________________
४५४
न्यायविनिश्चयविवरणे
[१।१२२ अपि च, तेनं तल्लक्ष्यमाणं रूपं यदि द्रव्याद्भिन्नमेव कुतस्तल्लक्षितं स्यात् १ तेनापि तस्य लक्षणादिति चेत् ; न; तत्राप्येवं प्रसङ्गाद् अपरिनिष्ठापत्तेः । अभिन्नश्चत् ; तदपि स्वतो गुणादेया॑वृत्तम् , अव्यावृत्तं वा ?
व्यावृत्तं तन्न चेद् द्रव्यं स्वत एव गुणादिकात् । क्रियावत्त्वादिनान्येन ततो व्यावर्त्तते कथम् ? ॥१०८९॥ न हि स्वरूपमन्येन शक्यते कत्तु मन्यथा । अन्यथाऽऽत्माद्यनित्यं स्यात् परिणामप्रकल्पनात् ॥१०९०॥ व्यावृत्तबुद्धिहेतुत्वात् स तव्यावर्तको यदि । अव्यावृत्ते कथं तस्मिन् तद्बुद्धिर्न मृषा भवेत् ॥१०९१॥ मृषाबुद्धिकराद् द्रव्यं व्यावृत्तवेद् गुणादिकात् । चन्द्रश्चन्द्रान्तरादेव व्यावृत्तस्तद्वतो भवेत् ॥१.९२॥ व्यावृत्तमेव तत्तस्मात् स्वभावेनोपगम्यताम् ।
तथा सति तदेव स्यात् , न च तयोरेकान्तस्य लक्षणम् । यमात्मानमाश्रित्य 'बाढमिदमस्माद् व्यावृत्तम्' इति प्रतिपत्तिः स एव असाधारणत्वात् तस्य लक्षणमुपपन्नं नापरं विपर्ययात। १५ ततः सूक्तम्-'स्वलक्षणम्' इति ।
कथं पुनरभेदे लक्ष्यलक्षणभावः ? तत्र हि लक्ष्यमेव लक्षणमेव वा स्यात् । न च तयोरेकाभावे अन्यतरस्य सम्भवः परस्परापेक्षित्वादिति चेत; न; प्रवृत्ति-व्यावृत्तिरूपतया तद्पपत्तेः। न हि वस्तुनः प्रवृत्तिरेव रूपम् ; पररूपादिनापि तत्प्रसङ्गात् । नापि व्यावृत्तिरेव; स्व
रूपादिनापि तदापत्तेः । अपि तु प्रवृत्ति-व्यावृत्ती द्वे अपि, तत्र प्रवृत्तिरूपेण लक्ष्यम् , लक्षणञ्च २० तदेव व्यावृत्तिरूपेण । वस्तु हि प्रवर्त्तमानम् अन्यासाधारणेन आत्मनैव शक्यं लक्षयितुं नान्यथा ।
तथा च सत्प्रत्ययहेतुत्वेन सत्त्वस्य द्रव्यादिप्रत्ययहेतुत्वेन च द्रव्यत्वादेरसाधारणात्मनै परैरपि लक्षणमभ्युपेतम् ततो नाभेदे लक्ष्यलक्षणभावानुपपत्तिः ।
भवतु स्वलक्षणम् , तत्तु विजायीयादिव सजातीयादपि विलक्षणमेवेत्यत्राह-समानं, सदृशं केनचित् स्वलक्षणं नैकान्तेन विलक्षणमेव तथा प्रतीतेः । कल्पनयैव तथेति चेत् ; न; २५ प्रत्यक्षतः प्रतीतेः । न हि तत्प्रतीतं कल्पनया; वैसदृश्येऽपि प्रसङ्गात् । खण्डप्रत्यक्षं मुण्डे
नास्ति तत्कथं तत्सार प्रत्यक्षप्रतीतमिति चेत् ? वैसदृश्यमपि कथं "तत्प्रत्यक्षस्य कर्कादावप्यभावात् । कर्कादिविशिष्टतयैव तस्याऽप्रतिपत्तिः स्वरूपतस्तु प्रतिपत्तिरेवेति चेत् ; न; सादृश्यस्या
तेन लक्ष्य -आ०, ब०,५०।२ -वृत्तिबुद्धि -आ०, ब०, प० । ३ क्रियावत्त्वादिः । ४ लक्ष्यलक्षणभावोपपत्तेः। ५ “परसामान्यस्य"-ता. टि०। ६ “अपरसामान्यस्य"-ता. टि०।७-णात्मन्येव आ०,०, प० । ८ नैयायिकादिभिरपि । “लक्षणमसाधारणो धर्मः"-प्रश. न्यो० पृ. १८९। ९ वैसादृश्येऽपि आ०, १०, प०।१० प्रतीयते इति ता० । ११ खण्डप्रत्यक्षस्य ।