________________
न्यायविनिश्चयविवरणे
[१।१२१
ततो द्रव्यादिरूपत्वं वस्तुनोऽध्यक्षतोऽधुना । पश्यन्ननाद्यनन्तेऽपि काले तत्त्वं प्रपद्यते ॥ १०८२॥ पश्यतोऽपि तथा व्याप्तिं यदि नानुमितिस्तदा । क्षणभङ्गानुमानादेरपि देयो जलाञ्जलिः ॥१०७३॥ तस्मान्मध्यवदेवान्यकालेऽप्यर्थस्तदात्मकः ।
प्रपत्तव्योऽत एवोक्ता पूर्वश्लोके 'सदाश्रुतिः ॥१०८४॥ ततो द्रव्यपर्यायात्मैव भावः प्रत्यक्षेण तथा प्रतिपत्तेः । यत्पुनरत्रोक्तमर्धतेन
"अविनाशोऽनुवृत्तिश्च व्यावृत्तिर्नाश उच्यते । द्रव्याविनाशे पर्याया नाशिनः किं तदात्मकाः ॥ नष्टाः पर्यायरूपेण नो चेद्द्व्यस्वभावतः ।
किमन्यरूपता तेषां न चेन्नाशस्तथा कथम् ॥” [हेतु०टी० पृ० १०५] इति ।
तदयुक्तम ; द्रव्याविनाशे पर्यायनाशस्यानभ्युपगमात् , सर्पादेरेव नश्यतः पर्यायत्वात् मनश्यतश्च द्रव्यत्वात् । कथमेकस्यैव नाशश्च अनाशश्चेति चेत् ? प्रतीतिरेव प्रष्टव्या यैवमुप
दर्शयति न वयं तदुपाध्यायतया तदुपदर्शितमनुमन्यमानाः। प्रतीतिरेव पृच्छयत इति चेत् ; १५ कुतो वस्तुव्यवस्था ?
प्रतीतिरेव वस्तूनां व्यवस्थाया निबन्धनम् । तत्र चेन्नास्ति विश्वासो विनष्टा तव्यवस्थितिः ॥१०८५॥ निर्विकल्पप्रतीतेस्तु तव्यवस्थापकल्पनम् ।
कुर्वन्तः कामयन्तेऽमी बन्ध्ययाऽपि सुतोद्भवम् ॥१०८६॥
ततः प्रतीतिबलावस्थापितत्वादुपपन्नमेकस्यैव नाशश्वानाशश्चेति । तथा जोतिश्चाजातिश्चेति । तथा च
"एकं जातमजातं च नष्टानष्टं प्रसज्यते ।
द्रव्यपर्याययोरेकस्वभावोपगमे सति ॥"[हेतु० टी० पृ० १०५] इत्ययमनुपालम्भ एव, स्याद्वादिनामभिमतत्वात् । यद्येवं द्रव्यपर्याययोः कथं स्वालक्षण्यभेदो । यतस्तमानात्वप्रकल्पनमिति चेत् ? विनाशाविनाशरूपतया भेदस्यापोद्धरणात् । तदपि कल्पनयैव
नयनामधेयया न प्रत्यक्षादिप्रतीत्या, तत्र जात्यन्तरस्यैव भेदाभेदैकान्तविलक्षणस्य प्रतिभासनादिति निवेदितमसकृत् ।
ततो यदुक्तम्-"ततो लक्षणभेदेन तयो व विभिन्नता।" हेतुष्टी० पृ० १०५] इति; तत्तथैव प्रत्यक्षादिप्रतीत्यपेक्षया । कल्पनापेक्षया तु न तथा, तत्र तल्लक्षणभेदस्य प्रतीतेः ।
सदाशब्दः । २ "उत्पत्तिश्चानुत्पत्तिश्च"-ता. टि.।