________________
१।१२२)
प्रथमः प्रत्यक्षप्रस्तावा
४५९
स्वभावस्तादृशस्तस्य यदि संसार उच्यते । न भवत्येव निर्मुक्तिस्तत्स्वभावापरिक्षयात ॥१०९६॥ निर्मुक्तिर्यदि तथ्यैव संसारः कथ्यतां परः । संसारेण विना यस्मान्निर्मुक्ति वकल्प्यते ॥१०९७॥ जीवानामेव संसारनिमुक्तिनँव तस्य चेत् । जीवेभ्यस्तदभिन्नम्चेत् न तस्येत्युच्यतां कथम्? ॥१०९८॥ मुखात्तत्प्रतिबिम्बानामनन्यत्वेऽपि तद्गतः । नाऽशुद्ध्यादिर्यथा तस्य तथेहापीति चेन्मृषा ।।१०९९॥ तेषां तस्मादभेदेऽपि तेभ्यस्तद्भेदवर्णनात् । स्वयमेव तथा ब्रह्म जीवेभ्यो यदि भिद्यताम् ॥११००॥ अविविक्तं कथन्नाम कथ्यतां तत्प्रपञ्चतः ।
यन्न तत्र प्रवर्तेत निःस्वभावत्वकल्पनम् ॥११०१॥
तस्मात्तत्राप्ययमेव परिहारः-स्खोपाधेरेकत्वस्य न परोपाधिना भेदेन बाधनमिति, तथा खलक्षणेऽपि । कुतः पुनः परोपाधित्वं भेदस्य ? तेदपेक्षणात् । तदपि किमर्थम् ? स्वरूपलाभार्थमिति चेत् ; न, तस्य वस्तुस्वभावत्वेन तद्धेतोरेव भावात् । न हि वस्तुनः स्वहेतोरुत्पत्तिः १५ भेदविकलस्यैव । पैरतोऽपि ; परस्पराश्रयतया तदभावप्रसङ्गात्- 'सति वस्तुभेदे परम् , परतश्च तद्भेदः' इति । पश्चाञ्च हेत्वन्तरादुत्पद्यमानः कथं वा वस्तुनः स्वभावः स्यात् कार्यान्तरवत् ? वस्तुहेतोरुत्पत्तौ च किं तस्य परापेक्षया प्रयोजनं स्वरूपस्य वस्तुकारणादेव भावात् ? नार्थक्रिया" परासन्निधानेऽपि तदर्थक्रियादर्शनात् । "प्रतीतिश्चेत्, न तर्हि भेदः परापेक्षः, तद्विषयायाः प्रतीतेरेव तदपेक्षत्वात् । न हि तस्याः तदपेक्षत्वं तद्विषय- २० स्यापि; रूपादिप्रतीतेः चक्षुराद्यपेक्षत्वेन रूपादावपि तत्प्रसङ्गात् । न च प्रतीतेरपि तदपेक्षत्वम् ; परस्पराश्रयात्-'प्रसिद्धं हि परमपेक्ष्य वस्तुभेदप्रतिपत्तिः, तत्प्रतिपत्त्या च परप्रसिद्धिः' इति । न च वस्तुमात्रादनवगृहीतभेदाद् भेदसिद्धिः ; एकस्मिन्नपि तत्प्रसङ्गात । तन्न अपेक्षा नाम काचिद् वस्तुधर्मः।
पुरुषधर्म एवास्तु, पुरुषेणैव कस्यचित कुतश्चित् भेदस्यापेक्षणादिति चेत् ; न; वस्तुनि २५ तदपेक्षानुवर्तनस्यासम्भवात् । न हि पुरुषस्य भेदापेक्षया वस्तु भिन्नं भवति, अन्यथा सह. कारः कोविदारोऽपि स्यात् "तथापि तदपेक्षासम्भवात् । तदुक्तम्
"पौरुषेयीमपेक्षाञ्च ने हि वस्त्वनुवर्तते" [ ब्रह्मसि० २।६ ] इति । १ ब्रह्मणः । २ प्रतिबिम्बगतः । ३ प्रतिबिम्बानाम् । ४ मुखभेद । ५ परापेक्षणात् । ६ -वत्त्वे त-आ०, २०, ५०। 'न हि' इत्यन्वयः । ८ भेदः । ९ भेदस्य । १० प्रयोजनम् । ११ प्रतीतेः परापेक्षत्वम् । १२ तेन रूपेणापि, सहकारस्य कोविदाररूपेणापि । १३ न हि खम-मा०, ब०, प० ।