________________
प्रथमः प्रत्यक्षप्रस्ताव:
१।१२२ )
४६१ स्यावचनप्रसङ्गात् । निवेदितचीतत । तन्न विभ्रभे तद्विवेकप्रतिभासः ।
भा भूत् स्वरूपस्यैव स्वतः प्रतिभासात् , तद्विवेकस्तु तत्र विचारबुद्धय वावगम्यत इति चेत् ; न; तयापि प्रत्यक्षाविधाने तत्र तद्विवेकस्य दुरवबोधत्वात् । विधानञ्च विवेचनात् प्रागेव न युगपत् । नापि पश्चात् ; तस्याऽसिद्धत्वेन अनुवादायोगे तदनुवादेन तत्र तद्विवेचनस्या योगात् । 'ह भेदप्रतिभासो नास्ति' इति विधिपूर्वञ्च विवेचनम्, न च तद् बु- ५ द्वेापारः स्यात् विधिसमय एव तस्याः क्षणिकत्वेन नाशात् । अक्षणिकत्वे तु प्रत्यक्षस्यापि तत्त्वात सिन्नसे व्यापारः स्यात् यतो विधायकमेव तत् न निषेधकमिति नियम्येत । भवतु अन्यत. दुद्धरेव विवेचनं व्यापार इति चेत; न; तैयापि तस्याविधाने कथं तत्र तद्विवेचनम् ? तद्विधाने त - देव तव्यापारः तदैव तस्या अपि भावान्न विवेचन विपर्ययात् । पुनरपि 'भवतु' इत्यादिवचने न परिनिष्ठानम् | तन्न तत्र भेदप्रतिभासः, विभ्रमात स्वत: परतश्च तद्विवेकस्याऽप्रतिपत्तेरिति सिद्ध- १० प्रत्यक्षस्य दविषयत्व निर्बाधत्वेनागोपालमपि प्रतिपः।
कथं पुनः प्रत्यक्षं विधिव्यवच्छेदयोः युगपदेव प्रवर्तमानं विध्यनुवादेन व्यवच्छिनत्ति 'भूतले न घटः' इति ? विधेरैपूर्वसिद्धत्वेन अनुवादायोगादिति चेत् ; न ; "तस्यैवमप्रवृत्तेः । न हि विधिव्यवच्छेदयोः तस्य गुणप्रधानभावेन वृत्तिः यदेवमुच्येत अपि तु परस्परस्वभावतया प्रधानयोरेव । नापि व्यवच्छेद्ये तत्प्रवृत्तिः यतो व्यवच्छेद्यस्य देशकालव्यवहितस्य 'तेनाऽग्रहणात् १५ 'कथं तव्यवच्छेदस्य ततः प्रतिपत्तिः' इति पर्यनुयुज्येत विधिवत स्वरूपत एव तत्प्रतिपत्तेरित्यु. तस्वात् । ततो यदुक्तम्- "अनवभासे हि तत्र व्यवच्छेद्ये व्यवच्छेदमानं "स्यात् न [व्यवच्छेदः कस्यचित्" [ब्रह्मसि० पृ० ४५] इति ; तदुपपन्नम् , "सर्वस्य वा स्यात्" [ब्रह्मसि० पृ० ४५] इत्येतत्तु नोपपन्नम् ; निषेध्यविशिष्टतया ततस्तत्प्रतिपत्तेरनभ्युपगमात् । कुतस्तर्हि 'भूतले ने घटः इति' इति चेत् ; न ; भवतोऽपि 'न घटे" घटाभावः' इति कुतः २० प्रतिपत्तिः ? प्रत्यक्षादेवेति चेत् ; न ; विधिमात्रस्यैव तद्व्यापारत्वात् । तदसत्त्वनिषेधोऽपि तस्यैव व्यापार इति चेत् ; स यदि पूर्व स एव तद्व्यापारो न पश्चाद्भावी विधिः, तदा प्रत्यक्षस्यापरमात् । ततो यथेदं विधिवादिनोच्यते -
"आहुर्विधात प्रत्यक्ष न निषेद्ध विपश्चितः ।
नैकत्व आगमस्तेन प्रत्यक्षेण विरुद्ध्यते ॥" [ ब्रह्मसि० २।१ ] इति ; २५ तथा निषेधवादिनापि वक्तव्यम्
आहुनिषेद्धृ प्रत्यक्षं न विधात विपश्चितः । न शून्यत्व आगमस्तेन प्रत्यक्षेण विरुद्ध्यते ॥११०२।।
१-तञ्चैव तत् आ०, ब०, ५० । २ न च तत्र तबुद्धा -आ०, ब०, प० । ३ विवेचनम् । ४ विवेचनात्मकः । ५ तस्यापि वि-आ०, ब०, प०। ६ प्रत्यक्षस्य । ७ भेदप्रतिभासविवेचनम् । ८ तदैव भा०,०,५०। प्रत्यक्षमेव । ९ -रपूर्वत्वेऽसिद्धत्वेन ता० । १० प्रत्यक्षस्य । ११ प्रत्यक्षेण । १२ “न व्यवच्छेदः कस्यचित"-ब्रह्मसि०। १३ न पट इति चेन मा०, ब०, प० । १४ घटेषु घ-आ०, ब०, प० ।