________________
प्रथमः प्रत्यक्षप्रस्ताव:
२१२२]
४५३ पृ० ६३ ] इति ; तदपि भवत्येव ; यदि संशयः प्रमाणम् , प्रमाणोपदर्शितस्यैव वस्तुरूपत्वोपपत्तेः । अन्यथा सर्वस्य सर्वार्थसिद्धेः नाभेदवादी' 'तमतिशयीत । यदि च विरोधात् न व्यात्मकं वस्तु कथं ब्रह्मणः प्रतिपन्नेतरस्वभावत्वम् ? प्रतिपन्नमेव ब्रह्म तत्प्रमाणात् नाप्रतिपन्नमिति चेत् ; न ; भेदविवेकेनाऽप्रतिपत्तेः । तेनापि प्रतिपत्तौ न तत्र भेदविभ्रमः स्यात् , न हि शो पीतविवेकेन प्रतिपन्ने पीतविभ्रमः । विवेकस्याऽनिश्चयाद्विभ्रम इति चेत् ; न ; ५ प्रतिपत्तेरेव निश्चयत्वात् , अन्यथा आनन्दादेरप्यनिश्चयेन विभ्रमविषयत्वे प्रमाणवेद्यमेव ब्रह्म न भवेत्-'विभ्रमाक्रान्तश्च तद्वद्यञ्च' इति विरोधात् । प्रतिपत्तेरपि आनन्दादावेव निश्चयो न तद्विवेक इति चेत् ; न ; प्रतिपत्तेरपि निश्चयेतरात्मत्वानुपपत्तेः विरोधात् । अन्यथा ब्रह्मण एव प्रतिपन्नेतरस्वभावत्वमविरुद्धं साधयति ततो नेदमत्र दूषणम्
"एकलमविरोधेन भेदसामान्ययोर्यदि ।
न द्वयात्मता भवेत्तस्मादेकनिर्भक्तभागवत् ॥" [ ब्रह्मसि० २।१८ ] इति । अन्यथा ब्रह्मण्यप्येवं भवेत्
एकत्वमविरोधेन प्रतीतेतरयोर्यदि।।
न च्यात्मता भवेत्तस्मादेकनिर्भक्तभागवत् ॥१०८८॥ इति । तदेवं द्रव्यपर्यायसामान्यविशेषात्मकत्वं भावस्य प्रपञ्चोक्तमुपसंहृत्य दर्शयन्नाह- १५
खलक्षणमसङ्कीर्ण समानं सविकल्पकम् ।
समर्थ स्वगुणैरेकं सहक्रमविवर्तिभिः ॥१२२॥ इति ।
लक्ष्यते इत्थम्भावेन गृह्यते येन तल्लक्षणम् , स्वं स्वरूपं लक्षणं यस्य तत् स्वलक्षणम् , चेतनमन्यद्वा वस्तु , न हि तस्यान्येन लक्षणम् । अन्येनैव क्रियावत्त्वादिना द्रव्यस्य लक्षणमिति चेत् ; गुणादेरपि तेन कस्मान्न लक्षणम् ? द्रव्य एव तस्य भावादिति चेत् ; अलक्षिते तस्मिन् 'तत्रैव' इति कुतः ? लक्षितमेव तत् अन्येनेति चेत् ; न ; क्रियावत्त्वादेः लक्षित. लक्षणत्वेन वैयर्थ्यापत्तेः। अन्यस्यापि तस्मादर्थान्तरत्वं चेत् ; वेनापि कुतस्तस्यैवं लक्षणं न गुणादेरपि । द्रव्य एव तस्यापि भावादिति चेत् ; न ; 'अलक्षिते तस्मिन्' इत्यादेरावृत्त्या चक्रकाव्यवस्थितेश्च । अनर्थान्तरत्वञ्चेत् ; न ; क्रियावत्त्वादेरेव तत्त्वापत्तेः । तन्न अन्येन तल्लक्षितम् । क्रियाववादिनैवेति चेत् ; न ; परस्पराश्रयात्- 'लक्षिते तस्मिंस्तत्रैव क्रियावत्त्वादिः, तेन तल्लक्षणम्' इति ।
१-वादिनमति-ता०।-वादीनमति-आ०, ब०, प० ।-वादी तमति-ता० टि० । २ भेदवादिनम् । ३प्रतिपत्तिरपि आ०, ब०, प०। ४ "भवेदेकतरनिर्भक्तभागवत्"-ब्रह्मसि० । ५ "क्रियावद्गुणवत्समवायिकारणं द्रव्यम् (वैशे० सू० १।१।१५) इति वचनात्"-ता० टि० । ६ "लक्षणान्तरेण"-ता० टि०। ७-व तल्लक्ष -आ.,ब०,१०।