________________
४५६
न्यायविनिश्चयविवरणे
[१।१२२ शावलेयोऽयमिति वा भ्रान्त्या गौरिति नास्ति तु । शाबलेयस्वरूपश्च न गौरित्यवतिष्ठते ।। तदन्येषु हि गोबुद्धिन स्यात् सुसदृशेष्वपि । दृश्यते सा न' चान्यत्वे गोरूपं तत्र विद्यते ॥ न चान्यो गौः प्रसिद्धोऽस्ति यत्सादृश्येन गौर्भवेत् ।"
[ मी० श्लो० आकृति० श्लो० ६७-७१ ] इति । प्रतिपादितन्यायेन शाबलेयस्यैव गोरूपतया व्यवस्थितौ तत्र गृहीतसङ्केतस्य बाहुलेयादावपि तत्सदृशे गोबुद्धेः तद्व्यवहारस्य च सम्भवात् । सादृश्यमेव तत्र नास्तीति चेत् ; कथम् 'अयननेन सदृशः' इति प्रत्ययः ? तदवयवसादृश्यादिति चेत् ; न ; अवयवानां तद्वतो भेदे यौगमतानुप्रवेशात् । अभेदे कथं 'तत्सा श्यम् अवयविसादृश्यमेव न भवेत् ? यतो 'न तावत्' इत्यादि सुभाषितम् । यदि सादृश्यात् बाहुलेयादौ गोबुद्धिः कदाचित् कस्यचित् कचिच्च स्यात् मैत्रे चैत्रबुद्धिवत , भ्रान्तिश्चै तद्वदेव । न चैवम् , सर्वदा सर्वेषाञ्च भावात् , निर्बाधत्वेनाभ्रान्तत्वाच्च । निर्बाधभ्रान्तिकल्पने सर्वज्ञानमिथ्यात्वापत्तेः । न चैकोऽपि
कश्चिद्गौः तद्विशेषस्य क्वचिदपरिज्ञानात् । बभूव पूर्वमिति चेत् ; न; तस्य अस्मदादिभिरप्रतिपत्तेः। १५ तन्न तत्सादृश्यात् कचिद् गोबुद्धिः। भवन्ती वा बाहुलेयवत् महिष्यादावपि भवेत् तत्सादृश्यस्य
तत्रापि भावात् । न हि तस्ये क्वचित्परिसमाप्तिः अनवधित्वात् , ततो न तद्वशाल्लभ्यते गोबुद्धिरिति चेत् ; तन्न; यस्माद् भवत्येव बाहुलेयादौ गोबुद्धिः विभ्रमो यदि तद्विषयस्तत्र न स्यात् मैत्रे चैत्रबुद्धिवत् । अस्ति च तंत्र तद्विषयः सादृश्यविशेषः तत्रैव तद्बुद्धेः सङ्केतात् । अत एव
सर्वदा सर्वेषामपि तदुपंपत्तिः । एकगोत्वनिबन्धनत्वे तु भवत्येव विभ्रमः प्रत्यक्षेणैव तद्गोत्व२० विविक्तवस्तुविषयेणे बाधनात् । न च तद्विभ्रमे सर्वज्ञानमिथ्यात्वम् ; बाधावत एव तदुपपत्तेः ।
ने' चैको गौः कश्चिन्नास्ति प्रथमसचेतविषयस्यैव तत्त्वात् । न च तत्र विशेषाग्रहणम् ; सादृश्यविशेषस्योपलम्भात् । न च तन्निबन्धना बुद्धिः महिध्यादावपि; तत्र तदभावात् । "अन्यतस्तु
३ यान्न भवत्येव, सामान्यान्तरादपि प्रसङ्गात् , तस्यापि निरवधित्वात् । ततः सुलभैव सादृश्यविशेषा गोबुद्धिः । इति दुर्भाषितमेवेदमपि "तस्य
"न चापि स इति ज्ञानं सदृशेष्वस्ति सर्वदा । सर्व'मामतो भ्रान्ति!षा बाधकवर्जनात् ॥ सर्वज्ञानानि मिथ्या च प्रसज्यन्तेऽत्र कल्पने ।
विशेषग्रहणाभावादेको गौः कश्च कल्प्यताम् ॥ १ "न चान्यत्र • श्लो० । २ अययवसादृश्यम् । ३ भ्रान्तिश्चेत्तद्वदेव ता०। ४ कश्चिदेव गौः आ०, ब०, प० । ५ सादृदयस्य । ६ -माप्तेरनवधि-आ०, ब०५०।७ सादृश्यवशात् । ८ बाहलेयादौ । ९ --पपत्तेः आ०, ब०, प० । १० -षये बाध-आ०,ब०,१० ११ न चैका गौः आ०, ब०, प० । १२ तद्भावा -आ०,०, प० । १३ अन्यवस्तु आ०, ब०, प०। १४ कुमारिलस्य ।