________________
४६४
न्यायविनिश्चयविवरणे
[१।१२२ प्रपञ्चोऽन्योन्यभिन्नोऽपि न भिन्नः परमात्मनः । तस्य तत्परिणामत्वात् सुवर्णात्तद्विकारवत् ॥११०६॥ इति चेत्किन्न तद्व्यापी तथैवासौ प्रकाशते । सत्यज्ञानस्वभावोऽयं यदाम्नायेषु पठ्यते ॥ ११०७॥ तथा तस्य प्रकाशे च कथमुक्तमिदं श्रुतौ । .
"एप सर्वेषु भूतेषु गूढात्मा न प्रकाशते ॥"११०८॥ इति ।
कुतो वा देवदत्तादेर्न तथा सम्प्रतिपत्तिः जीवस्य तस्य तद्विकारत्वात् । न हि प्रकृतिधर्मः स्वप्रकाशः विकारे 'तस्यातद्रूपतया ततो भेदादिति चेत् ; न ; "तत्त्वमसि"
[छान्दो० ६।८।७] इत्यादि श्रुतिभ्यः परमात्मरूपताया एव जीवे प्रतिपत्तेः। अन्यथा कथं १० तस्यं ज्ञानादमृतत्वस्याप्यवक्लृप्तिः विकारस्य प्रकृतावेव प्रलयात् । न च प्रलयरूपमेव अमृतत्वम् ;
अशुद्धिपरिक्षयविशिष्टस्य स्वरूपस्यैव तत्त्वेन ब्रह्मविदां प्रसिद्धत्वात् । तन्न विकारात्मत्वे जीवस्य तदवक्लूप्तिः । तथा च भागवतं भाष्यम्-"विकारात्मकत्वे हि जीवस्याभ्युपगम्यमाने विकारस्य प्रकृतिसम्बन्धे प्रलयप्रसङ्गान्न ज्ञानादमृतत्वमवकल्पेत" [व० शा० भा० १।४।२२] इति ।
भवतु तर्हि देहेन्द्रियमनोबुद्धिसङ्घातोपाधिसम्पर्ककलुषीकृतत्वात्तस्यं ततो भेद इति १५ चेत् ; कस्य तत् कालुष्यम् ? जीवस्येति चेत् ; ननु जीवः परमात्मैव, "अनेन जीवेनात्मना"
[छान्दो० ६।३।२] इति श्रवणात् , ततः 'तस्यैव तत्कालुष्यं ततश्च भेदः' इति रिक्ता वाचो युक्तिः । ततः सत्यपि देहेन्द्रियाद्युपाधिभेदे परमात्माऽभिन्न एव जीव इति कथमसावात्मानं प्रतिपद्यमानः सर्वव्यापिनमेव न प्रतिपद्यते ? 'घटाकाशस्यापि कथन तथा प्रतिपत्तिः तस्यापि
पराकाशादभिन्नत्वादिति चेत् ? भवत्येव याद तस्यापि स्वतः प्रतिपत्तिः, न चैवम् , अचेतनत्वेन २० परत एव तस्य प्रतिपत्तेः । तच्च संसारिज्ञानम् । न च तस्य सकलात्मनि वस्तुनि प्रवृत्तिः
शक्तिवैकल्यादिति उपपन्ना गुहोदरगतेन तदवच्छिन्नतयैवाकाशस्य प्रतिपत्तिः । योगिज्ञानापेक्षया तु नायं प्रश्नः, तेन पराकाशाऽभिन्नस्यैव तस्य परिच्छेदात् । ततो यदि सकलभेदव्याप्येको ज्ञानात्मा तदा तथैव तस्य प्रकाशात् तस्येव तदभेदेन जीवानामपि तत्राविप्रतिपत्त्या भवितव्यम्।
न चैवम् , तन्न तदभेदेन तत्परिणामत्वं प्रपञ्चस्य । २५ न च प्रपञ्चो नाम कश्चिदस्ति वस्तुभूतः “ऐतदात्म्यमिदं सर्व तत्सत्यं स आत्मा"
[ छान्दो० ६।८।७ ] इत्यादिभिः श्रुतिभिः परमात्मन एव तात्त्विकस्योपदर्शनात् न प्रपञ्चस्य । तत्र 'इन्द्रो मायाभिः पुरुरूपः” [ ऋक्सं० ४।७।३३ ] इत्यादिभिः मायारूपत्वस्यैव निवेदनात् । तद्रूप एव स तत्परिणाम इति चेत् ; कथं नित्यशुद्धत्वं तस्य ? प्रफचरूपावा. प्रेवाऽशुद्धित्वात् । तदवाप्तेश्च तत्परिणामित्वेऽवश्यम्भावात् सुवर्णादे रुचकादिरूपावाप्तिवत् ।
१ प्रपशव्यापी । २ परमात्मा । ३ कठोप० ३।२। ४ स्वप्रकाशरूपत्वेन । ५ तस्य तद्रूप-आ०, ब०, प० । ६ जीवस्य । ७ अमृतत्वेन । ८ जीवस्य । ९ घटाकारस्यापि-आ०, ब०,०।