________________
४६० भ्यायविनिश्चयविवरणे
[ १११२२ तन्न भेदो नाम विचारसहः, येनासङ्कीर्णत्वं स्खलक्षणस्येति चेत् ; न; अन्यथा अपेक्षार्थत्वात् । न हि परतः स्वरूपादेर्भावात् भावस्य तदपेक्षत्वम् अपि तु तदपादानत्वात् । तदपादानो हि भावभेदः स्वहेतोरुत्पन्नः तथैव प्रतीतेः । न च स्वहेतुबलायातो भावस्वभावः पर्यनुयोगविषयः 'कस्मादेवम्' इति, सर्वत्र प्रसङ्गात् वस्तुविलोपापत्तेः । तस्मादपादानत्वमेव अपेक्षार्थः । तथैव ५ प्रपञ्चविवेकस्यापि ब्रह्मण्युपपत्तेः । पुरुषापेक्षानुवर्तनस्य त्वनभ्युपगम एव परिहारः ।
भवतु भेदः, तस्य तु कुतः प्रतिपत्तिरिति चेत् ? प्रत्यक्षादेव, विधिवत् निषेधेऽपि तब्यापारात् । निषेध्यापरिज्ञाने कथं क्वचित्ततः तनिषेधः । न च निषेध्यस्य तेन परिज्ञानम् , असन्निधानाद , असन्निहितार्थत्वे च तस्य अतिप्रसङ्गादिति चेत् ; न; विधिवत् वस्तुस्वभा
वतया तैदपरिज्ञानेऽपि तस्य प्रतिपत्तः , अन्यथा विभेरपि न स्यात् तस्याप्यनुपश्लिष्टनिषे. १० धस्यासम्भवात, उपश्लिष्टपीतादिनिषेधस्यैव नीलविधेः लोकप्रसिद्धादध्यक्षादवंबुद्धेः। अध्यक्षा
न्तरं तु न वयमेवं वृद्धा अपि बुद्ध्यामहे यस्य विधिमात्रविषयत्वं प्रतिपद्येमहि । तत्प्रसिद्धस्यैव तन्मात्रविषयत्वे वा कथमानायस्यापि निषेधविशेषात्मनः ततः प्रतिपत्तिः । न हि विधिमात्रेण आम्नायस्य आम्नायत्वम्; अनाम्नायेऽपि तद्भावात्, अपितु तदन्यनिषेधरूपतयैवेति कथं तस्य विधिनियतादध्यक्षात् प्रतिपत्ति:१ मा भूदिति चेत्, कथं तस्माद् ब्रह्मणः प्रसिद्धिः “आम्नायतः १५ प्रसिद्धिश्च कवयोऽस्य प्रचक्षते" ब्रह्मसि. १।२] इत्युक्ता शोभेत ? अप्रतिपन्नादेव
ततस्तत्प्रसिद्धौ अतिप्रसङ्गात् । प्रमाणान्तरादेव तस्यं प्रतिपत्तिः न प्रत्यक्षादिति चेत् ; न ; "प्रत्यक्षादिभ्यः सिद्धादाम्नायात् तत्त्वदर्शनम्" [ब्रह्मसि० पृ० ४१] इत्यस्य विरोधात् ।
विधिनियमे च "तस्य आम्नायवत् त वावेदनादेवप्रामाण्यं न - "व्यवहारविपर्यासाभा. वादिति कथमुक्तम् -"प्रत्यक्षादीनां तु व्यावहारिक प्रामाण्यम्" [ब्रह्मसि० पृ० ४०] २० इति ? 'तंत्र भेदप्रतिभासमपेक्ष्य "तदुक्तम् , अस्ति च तत्प्रतिभासो व्यवहतबुद्ध्या, विचार.
बुद्ध्यैव तस्य विधिमात्रनियमः, तया च तत्त्वावेदनलक्षणं प्रामाण्यमभ्यनुज्ञायत एवेति चेत् ;न; भेदप्रतिभासस्य तस्वभावत्वे विचारबुद्ध्यापि अनपवर्तनात् , अन्यथा स्वरूपस्यापि"अपवर्तनात् कस्य "तया तन्मात्रनियमः सम्पाद्येत ? अतत्स्वभावत्वे व्यवहापि कथं तत्र तमनुमन्यताम् ?
विभ्रमादिति चेतः स एव तद्विवेकप्रतिभासे कथम् ? अनिश्चयादिति चेत् ; न ; प्रतिभासस्यैव २५ निश्चयत्वात्, अन्यथा स्वरूपस्यापि न निश्चयः स्यात् , प्रतिभासादन्यस्य तन्निश्चयस्याप्रतिवेद
नात् । सोऽपि तत्रै निश्चयो न विवेक" इति चेत् ; न ; निश्चयेतरयोरेकत्वानुपपत्तेः, सामान्यविशेषयोरपि तत्त्वापत्ते: “एकत्वमविरोधेन" [ब्रह्मसि० २।१८] इत्यादिना तत्र दूषण
१ "आदिशब्देन अर्थक्रिया प्रतीतिश्च ग्राह्या"-ता० टि० । २ “उत्पत्तेः"-ता. टि० । ३ प्रत्यक्षस्य । १ निषेध्यापरिज्ञानेऽपि । ५ प्रतिपत्तिः । ६ “वेदान्तिप्रसिद्धस्यैव"-ता. टि० । ७ "श्रोत्रेन्द्रियप्रत्यक्षात्"-ता. टि०। ८ आम्नायतः । ९ आम्नायस्य । १० प्रत्यक्षस्य । " "व्यवहाराविसंवादादित्यर्थः"-ता. टि.। १२ प्रत्यक्षे । १३ व्यावहारिकं प्रामाण्यमुक्तम् । १४ “प्रत्यक्षस्य"-ता०टि०। १५ “प्रत्यक्षस्वभावत्वे"-ता.टि.। १५ अनपव-आ०, ब०, प० । १७ तया यावन्मात्र--आ०,ब०प० । १८ स्वरूपे । १९ “भेदप्रतिभासविवेके"-ता०टि० ।