________________
प्रथमः प्रत्यक्षप्रस्तावः
४५९
१।१२१] द्रव्यपर्यायात्मकेऽपि वस्तुनि । अत इदमपि प्रतीतिबलानभिज्ञतयैव तेनोक्तम्---
"ऐकान्तिकावनन्यत्वाद्भेदाभेदी तयोर्भुवम् । अन्योन्यं वा तयोर्भेदो नियतो धर्मधर्मिणोः ॥ तयोरपि भवेद् भेदो यदि येनात्मना तयोः । पर्यायो द्रव्यमित्येतद्यदि भेदस्तदात्मना ।। भेद एव तथा च स्यान्न चैकस्य द्विरूपता । द्रव्यपर्यायरूपाभ्यां न चान्योऽस्तीह कश्चन ॥ स्वभावो यन्निमित्ता स्यात्तयोरेकत्वकल्पना । ततस्तयोरभेदे हि स्वात्महानिः प्रसज्यते ॥ तस्य भेदोऽपि ताभ्याश्चेद् यदि येनात्मना च ते । धर्मी धर्मस्तदन्यश्च यदि भेदस्तदात्मना ॥ भेद एवाथ तत्रापि तेभ्योऽन्यः परिकल्प्यते । तेषामभेदसिद्ध्यर्थं प्रसङ्गः पूर्ववद्भवेत् ॥
न चैवंगम्यते तस्माद्वादोऽयं जाल्मकल्पितः।" [हेतु० टी० पृ० १०७] इति ।
नन्विदं प्रागेव प्रतिपादितम् 'एकान्तेन विभिन्ने च' इत्यादिना । न चातिव्यवधानं १५ यदनुस्मरणाय पुनरपि प्रतिपाद्यत तस्माद्विस्मरणशील इवायं प्रतिभातीति चेत् ; किम् इवशब्दो. पादानेन ? साक्षादेव क्षणिकप्रज्ञस्य तच्छीलत्वोपपत्तेः । ततो निर्दोषत्वादनेकान्तस्य न तद्वादी जाल्मः, तत्र अभूतं दोषं घोषयतोऽर्चस्यैव (चंटस्यैव) जाल्मत्वात् ।
विकल्पस्योभयरूपत्वं निर्विकल्प-सविकल्पव्यावृत्तिभ्यामेव न वस्तुतः तत्कथं तद्वदन्यत्रापि वास्तवत्वमनेकान्तस्येति चेत् ; तस्य स्वरूपमपि अस्वरूपव्यावृत्तिरेवेति अभाव एव विक- २० ल्पस्य । तथा च अनुमानस्यापि तद्रूपस्याभावात् निष्प्रयोजनत्वं सर्वहेतूनामिति किं तत्पूर्वपादनाय (तत्प्रतिपादनाय) हेतुबिन्दुः तद्विवरणं चार्च (चार्चट) स्य ? ततो वस्तुत एवोभयरूपत्वमनुमानविकल्पस्येति कथं तद्वदन्यत्रापि निर्दोषत्वमनेकान्तस्य न भवेत् ? एतदेव पूर्वमुक्तम्
"तादात्म्यनियमो हेतुफलसन्तानवद्भवेत्” [न्यायवि० श्लो० ११९] इति ।
स: अनेकान्तः आत्मा यस्येति तस्य भावः तादात्म्यम् , तस्य नियमः निर्दोषत्वेन २५ अवश्यम्भावः । स च, हेतुफलम् अनुमानविकल्पः, स एव स्वाकारयोः सन्तन्यमानत्वात् सन्तानः, तस्येव तद्वदिति । तस्मादचाल्य एव अनेकान्तवादः इत्यचं (त्यर्चट) प्रत्येवमुच्यताम्
अर्चतचटक, तदस्माटुपरम दुस्तर्कपक्षबलचलनात् । स्याद्वादाचलविदलनचुचुर्न तवास्ति नयचञ्चः ॥१०८७॥ इति ।
१ "जाल्मोऽसमीक्ष्यकारी स्यात्"-ता. टि.। २ विकल्परूपस्य । ३ नियमः । ४ साकार-आ०, ब०, प०। ५-दबाल्य आ०, ब०, प० ।