________________
४६२ न्यायविनिश्चयविवरणे
[१११२२ सर्वनिषेधे क आगमः, किं वा प्रत्यक्षं यो येन विरद्धयत इति चेत् ; न ; सर्वाभेदेऽपि तुल्यत्वात । सत्यम् ; न वस्तुतः तत्रापि तदुभयम् , अविद्यानिबन्धनं तु विद्यत इति चत्न ; अन्यत्रापि संवृतिनिबन्धनस्य भावात् । सैव कथं तत्रेति चेत् ? अविद्या
कथमितरत्र ? अथाविद्या विद्याऽद्वैतप्रतिबन्धिनी न भवति तस्याः सर्वाकारैर्वक्तुमशक्यत्वा५ दिति चेत् ; न ; संवृतेरपि 'तथात्वेन नैरात्म्यवादप्रतिबन्धित्वानुपपत्तेः ।
अथ विधिसमय एव तस्य स व्यापारः कथं विध्यनुवादेन भवेत् ? 'अपूर्वप्रसिद्धतया विधेरनुवादायोगात् । नापि तत्पश्चाद्भावी से तस्य व्यापारः तदा प्रत्यक्षस्यैवाऽभावात् इति न प्रत्यक्षात् “विधेयासत्त्वव्यवच्छेदः । मा भूदिति चेत् ; विधिरपि न
भवेत , तस्य तद्रूपत्वात् "विधेर्विधेयासत्त्वव्यवच्छेदरूपत्वात्" [ब्रह्मसि० पृ० ४७] इति १. मण्डनवचनात् । मा भूद् विध्यनुवादेन तदसनव्यवच्छेदः प्रत्यक्षात् तद्रूपतयैव तदुपगमात् ,
तदनुवादेन तु तद्व्यवच्छेदः प्रत्यभिज्ञानादेव प्रत्यक्षविहिते घटे तदनुवादेन तत्र स्मरणोपनीतस्य तदभावस्य 'नायमिह' इति प्रत्यभिज्ञया प्रतिपत्तेरिति चेत् ; 'भूतले न घटः' इत्यपि प्रतिपत्तिस्तत एवेत्यलमभिनिवेशेन । यदि विधिप्रत्यक्षत एव अन्यव्यवच्छेदः ; स तर्हि भूतले घटादेरिव
प्रतिक्षणपरिणामादेरपि स्यात् तद्विविक्ततयापि तस्य प्रतिपत्तेरिति चेत् ; अस्ति प्रतिपत्तिः न तु १५ प्रमाणम् , अर्थक्रियाकारित्वादिलिङ्गोपनीतेन तत्परिणामानुमानेन वाध्यमानत्वात् , न तर्हि
घटादिव्यवच्छेदेऽपि प्रमाणम् , आम्नायेनैव अभेदविषयेण बाधनादिति चेत् ; न; तस्य प्रतिविधास्य. मानत्वात् । ततो भेदस्य प्रत्यक्षत एव प्रतिपत्तेरुपपन्न मुक्तम्-'स्वलक्षणमसङ्कीर्णम्' इति । असङ्कीर्णपदेन स्वलक्षणस्य विशेषात्मकत्वं समानपदेन च सामान्यात्मकत्वमुक्तम् ।
अतः सामान्यविशेषात्मकत्वात् सर्व वस्तु सविकल्पकमेव नाऽसहायस्वभावम् । अत एवाह२० 'सविकल्पकम्' इति ।
___ सत्यम् ; अस्ति भेदस्य प्रत्यक्षादिना प्रतिपत्तिः, न तु वस्तुसत्त्वम् , आम्नायेनैव अभेदविषयेण बाधनात् । न चैवम् आम्नायस्यापि भेदविशेषस्य तस्मादसिद्धिः-बाध्यमानत्वेन अप्रमाणत्वादिति मन्तव्यम् ; तत्त्वावेदनलक्षणस्यैव प्रामाण्यस्य तंत्र तेने बाधनान्न व्यवहारावि.
संवादलक्षणस्य, अवस्तुविषयत्वेऽपि अविद्यासंस्कारस्थैर्येण सम्भवात्", तस्य च न तेन बाधनम् २५ अविरोधात् । कथमेवं प्रत्यक्षादेः 'तदपेक्षेणैव तेन बाधनमिति चेत् ? न; स्वरूपप्रतीतिं प्रत्येव 'तस्य तदपेक्षत्वात् न स्वार्थप्रतीति प्रति लब्धस्वरूपस्य स्वत एव तदुपपत्तेः, अन्यथा प्रामाण्यमेव न स्यात् स्वकार्य प्रति निरपेक्षतयैव तदुपपत्तेः । स्वरूपप्रतीतिहेतुत्वस्य तु न तेन बाधनं तत्त्वा.
१ वक्त मशक्यत्वेन । २ असत्त्वनिषेधः। ३ पूर्वमप्रसिद्धतया । ४ असत्त्वनिषेधः। ५ विधेयासत्वस्य व्य-आ०, ब०, प० । । प्रत्यक्षत्वात् आ०, ब०, प०। ७ प्रत्यभिज्ञातः। ८ प्रतिक्षणपरिणामविविक्ततया । ९ प्रत्यक्ष एव ता०। १० प्रत्यक्षात् । ११ प्रत्यक्षे । १२ आम्नायेन । १३ स्य वस्तु-आ०, ब०, प० । १४ "प्रत्यक्षादीनां तु व्यावहारिक प्रामाण्यम् , अविद्यासंस्कारस्य स्थेम्ना व्यवहारविपर्ययाभावात् ।"-ब्रह्मसि. पृ. ४० । १५ प्रत्यक्षापेक्षेणैव । १६ आम्नायस्य प्रत्यक्षापेक्षत्वात् । १७ प्रामाण्योपपत्तः ।