________________
४४८ म्यायविनिश्चयविवरणे
[१।१२१ वस्तुतस्तज्ज्ञानम् अभिलाप्याकारस्य तत्र कल्पितत्वादिति चेत् ; न ; स्वतस्तत्कल्पनस्य प्रत्यक्ष. वदसम्भवात् , अन्यतश्चानवस्थापत्तेः।
कुतो वा परस्पराभावरूपत्वं भेदाभेदयोः ? प्रत्यक्षादिप्रेमाणादिति चेत् ; न ; तत्र सम्मूच्छिततदुभयस्वभावस्यैव सर्पादेर्भावस्य प्रतिभासनात् । नयादिति चेत् ; न ; तत्रापि ५ सम्यगभिसन्धिरूपे प्रतिभासमानस्याप्येकस्य अपराभावत्वेनाप्रतिभासनात् , अपरत्र विधिवत् प्रतिषेधस्याप्यनभिसन्धेः । एकावधारणाभिसन्धिस्तु मिथ्यैव प्रमाणव्यापारप्रतिद्वन्द्वित्वादिति न तद्बलेनान्योन्याऽभावरूपत्वं द्रव्यपर्याययोः, यतो द्रव्यस्यैव पर्यायरूपतया पर्यायस्यैव च द्रव्यरूपतया एकस्यैव द्वैरूप्यं न भवेत् । यदप्युक्तम्
_ "अन्योन्याभावरूपाश्च पर्यायाः स्युन भेदिनः।
तद्विनाशे[5]विनाशि स्याद् द्रव्यं वा कथमन्यथा ॥"[हेतु०टी०पृ० १०६]इति;
तत्रापि पर्यायाणामभेदित्वं नाशित्वश्च द्रव्यस्य यदि कथञ्चित् ; अनुमतमेव, द्रव्यमेव नश्यति पर्यायनाशात् , पर्याया एव तिष्ठन्ति द्रव्याविनाशादिति प्रतीतिबलेनाभ्यनुज्ञानात् । एकान्तेन तु तत्कल्पनमनुपपन्नं तद्बलेन प्रतिक्षेपात् ; अन्यथा विकल्पज्ञानमपि तदाकारवदेकान्तेन
व्यावृत्तमेव नानुवृत्तमिति प्रत्याकारं तद्भेदान्नोभयात्मकमेकं तद्भवेत् । तथा तदाकारयोरप्येका१५ न्तेनाभेद एवेति निर्विकल्पकमेव तत् न कश्चिदपि विकल्प इति तन्निबन्धनस्य वाङ्मयव्यवहारस्या
भावात कथमनेकान्तदोषोद्घोषणम् । विकल्पकमेव वा तदिति कथं तत्स्ववेदनस्य प्रत्यक्षत्वं कल्पनापोढस्यैव तदुपपत्तेः । नाप्यव्यतिरिक्तस्यानुमानत्वमिति अन्यदेव तत्प्रमाणं प्रमाणद्वयनियमव्याघाताय कल्प्येत । न चाऽस्वसंविदितमेव तत् “सर्वचित्तचैत्तानाम्" [न्यायबि० पृ० १९]
इत्यादेविरोधात् । ततः कथञ्चिदेव तज्ज्ञानस्य व्यावृत्तत्वमभिन्नत्वञ्च तदाकारयोरिति प्रतीति२० वशात् प्रतिपत्तव्यम् । तथा द्रव्यस्य नाशित्वमभिन्नत्वञ्च पर्यायाणामिति न कश्चिद्व्याघातः ।
ततो यथा नेदं विकल्पे दूषणम्-'तद्धर्मयोराकारयोः तस्य तंत्र वा तयोरनुप्रवेशे ऐकान्तिको भेदाभेदौ, अननु वशे धर्मधर्मिणोः भेद एव नापरः। तथाहि-येनात्मना ज्ञानं तदाकाराविति च यदि तेन भेदः, तदा भेद एव नैकस्य द्वैरूप्यम् । न च ज्ञानतदाकाराभ्यामपरस्वभावो यन्निमित्त. स्तयोरभेदः। सतोऽपि "तस्माद्यदि ज्ञानतदाकारयोरभेदः सदा "स एव न ताविति तयोः स्वभा. वहानिः "तस्मात्तयोर्भेदोऽप्यस्तीति चेत् ; तत्रापि येनात्मना ज्ञानं तदाकारौ तदन्यश्चेति यदि तेन भेदः; तदा भेद एव तेषामप्यभेदसिद्धये "परस्वभावकल्पनायां पूर्वप्रसङ्गाऽनिवृत्तिः, धर्मित्वश्च तस्यैव स्यात्तदायत्तत्वात् ज्ञानतदाकारयोः । न चापरिनिष्ठितापरापरस्वभावं तज्ज्ञानं प्रतीयते इति । कस्मात् ? एकान्ततोऽनुप्रवेशस्य, ज्ञानतदाकारव्यतिरिक्तस्य तदभेदरूपस्य चानभ्युपगमात् । न चैवं भेद एव तयोः; स्वत एव कथञ्चित्परस्पराभिन्नतया निर्बाधप्रतीत्यपारूढत्वात् । तथा
विकल्पज्ञानम् । २-माणभेदादिति आ०,०प०।३ -कमेतन्न कश्चिद्विक-आ०,०प० । ४ प्रत्यक्षत्वोपपत्तः । ५ तदा आ०,ब०प० । ६ यदा आ०,ब०प०। ७ सप्तमीद्विवचनम् । ८ विकल्पस्य । ९ विकरुपे । १. अपरखभावात् । ११ अभेद एव । १२ अपरखभावात् । १३ -द्धपर-आ०,ब०प० ।