________________
४५२ न्यायविनिश्चयविवरणे
[२१२१ परिणामः । ततो यदुक्तम्-“योगिनां नित्येषु तुल्याकृतिगुणक्रियेषु परमाणुपु मुक्तात्ममनःसु चान्यनिमित्तासम्भव एभ्यो निमित्तेभ्यः प्रत्याधारं विलक्षणोऽयमिति प्रत्ययव्यावृत्तिः तेऽन्त्या विशेषाः ।" [प्रश० भा० पृ० १६८] इति ; तदयुक्तम ; अन्यनिमित्तसम्भवस्य निर्बाधात् , व्यावृत्तिप्रत्ययादेव अवगमात् । अन्त्यविशेषनिबन्धनत्वे तन्निधित्वानुपपत्तेः । ततो निष्प्रयोजनमेव तत्कल्पनं वैशेषिकस्य । ततः स्थितम्-'समानभावः सामान्य विशेषोऽन्यः' इति ।
___सामान्यविशेषयोः अपेक्षाकृतत्वान्न वस्तुस्वभावत्वम् । न हि वस्तुस्वभावाः 'पुरुषेच्छया भवन्ति, तदनियमेन तेषामप्यनियमप्रसङ्गादिति चेत् ; अत्राह-'व्यपेक्षया'
इति । अपेक्षा पुरुषेच्छा, तदभावो व्यपेक्षा, तया सामान्य विशेषश्च, ततो वस्तुस्वभावी १० च । न हि सामान्यविशेषस्वभावत्वे भावः पुरुषेच्छामपेक्षते, स्वहेतोरेव तथोत्पत्तेः। तर्हि
कथं खण्डापेक्षया 'समानः' इति, कर्कापेक्षया च 'विलक्षणः' इति मुण्डे प्रत्यय इति चेत् ? एवमपि प्रत्ययस्यैव तत्कृतत्वं न सामान्यविशेषयोः । प्रत्ययोऽपि नीलादिप्रत्ययवत् तन्मात्रादेव कस्मादभवन् अपेक्षामनुसरतीति चेत् ? सत्यम् ; नानुसरत्येव प्रत्यक्षप्रत्ययः प्रत्यभिज्ञानस्य
तु सैव सामग्रीति तदेव तामनुसरति । न हि प्रतियोगिप्रतीक्षामन्तरेण एकत्ववत् सादृश्य१५ वैसदृश्ययोरपि प्रत्यभिज्ञानं सम्भवति । तदेवं द्रव्यपर्याययोरिव सामान्यविशेषयोरपि लक्षणोपपत्तेः उपपन्नं तदात्मकत्वमर्थानाम् ।
____ अनुपपन्नमेव 'एकं च व्यात्मकञ्च' इति विरोधादिति चेत् ; कुतो विरोधः ? एवमेवेति चेत् ; न किञ्चित्तत्त्वं भवेत् स्वेच्छाविरोधस्य सर्वत्र सम्भवात् । प्रमाणत इति चेत् ;
क्व तेनासौ प्रतिपन्नः ? घटे घटयोश्च, तत्र एकत्वद्वित्वयोः द्वित्वैकत्वविरुद्धयोरेव प्रतिपत्तेरिति २० चेत् ; कीदृशो घटो यत्र तत्प्रतिपत्तिः ? सामान्यमानं विशेषमात्रं वेति चेत् ; न किञ्चित्तत्त्वं
तथाप्रतीत्यभावात् । सामान्यविशेषात्मा चेत् ; न तर्हि विरुद्धमेकस्य द्वैरूप्यम् विरोधव्यापारितेनापि प्रमाणेन तदविरोधस्योपदर्शनात् । सामान्यविशेषाभ्यामिव पटकुटीभ्यामपि घटस्य व्यात्मकत्वं किन्न भवतीति चेत् ? भवत्येव यदि प्रमाणमुपदर्शयति । न चैवम् , अतो न
भवति । ततो यदुक्तं मण्डनेन-"नेदृशानां विप्रतिषिद्धार्थानां ज्ञानानां प्रामाण्यमेव युज्यते २५ संशयज्ञानवत्' [ब्रह्मसि० पृ० ६३] इति ; तदसम्बद्धम् ; तदर्थविप्रतिषेधस्यैव कुतश्चिद.
प्रसिद्धः । तदप्रामाण्यात्तत्सिद्धौ परस्पराश्रयः-'तत्प्रसिद्ध्या तदप्रामाण्यम् , ततश्च तत्प्रसिद्धिः' इति ।
यच्चापरम्-"संशयविषयोऽपि द्वयात्मा स्यात् द्वयाभासत्वात्तस्य' [ ब्रह्मसि०
“पौरुषेयीमपेक्षाश्च न हि वस्त्वनुवर्तते"-ब्रह्मसि. २।६। २ अपेक्षाकृतत्वम् । ३ प्रत्यभिज्ञानम् । "एकस्य द्यात्मकता विरोधवती, एकञ्च द्यात्मकञ्चेति विप्रतिषिद्धम् ।"-ब्रह्मसि० पृ. ६३ । “परस्परस्वभावत्वे स्यात्सामान्यविशेषयोः । साङ्कर्य तत्त्वतो नेदं द्वरूप्यमुपपद्यते ॥"-तत्त्वसं० श्लो० १७२२ । हेतु० टी०पृ० १०५ । प्र. वार्तिकाल. १।२५। ब्र० सू० शा. भा० २।२।३३। ४ -लं न आ०, ब०, प०। ५ "द्वयोराभासः प्रकाशो यस्यासौ व्याभासः तस्य भावस्तरवं तस्मात्"-ता. टि.।