________________
१।१२२]
प्रथमः प्रत्यक्षप्रस्ताव बभूव यद्यसौ पूर्व नास्मदादेस्तदग्रहात् । सादृश्यस्यावधिर्नास्ति ततो गोधीन लभ्यते ॥"
[मी० श्लो० आकृति० श्लो० ७१-७४] इति । तन्न सामान्यात्मना स्वलक्षणस्य सङ्करोऽपि ।
नापि शक्त्यात्मना; तस्यापि प्रतिव्यक्ति भिन्नस्यैव भावात् । अभिन्न एवासौ मृत्पि- ५ ण्डादीनाम् । न हि मृत्पिण्डशक्तरेव दण्डादिष्वभावे तेषां' तत्कार्ये व्यापारः तदन्यकारणवदिति चेत् ; न; सर्वशक्तिसाकल्येऽपि तदुपपत्तेः । यथा मृत्पिण्डस्तत्र शक्तः तथा दण्डादिरपीति शक्तिसाङ्कर्ये तूपादान एव सहकारिण्येव चैकस्मिन् सर्वशक्तीनां भावात् तदन्यतमस्यैव तत्कार्य स्यान्न सर्वेषाम् , वैयर्थ्यात् । एवमपि सामग्र्या एव जनकत्वं नैकस्येति चेत् ; न; सर्वशक्तिसाकल्ये तद्विरोधात् । न तद्विरोधः प्रत्येकदशायां तत्साकल्यस्य तिरोधानादिति चेत् ; इतर- १० दशायां कुतस्तदभिव्यक्ति : ? सामग्रीशक्तेरिति चेत् ; न; शक्तिसाङ्कर्यवादिनः तच्छक्तेरपि प्रत्येकं भावात् , तदापि तदभिव्यक्तः। तथापि तस्याजनकत्वे समुदायस्यापि न स्यात् तत्रापि अभिव्यक्तशक्तिसाकल्यादन्यस्य तजनननिमित्तस्याभावात् । सामग्रीशक्त्या चाऽनभिव्यक्तया न तदभिव्यक्तिः कार्यवत् । न च स्वतस्तव्यक्तिः प्रत्येकशक्तिवत् । सामग्र्यन्तरशक्त्या तब्यक्तावनवस्थानम् । सामग्री च यावदेकशक्तिमभिव्यनक्ति तावत् कार्यमेव कुर्वीत किं पारम्प. १५ येण? तन्न शक्तिसाङ्कर्षादेककार्यत्वम् उपादानादीनाम् , अपि तु तत्साम्यादेव । अत एव बहुष्वेव कार्य नैकस्मिन् । तत्साकर्ये वितरनिपेक्षमेकस्मिन्नेव स्यात् उपादानेतरशक्तीनां तत्रैव भावात् । तन्न शक्तिरूपेणापि सङ्कीर्ण वस्तु । तदाह- 'असङ्कीर्णम्' इति ।
नन्वसङ्करो नाम स्वलक्षणानामितरतराभावात्मा भेद एव । तस्माञ्च तेषामनर्थान्तरत्वे तद्वदभावरूपत्वान किन्नाम स्वलक्षणम् ? एकरूपत्वाञ्च केन वा किमसङ्कीर्ण भवेत् ? ।
अपि च, भेदस्य वस्तुरूपत्वे न क्वचिदेकत्वं भेदेन तस्य विरोधात । ततः परमाणुरपि भिन्ना (न) एव । न चैकाभावे तत्समुच्चयरूपमनेकमपि । न च तृतीयः कश्चित्प्रकार इति निःस्वभावत्वमेव स्वलक्षणस्य स्यात् । तदुक्तम्
“न भेदो वस्तुनो रूपं तदभावप्रसङ्गतः ।" [ब्रह्मसि० २।५] इति ।
अथ मा भूदयं दोष इति तस्य तेभ्योऽर्थान्तरत्वमिष्यते "स तर्हि नीरूप एव स्यात् २९ वस्तुव्यतिरेकिणः प्रकारान्तरासम्भवादिति न तद्बलेन तेषामसाङ्कर्यम् , नीरूपस्य क्वचिदनुपयोगादिति साङ्कर्यमेव प्राप्तम् । इदमप्युक्तम्
२०
१ दण्डादीनाम् । २ तत्कायें व्यापारोपपत्तेः । ३ येन रूपेण । ४ प्रत्येकदशायामपि । तथापि मा०, २०, ५०। ५ प्रत्येकस्य । ६ स्खलक्षणानाम् । ७ एकत्वस्य । ८ "परमाणुरपि भेदादनेकात्मक इति नकः तथा च तत्समुच्चयकापोऽनेकोऽप्यस्यान्मा नावकल्पते"-ब्रह्मसि पृ०४८। ९-यः प्र-आ०, ब०, १०॥ १० इतरेतराभावात्मा ।
५८