________________
४४७
१।१२१ ]
प्रथमः प्रत्यक्षप्रस्ताव कथं पुनद्रव्यपर्याययोः तदात्मकमेकं वस्तु द्वयस्योपपत्तेः, अभेदेऽप्यन्यतरस्यैव सम्भवात् । कथश्चिदभेदे तु ताभ्यामभेदरूपस्याभेदे तद्वद्भेद एव स्यात् । भेदे तु परस्परविविक्ताः त्रयः स्वभावा नैकस्तदात्मार्थः, तेषामप्यभेदरूपस्यापरस्य कल्पनायामनन्तस्वभावत्वमेकस्यापतितः (तम्)परापरतस्वभावपरिकल्पनस्यापरिनिष्ठानात् । न च तदभ्युपगमो वस्तुबलभाविज्ञाने तदनवभासनादिति चेत् ;न; एकान्ततस्तद्भेदाभेदयोः प्रत्यक्षादावप्रतिभासनात् । न च कथञ्चिदभेदेऽपि ताभ्यामन्य- ५ तदभेदरूपम् , यदयं प्रसङ्गः किन्तु स्वरूपमेव, द्रव्यस्य पर्यायेण पर्यायस्य द्रव्येणाभेदः, तथैव प्रत्यक्षादितः प्रतिपत्तेः । अवश्यं चैतदेवमभ्युपगन्तव्यम् , अन्यथा विकल्पस्यापि स्वैविष. यापेक्षया निर्विकल्पेतरात्मनो ज्ञानस्याभावप्रसङ्गात् । शक्यं हि तत्रापि वक्तुम्-तदात्मनो दे ज्ञानद्वयम् , अभेदेऽन्यतरत्वम् , कथञ्चिदभेदे प्राच्यप्रसङ्ग इति । ततस्तत्राप्ययमेव परिहारः, स्वरूपमेव तस्ये ताभ्यां तयोश्च तेनाभेदः तथैव निरवद्यस्ववेदनाध्यक्षतोऽधिगमादिति । ततः १० प्रमाणवृत्तमजानतैवेदमपि तेनाभिहितम्
"एकान्तेन विभिन्ने च ते स्यातां वस्तुनी स च । 'तयोः केन विभिन्नाभ्यामभिन्नस्य विभेदतः॥ तेषामभेदसिद्ध्यर्थमभिन्नो यदि कल्प्यते । अन्यस्वभावस्तस्यापि तदभेदप्रसिद्धये ॥ कल्पनीयः स्वभावोऽन्यः तथा स्यादनवस्थितिः । न चानन्तस्वभावसमर्थसामर्थ्यभाविनि ॥ "ज्ञानेऽवभासते तेन तथैवोपगमो भवेत् ।" [हेतु० टी० पृ० १०५] इति । तथेदमपि
"ऐकान्तिकस्त्वभेदः स्यादभिन्ना भिन्नयोर्यदि । भेद एव विशीर्येत तदेकाव्यतिरेकतः ॥" [हेतु०टी० पृ० १०५] इति ।
द्रव्यपर्यायाभ्याम् अन्यस्याभेदरूपस्याभावे तस्मात्तयोर्विकल्पतदाकारयोरिवाभेदपरि. शहनस्यैवानुपपत्तेः । यदप्युक्तम्
"अभेदस्यापरित्यागे भेदः स्यात्कल्पनाकृतः । "तस्यावितथभावे वा स्यादभेदे मृषार्थता ॥ अन्योन्याभावरूपाणामपराभावहेतुकः । एकभावो यतस्तस्मान्नैकस्य स्याद् द्विरूपता ॥" हेतु०टी०पृ० १०६] इति; तदपि सादेरिव विकल्पज्ञानस्यापि द्वैरूप्यं प्रतिविदध्यात् अविशेषात् । एकरूपमेव
-ताः ख-आ०,ब०प० । २ भेदं य-आ०,ब०प० । ३ खञ्च विषयश्चेति द्वन्द्वः। ४ विकल्पेऽपि । ५ विकल्पस्य। ६निर्विकल्पेतराभ्याम् । ७ अर्चटेन । ८ “यः पूर्वः स्वभावः यश्च कार्यभेदानुमितः ते द्वे वस्तुनी स्थातामिति चार्थः"-हेतु. टी. टि. पृ० १०५। ९ “तयोरेको न भिन्नाभ्याम् इति वा पाठः"-ता.टि.।. ज्ञानेन भास-आ०, ब०, प० । ११ तस्यापि तदभावे आ०,०,१० । भेदस्य ।।