________________
४५१
१।१२१]
प्रथमः प्रत्यक्षप्रस्ताव स्वरूपसत्त्वस्यैव अभिसन्धिपृथकृतस्य विशेषणत्वोपपत्तेः नातोऽर्थान्तरस्य सत्त्वस्य प्रतिपत्तिः ।
___अर्थान्तरमेव द्रव्यादेः सत्त्वम् , तस्मिन् भिद्यमानेऽप्यभिद्यमानत्वात् , प्रदीपादेः पर्वतवत्। न चाभिद्यमानत्वमसिद्धम्। 'सन् द्रव्यम् , सन् गुणः, सत् कर्म' इति सर्वत्र द्रव्यादौ सल्लिङ्गस्य सत्प्रत्ययस्याविशेषादिति चेत् ; कस्तस्याऽविशेषः ? न तावदेकत्वम् ; प्रतिद्रव्यादि तद्भेद. स्यैव प्रतिपत्तेः । नापि सादृश्यम् ; सदृशात्ततो विपयस्यापि सदृशस्यैव प्रसिद्धः, तस्य च ५ प्रतिद्रव्यादि भिद्यमानत्वात् ।
यत्पुनः तदभेदे साधनान्तरम्-"विशेषलिङ्गाभावाच्च" [वैशे०सू० १।२।१७] इति; तदपि न; द्रव्याद्यभेदज्ञानस्यैव तल्लिङ्गत्वात् । अभिन्नं हि द्रव्यादिभ्यः सत्त्वं प्रतीयते 'सद्व्यादिकम्' इति द्रव्यादिसामानाधिकरण्येन प्रतीतेः । समवायात्तथा प्रतीतिः नाऽभेदादिति चेत्, न; अभेदादेव ‘एको भावः' इत्यादौ तत्प्रतीतेर्दर्शनात् । न हि भावाद् अर्थान्तरात्मकमेकत्वं तत्सम- १० "वायि सम्भवति; संख्याया गुणत्वेन द्रव्यसमवायित्वात् भावस्य च परसामान्यस्य अद्रव्यत्वात् । तस्मादभेद एव तस्य तस्मादिति तन्निवन्धनैव तत्सामानाधिकरण्यप्रतीतिः, तद्वत् सद्रव्यादिकमित्यपि, अन्यथा हेतुफलभावस्याव्यवस्थितिप्रसङ्गात् । ततो द्रव्यादिवत् तदभेदेन प्रतीयमानं भिन्नमेव सत्त्वम् । यद्येवं कथं तदात्मना सर्वैकत्वप्रतिज्ञानं जैनस्येति चेत् ? सङ्ग्रहनयेन तन्मात्रस्यैवापोद्धारादिति ब्रूमः । तन्न एकमर्थान्तररुच द्रव्यादेः सत्त्वं सम्भवति । तद्वत् १५ द्रव्यत्वादिकमपि, तस्यापि 'पृथिव्यादि द्रव्यम्, रूपादिर्गुणः, उत्क्षेपणादि कर्म' इति पृथिव्यादिसमानाधिकरणतया प्रतीतेः, तदनान्तरभावस्य तद्वद्भेदस्य च उपपत्तिबलायातत्वात् । ततः सूक्तम्- 'समानभावः सामान्यम्' इति ।
___ अन्यो विसमानभावः विशेषः, विसशपरिणामादेव भावेषु व्यावृत्तप्रत्ययस्योपपत्तेः । नित्यद्रव्येषु अन्त्यविशेषेभ्यो भिन्नेभ्य एव तदुपपत्तिरिति चेत् ; कथमव्यावृत्तेषु २० "तेभ्यस्तदुपपत्तिः ? तेषां तत्र समवायादिति चेत्" ; स किम् अव्यावृत्तानि व्यावर्त्तयति ? तथा चेत् ; न ; व्यावृत्तेस्तद्रूपत्वे विसदृशपरिणामसिद्धेः । अतद्रूपत्वे कथं तया तानि व्यावृत्तानि ? व्यावृत्त्यन्तरकरणादिति चेत् ; न; अनवस्थापत्तेः । न व्यावर्तयति व्यावृत्तिप्रत्ययं तूपजनयतीति चेत् ; न ; अव्यावृत्तेपु "तत्प्रत्ययस्य भ्रान्तत्वप्रसङ्गात् अलोहिते लोहितप्रत्ययवत् । न चायं भ्रान्तः ; योगिनां भावात् । न हि तेषां भ्रान्तिः, निरुपप्लवज्ञान-१७ वतामेव "तत्त्वोपपत्तेः। ततः तुल्याकृतिगुणक्रियेष्वपि परमाणुषु परस्परासम्भवी कश्चिदाकृत्यादिव्यतिरेकी परिणतिविशेपो वक्तव्यः यतो योगनामयं प्रत्यय इति सिद्धो विसदृश
१ सादृश्यस्य । २ द्रव्याभेद-आ०, ब०, प०। ३ सामानाधिकरण्यप्रतीतेः । ४ भावसमवायि । ५ एकत्वस्य । ६ भावात् सामान्यात् । ७ -स्याप्यव-ता० । ८ द्रव्यादेव तद-आ०, ब०, ५०। ९ “अन्तेषु भवा अन्त्याः खाश्रयविशेषकत्वाद्विशेषाः । विनाशारम्भरहितेषु नित्यद्रव्येष्वाकाशकालदिगात्ममनस्सु प्रतिद्रव्यमेकैकशी वर्तमानाः अत्यन्तव्यावृत्तिबुद्धिहेतवः ॥"-प्रश० भा० पृ० १६८ । १० विशेषेभ्यः । ११ चेत् कि-आ०, ब०, प० । १२ -वृत्तो व्या-आ०,ब०प० । १३ नित्यद्रव्यरूपत्वे । १४ व्यावृत्तिप्रत्ययस्य । १५ योगित्वोपपत्तेः ।