________________
१।१२२]
प्रथमा प्रत्यक्षप्रस्ताव वेदनभागस्यैव बाधनात् तत्रैव विरोधात् । 'तदविशेषादाम्नायस्यैव किन्न प्रत्यक्षादिना बाधनमिति चेत् ? न; प्रत्यक्षादितः तदपेक्षतया परत्वेन आम्नायस्यैव बलीयस्त्वात् । बलीयसा हि दुर्बलस्य बाधनं लोकवत् न तेन तस्य । दृश्यते च पूर्वापवादेन परस्य बलीयस्त्वम् , यथैकत्व. ज्ञानात् द्वित्वज्ञानस्य ततोऽपि त्रित्वज्ञानस्य तस्य तदुपमर्देनोपपत्तेः । ततो न भेदस्य वस्तुसत्त्वम् "तत्प्रत्यक्षादौ तत्त्वावेदनस्य "इदं सर्व यदयमात्मा" [बृहदा० २।४।६] इति, "आत्मैवेदं ५ सर्वम्" [छान्दो० ७।२५।२] इति, “सर्व वै खल्विदं ब्रह्म" [छान्दो० ३।१४।१] इति चाम्नायेन सर्वाभेदमवद्योतयता बाधनात् । तन्न वस्तुतः स्वलक्षणस्यासङ्कीर्णत्वं प्रतिभासमात्रादेव व्यवहारप्रसिद्धप्रामाण्यात् तदुपपत्तेरिति चेत् ; किमिदम् आम्नायस्य अभेदविषयत्वम् ? तत्परिज्ञानत्वमिति चेत् ; न ; अचेतनत्वात् । तत्परिज्ञानं प्रति हेतुत्वमिति चेत् ; तत्परिज्ञानमपि यदि विषयाव्यतिरिक्तं तर्हि तस्य स्वतस्ता प्रतिपत्तौ भेद एव १० तदर्थः स्यानाभेद इति कथं तेन प्रत्यक्षादेः भेदविषयस्य बाधनम् ? एकवाक्यतया तदुपोद्वलनस्यैवोपपत्तेः । अप्रतिपत्तौ च व्यतिरेकस्य तदव्यतिरेकात् तत्परिज्ञानस्यापि न प्रतिपत्तिरिति कथं ततः सर्वाभेदस्याधिगति: ? प्रतिपत्रन्तरगतादपि ततस्तत्प्रसङ्गात् । व्यतिरेकेणैव तस्याप्रतिपत्तिर्न रूपान्तरेणेति चेत् ;न; प्रतिपन्नेतरयोरेकत्र विरोधात् । अविरोधेवा भेदाभेदयोरपि तत्र तदुपपत्तेः कुतो न तत्त्वावेदनमेव प्रामाण्यम् आम्नायवत् प्रत्यक्षादेरपि १५ भवेत् ? अव्यतिरिक्तमेव ततस्तदिति चेत् ; न; नित्यत्वेन अकार्यत्वापत्तेः । नित्यो हि तद्विषयः सर्वाभेदलक्षणः परमात्मा स वा एष महानज आत्माऽजरोऽमरोऽमृतोऽभयो ब्रह्म" [बृहदा० ४।४।२५] इति श्रवणात् । कथं तदव्यतिरेके तत्परिज्ञानस्यानित्यत्वं यत आम्नायादुत्पत्तिः । तन्न तस्माद्धातिरिक्तम् । नाप्यव्यतिरिक्तम् ; मायामयत्वेनावस्तुत्वात् , वस्तुनैव (न्येव) व्यतिरेकेतरविकल्पोपपत्तिरिति चेत् ; न तर्हि तस्य कार्यतापि, अवस्तुनि तस्या २० अप्यप्रसिद्धः । तन्न आम्नायस्य स्वतः तत्परिज्ञानहेतुत्वेन वा तद्विषयत्वम् , यतस्तेन प्रत्यक्षादेर्भेदविषयस्य प्रतिपीडनमुपपद्येत । सत्यप्याम्नायाद् ब्रह्मणः परिज्ञाने
ब्रह्म तच्चेत् समर्थ न खपुष्पाद भिद्यते कथम् ? । प्रतिभासबलाचेन्न तस्यासत्यपि दर्शनात् ।।११०३॥ विना कार्येण सामर्थ्यमपि तस्य न युज्यते । कार्यार्थमेव यल्लोके तत्प्रसिद्धिपदं गतम् ॥११०४।। कार्यमस्ति प्रपञ्चश्वेत मिथस्तस्माच्च तंद्यदि । भिन्नमेव कथन्न स्यादसङ्कीर्णं स्वलक्षणम् ॥११०५।।
१ विरोधाविशेषात् । २ प्रत्यक्षापेक्षतया । ३ “पौर्वापर्ये पूर्वदौर्बल्यं प्रकृतिवत्”-मी०सू० ६।५।५४ । ४ भेदप्रत्यक्षादौ । ५-नमिति-ता०। ६ विषयव्यतिरिक्तत्वेन । ७ विषयात् परिज्ञानम्। ८ स एष-आ०,०प० । ९ सत्यस्याम्ना-आ०, ब०,५०।१० प्रपश्चात्मक कार्यम् ।