमत् अपि तु युक्तिमदेव । कीदृशं तत् ५ अयुक्तिमन्न भवति ? क्रमयुक्तं क्रमेण अपरापरशक्तिपर्यायरूपेण युक्तमुपपन्नम् । प्रत्यक्षक्रमस्या परतत्क्रमेण परिज्ञानानभ्युपगमात् । न च तावता तस्यापरिज्ञानमेव प्रत्यक्षपरिज्ञानस्यैव तत्क्रमप्ररिज्ञानत्वात् , प्रत्यक्षतत्क्रमयोः कथञ्चिदेकत्वात् । अवश्यं चैवमभ्युपगन्तव्यम् , अन्यथा युगपद्भावितदपरापरस्वभावपरिज्ञानस्याप्येवमयुक्तिमत्त्वापत्तेः। ततो युक्तं युगपदिव क्रमेणाप्यनेकस्वभावं सर्वम् , प्रत्यक्षतस्तथैव प्रतिपत्तेः ।
एतदेव लोकप्रसिद्धेनोदाहरणेन दर्शयन्नाह -
प्रत्यक्षप्रतिसंवेद्यः कुण्डलादिषु सर्पवत् । इति ।
प्रत्यक्षं विशदं व्यवसायात्मकं ज्ञानं तेन प्रतिपुरुष सम्यगबाधितत्वेन वेद्यो ज्ञातव्यो 'विशेषः' इति वक्ष्यमाणमिहाकृष्य सम्बन्धनीयम् । विशेषश्च द्रव्यपर्यायात्मा भावः, तस्यैकान्तव्यतिभिन्नद्रव्यपर्यायाभ्यां भिद्यमानतया विशेषाभिधानोपपत्तेः । अत्रोदाहरणम्- १५ कुण्डलमादिर्येषां प्रसारणोत्फणविफणाद्यवस्थाभेदानां तेषु सर्प इव तद्वत् ।
सर्पस्तावदनुस्यूतः कुण्डलायमनादिषु । प्रत्यक्षेणैव संवेद्यो विवादस्तत्र ते कथम् ? ॥१०७६।। प्रत्यक्षेऽपि विवादश्चेदविवादः क्व कल्प्यताम् ? । कल्पनैवान्वयज्ञानं प्रत्यक्षन्नेति चेन्मृषा ॥१०७७॥ अन्वयज्ञानतोऽन्यस्य प्रत्यक्षस्याप्रवेदनात् । अवेदनाभिमानस्ते निश्चयाभावतो यदि ॥१०७८॥ सनिश्चयं चेदध्यक्षं कथं नाम न निश्चयः । अनिश्चयं चेत्सर्वत्र सर्व प्रत्यक्षमुच्यताम् ॥१०७९॥ ततोऽनुर्वृत्तसर्पादिज्ञानं प्रत्यक्षमेव तत् । विशदत्वेन निर्भासात् सुखनीलादिबोधवत् ॥१०८०॥
वैशद्यं च यथा तस्य मुख्यमेव न कल्पितम् । निरूपितं तथा पूर्वमिति नेह निरूप्यते ॥१०८१॥
१ परपर्या-आ०, ब०, प० । २ तुलना-"तस्मादुभयहानेन व्यावृत्त्यनुगमात्मकः । पुरुषोऽभ्युपगन्तव्यः कुण्डलादिषु सर्पवत् ॥"-मी० श्लो० पृ. ६९५ । प्रमाणसं० ११२ । ३ -यं चिद -आ., 4०,५०।४-त स-आ०, ब०, प०।