________________
४५८
न्यायविनिश्चयविवरणे
[ १२१२२ "अरूपेण च भिन्नत्वं वस्तुनो नावकल्पते।" [ब्रह्मसि० १।५]इति चेत् ; उच्यते
यत्तावदुक्तम्-'भेदात् स्वलक्षणानामनर्थान्तरत्वे तद्वदेकत्वम्' इति ; तन्न ; भेदस्यैकस्याभावात् , प्रतिस्वलक्षणं परिसमाप्तिमत एव तस्योपगमात् । नापि तद्वदभावरूपत्वम् ; एकान्ततस्तेषां 'तदनर्थान्तरत्वस्याभावात् । कथञ्चिदभावरूपत्वं तु न दोषाय , इष्टत्वात् ।
यदन्यदप्युक्तम्- 'मा भूदयम्' इत्यादि ; तदपि न सुन्दरम् ; अर्थान्तरत्वस्यापि एकान्तेनाऽविभावनात् । अनेकान्तव्यतिरेकात्तु न नीरूपत्वमेव विपर्ययस्यापि भावादिति 'कथं सति तस्मिन् साङ्कयं तेषाम् , 'तस्य तद्रूपत्वात् । उक्तञ्च- "नात्यन्तमन्यत्वमनन्यता च विधेनिषेधस्य च" [बृहत्स्व० श्लो० ४२] इति ।
__ यदप्यभिहितम्- 'भेदस्य वस्तुरूपत्वे' इत्यादि । तदपि न मनोज्ञं प्राज्ञानाम् ; तथा १० हि- 'यद्येकत्ववत् स्वरूपत एव भेदः स्यात् तदा तेनैकत्वं परिपीड्यत विरोधात् । न चैवम् ,
तस्य परोपाधित्वात् । परतो हि स्वलक्षणानि भिद्यन्ते न स्वतः । न चोपाधिभेदे विरोधः यतस्ततस्तस्य' परिपीडनात् एकसमुच्चयात्मनोऽनेकस्याप्यनुपपत्तेः, प्रकारान्तरापरिज्ञानाच निःस्वभावत्वं तेषाममुषज्येत ।
कथञ्चैवं वादिनां ब्रह्मणोऽपि निःस्वभावत्वं न भवेत् ? शक्यं हि वक्तुम्- प्रपञ्च१५ विवेकस्य "तत्स्वभावत्वे न तस्यैकत्वं विवेकेन तद्विरोधिना परिपीडनात् , तदभावे च नानेकत्वं
तस्य तत्समुच्चयरूपत्वात् , न च प्रकारान्तरम् , ततो निःस्वभावमेव तदिति । नास्त्येव तस्य तस्माद्विवेकः, “सर्वगन्धः सर्वरसः” [छान्दो० ३ १४।४] इत्यादिना तस्य सर्वात्मत्वश्रवणादिति चेत् ; न ; निर्मुक्त्यभावप्रसङ्गात् । प्रपञ्च एव हि अशनायापिपासादिरूपः संसारः,
तस्माच्च "तस्याविवेके कथमुपायेनापि निर्मुक्तिः ? न हि तेन तस्य" स्वभावाद्वियोगः २० पावकस्येव औष्ण्यात् । स्वभावतश्चाविवेके" तस्य संसारः । भवन्नपि वियोगः कुतश्चिदेव स्यात्
न सर्वस्मात् , तत्प्रबन्धस्य अनन्तत्वेन अनुच्छेद्यत्वान । ततो नित्यनिर्मुक्तं "तदिच्छता तद्विविक्तमेव एष्टव्यम् । अथ नास्त्येव प्रपश्च: "नेह नानास्ति किञ्चन" [ बृहदा० कठो. ४।११] इत्यादि श्रुतेः तत्कथं तस्य तस्माद्विवेकः ? अमतः प्रतियोगित्वानुपपत्तेरिति चेत् ; किमपेक्षं तीदम्-"अस्थूलमनवैहस्वम् (मनण्वहस्वम्)" [बृहदा० ३।८।८] इति, २५ "स एष नेति नेत्यात्मा"[बृहदा० ३।९।२६] इति च ? अविद्याकल्पितप्रपश्चापेक्षमिति
चेत् ; तत्प्रपन्चात्तर्हि तद्विवेको वक्तव्यः, अन्यथोक्तादोषात् । न तस्य तस्माद्विवेको नाप्यविवेकः तदुभयं प्रति 'तस्यावस्तुत्वेन अपादानत्वायोगादिति चेत् ; न; नेति नेति निषेधानुपपत्तेः, विवे. कस्यैव निषेधार्थत्वात् । अपि च,
अभावाभिन्नत्वस्याभावात् । २ -त्वं न आ०, ब०, प० । ३ -न्तेनाभावात् आ०, ब०, प० । ४ कथं तत्र सति त -आ०,०प०। ५ खरूपावस्थाने। ६ साङ्कर्यस्य । ७ नीरूपत्वरूपत्वात् । ८ यदैकत्वआ०, ब०, प० । ९ एकत्वस्य । १० ब्रह्मस्वभावत्वे । ११ ब्रह्मणः। १२ प्रपञ्चादभेदे । १३ ब्रह्म । तत्तथेच्छ भा०, ब०, प० । १४ प्रपञ्चस्य ।