________________
४५०
न्यायविनिश्चयविवरण
[१११२१
तदेवं मूलकारिकानिर्दिष्ठयोः द्रव्य पर्यायपदयोः व्याख्यानं कृत्वा सामान्यविशेषपदयोस्तदर्शयति
समानभावः सामान्यं विशेषोऽन्यो व्यपेक्षया ॥१२१॥ इति ।
समानः सदृशः स चासौ भावश्च आत्मलाभः स एव सामान्यम्, 'नैक ५ सकलव्यक्तिगतम्' इति समानशब्देन, 'नापि तद्वतोऽर्थान्तरम्' इति च भावपदेन प्रदर्शयति ।
न हि सामान्यं तदाधारसमस्तव्यक्तिगतमेकं सम्भवति; व्यक्त्यन्तरालेऽपि तदुपलम्भप्रसङ्गात् । व्यक्तावेव तदुपलम्भो व्यक्तेस्तन्निमित्तत्वात् नान्यत्रेति चेत् ; न; उपलभ्येत
रस्वभावतया तस्य भेदापत्तेः । ततो व्यापि सामान्यं तथैवोपलभ्यत इति कथनान्तरालेऽपि १० तदुपलब्धिः ? व्यक्तिष्वेव भावादिति चेत् ; तदन्तरालेष्वसतः कथमेकत्वम् ? अनुगतप्रत्ययात् ;
कः प्रत्ययस्यानुगमः ? एकत्वमिति चेत् ; न; प्रतिव्यक्ति 'खण्डो गौः मुण्डो गौः' इति तद्भेदस्यैवोपलम्भात् । प्रत्ययत्वं सामान्यमिति चेत् ; तस्याप्येकत्वं तद्व्यक्तिषु कुतः १ तदन्यस्मादनुगतप्रत्ययादिति चेत् ; न; तत्रापि 'कः प्रत्ययस्यानुगमः' इत्यादेरावृत्तेरनवस्था
पत्तेश्च । तन्नैकं सत्त्वमन्यद्वा सामान्यम् । १५ नापि भावादर्थान्तरम् ; भावस्यासत्त्वापत्तेः । सत्त्वेन सम्बन्धान्नेति चेत् ; न; सम्बन्ध.
स्य द्विष्टत्वात् , असतश्च तदधिकरणत्वानुपपत्तेः काकदन्तवत् । प्रागेवाऽसत्त्वं तत्सम्बन्धात् न तत्समये इति चेत् ; न ; किं पुनस्तत्सम्बन्धः कादाचित्को यत एवम् ? तथा चेत् ; कुतस्तस्यापि सत्त्वम् ? अन्यस्मात् तत्सम्बन्धादिति चेत् ; सोऽपि कथमसतः व्योमकुसुमवत् ?
तस्यापि प्रागेव तत्सम्बन्धादसत्त्वं न तत्समय इति चेत् ; न; तत्रापि 'किं पुनः' इत्यादेर्दोषा२० दपरिनिष्ठानाच्च । अकादाचित्कस्तु नित्य एवेति न तदपेक्षं भावस्य प्रागसत्त्वम् । भवतु स्वरूप
सत्त्वापेक्षमेवेति चेत् ; सति तस्मिन् किमन्यसत्वसम्बन्धेन ? कारणेन तत्सम्बद्ध एवोत्पाद्यत इति चेत् ; भवेदेवं यदि सत्त्वद्वयमुपलभ्येत । न चैवम् ; 'घटोऽस्ति, पटोऽस्ति' इत्यादावेकस्यैव आत्मभूतस्य तस्योपलम्भात् ।
घटोऽस्तीति प्रत्ययः विशेषणापेक्षः, विशिष्टप्रत्ययत्वात् , दण्डीति प्रत्ययवत् , यच्चापेक्ष्यं २५ विशेषणं तद् अर्थान्तरं सत्त्वम् , तत्कथं तस्याऽप्रतिपत्तिरिति चेत् ? न; स्वरूपसत्त्वस्यैव कल्पना
पृथक्कृतस्य विशेषणत्वोपपत्तेः । दण्डीत्यत्र वस्तु भिन्नमेव विशेषणं दृष्टमिति चेत् ; किं तत्ता. दृशम् ? दण्ड इति चेत् ; तर्हि 'देवदत्ते दण्डः' इत्येव प्रत्ययः स्यात् 'उत्पले नीलम्' इतिवत्, न 'दण्डी' इति । दण्डसम्बन्ध एव; तस्यैव मत्वर्थीयेनाभिधानादिति चेत् ;न; तस्यापि स्वरूपप्रत्यासत्तेरन्यस्याऽप्रतिपत्तेः, अकारणाच्च ततो दण्डीत्यत्र तत्प्रत्यासत्तेरिव सद्र्व्यमित्यादौ
१-षोऽन्यव्यपे-आ०, ब०, प० । २ सम्बन्धस्यापि । ३ तत्सम्बन्ध-आ०, ब०, ५०।४-स्यापत्तेआ०, ब०, प.।