________________
१२१२२] प्रथमः प्रत्यक्षप्रस्तावः
४५५ प्येवं प्रतिपत्तेः । भवतु वैसदृश्यमपि कल्पनयैवेति चेत् ; नेदानी स्वलक्षणं नाम किञ्चित्, सदृशेतराकारव्यतिरेकेण तस्याऽप्रतिभासनात् । तस्माद्वस्तुसदेव सादृश्यम् । अपि च,
पूर्वानुभूतसादृश्यं जलादेदृश्यते न चेत् । स्नानपानादिसामर्थ्य कुतस्तस्यावगम्यताम् ? ॥१०९३॥ कल्पनासिद्धसादृश्याद् वस्तुसामर्थ्य वित् कथम् ? । । अनुमानादनभ्यासे स्नानार्थी यत्प्रवर्तताम् ॥१०९४॥ तत्समर्थतया वेद्यं 'वस्तु तोयादि वाञ्छता ।
समं तोयादिनान्येन तद्वक्तव्यं मनीषिणा ॥१०९५॥ तदाह- 'समर्थम्' इति । अर्थक्रियायां शक्तं यतः ततः 'समानम्' इति ।
यदि गोत्वं नाम सामान्यमन्यत् सादृश्यान्नास्ति कुतो बाहुलेयादौ गोबुद्धिः १ १० शाबलेयसादृश्यादेवेति चेत् ; ननु ततः 'शाबलेय इव' इति, भेदविभ्रमे 'शावलेयोऽयम्' इति वा प्रत्ययः स्यात् न 'गौः' इति, शाबलेयस्य अगोत्वात् । गोत्वे तस्यैव कथमन्येषु अत्यन्तसदृशेष्वपि तद्बुद्धिः गोरूपस्याभावात् । शाबलेयस्वभावं हि गोरूपम् , तत्कथं तदन्येषु ? व्यक्तिसङ्करापत्तेः । तन्न तत्सादृश्यादन्यत्र तद्बुद्धिः। अन्यसादृश्यादिति चेत् ; न ; अन्यस्यापि प्रसिद्धस्य गोरभावात् । तस्मात् तद्बुद्धिरन्यत एव अन्वितैकरूपात् “सामान्यादिति १५ चेत् ; न ; शाबलेयसादृश्यादेव तदुपपत्तेः । भवतु ततः शाबलेयबुद्धिः, गोबुद्धिस्तु कथमिति चेत् ; न ; गवानभिज्ञस्य शाबलेय एव गौरिति सङ्केतात् । 'कर्कादावपि तत्सङ्केताद्बुद्धिरिति चेत् ; भवतोऽपि किन्न ? सामान्यस्य तद्विषयस्याभावादिति चेत् ; परस्यापि सादृश्यस्याभावात् । सादृश्यात्तद्बुद्धिः गवयेऽपि कस्मान्नेति चेत् ; सामान्यादपि कस्मान्न ? सत्त्वादेस्तत्रापि भावात् । तद्विशेषादेव समानं न तन्मात्रादिति चेत् ; समानमन्यत्र, सादृश्यमात्रादपि २० "तदनभ्युपगमात् । “सादृश्याद(द्)गोत्वे शाबलेयत्वं कथमिति चेत् ? सामान्यादपि तत्त्वे कथम् ? अन्यतः सामान्यादिति चेत् ; सादृश्यादप्यन्यत एवास्तु, सामान्यवत् सादृश्यस्यापि अनेकधा वस्तुषु भावात् । ततो न सूक्तमेतत् कुमारिलस्य
"सारूप्यमथ सादृश्यं कस्य केनेति कथ्यताम् । न तावच्छाबलेयेन बाहुलेयादयः समाः ॥ विशेषरूपतो येऽपि तत्संस्थानादिभिः समाः । शावलेय इवेति स्यात् तत्र बुद्धिन गौरिति ॥
वस्तुतो यदि आ०, ब०, प० । २ "भा आह"-ता.टि.। ३ शाबलेयस्यैव । ४ "व्यक्तिभिस्ताहात्म्यान्नित्यं सामान्य मीमांसकरिष्यते तत्र दूषणं शास्त्रान्तरे उक्तम्-तादात्म्यं चेन्मतं जातेय॑क्तिजन्मन्यजातता । नाशेऽनाशश्च केनेष्टस्तद्वच्चानन्वयो न किम्"-ता. टि.। ५ श्वेताश्वादौ। ६ “शावलेय एव गौरिति सङ्केतात्" -ता.टि.। ७ अन्वितबुद्ध्यनभ्युपगमात् । ८ अनेकशावलेयव्यक्तिगतसादृश्यात् । ९ “गौरिव"-मी. श्लो।